Vishnu Sahasranamam

  • Sanskrit
  • English
  • Tamil
  • Telugu
  • Kannada
  • Malayalam

श्रीविष्णुसहस्रनामस्तोत्रम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २॥व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ३॥व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ ४॥अविकाराय शुद्धाय नित्याय परमात्मने । सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ ५॥यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् । विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ६॥ॐ नमो विष्णवे प्रभविष्णवे । श्रीवैशम्पायन उवाच — श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः । युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ ७॥युधिष्ठिर उवाच — किमेकं दैवतं लोके किं वाप्येकं परायणम् । स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ ८॥को धर्मः सर्वधर्माणां भवतः परमो मतः । किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ९॥भीष्म उवाच — जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् । स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः ॥ १०॥तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् । ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च ॥ ११॥अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् । लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ १२॥ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् । लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ १३॥एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ १४॥परमं यो महत्तेजः परमं यो महत्तपः । परमं यो महद्ब्रह्म परमं यः परायणम् ॥ १५॥पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । दैवतं दैवतानां च भूतानां योऽव्ययः पिता ॥ १६॥यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ १७॥तस्य लोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥ १८॥यानि नामानि गौणानि विख्यातानि महात्मनः । ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १९॥ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः । छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ २०॥अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः । त्रिसामा हृदयं तस्य शान्त्यर्थे विनियोज्यते ॥ २१॥विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् । अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमं ॥ २२ ॥अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य । श्री वेदव्यासो भगवान् ऋषिः । अनुष्टुप् छन्दः । श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता । अमृतांशूद्भवो भानुरिति बीजम् । देवकीनन्दनः स्रष्टेति शक्तिः । उद्भवः क्षोभणो देव इति परमो मन्त्रः । शङ्खभृन्नन्दकी चक्रीति कीलकम् । शार्ङ्गधन्वा गदाधर इत्यस्त्रम् । रथाङ्गपाणिरक्षोभ्य इति नेत्रम् । त्रिसामा सामगः सामेति कवचम् । आनन्दं परब्रह्मेति योनिः । ऋतुः सुदर्शनः काल इति दिग्बन्धः ॥

श्रीविश्वरूप इति ध्यानम् । श्रीमहाविष्णुप्रीत्यर्थे सहस्रनामस्तोत्रपाठे विनियोगः ॥

ध्यानम् । क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकतेर्मौक्तिकानां मालाकॢप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः । शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः ॥ १॥भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः । अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि ॥ २॥ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं योगिहृद्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ ३॥मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् । पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥ ४॥नमः समस्तभूतानामादिभूताय भूभृते । अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥ ५॥सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् । सहारवक्षः स्थलशोभिकौस्तुभं नमामि विष्णुं शिरसा चतुर्भुजम् ॥ ६॥छायायां पारिजातस्य हेमसिंहासनोपरि आसीनमम्बुदश्याममायताक्षमलंकृतम् । चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसं रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ॥ ७॥ॐ ।

विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १॥पूतात्मा परमात्मा च मुक्तानां परमा गतिः । अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २॥योगो योगविदां नेता प्रधानपुरुषेश्वरः । नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३॥सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः । सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४॥स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः । अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५॥अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः । विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ ६॥अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः । प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ ७॥ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ ८॥ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः । अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ ९॥सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः । अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ १०॥अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः । वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ ११॥वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः । अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ १२॥रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः । अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥ १३॥सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः । वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ १४॥लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः । चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ १५॥भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः । अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६॥उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः । अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥ १७॥वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः । अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ १८॥महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः । अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ १९॥महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः । अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ २०॥मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः । हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ २१॥अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः । अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ २२॥गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः । निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ २३॥अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः । सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ २४॥आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः । अहः संवर्तको वह्निरनिलो धरणीधरः ॥ २५॥सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः । सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ २६॥असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः । सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥ २७॥वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः । वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ २८॥सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः । नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ २९॥ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः । ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ३०॥अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः । औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ ३१॥भूतभव्यभवन्नाथः पवनः पावनोऽनलः । कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ ३२॥युगादिकृद्युगावर्तो नैकमायो महाशनः । अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ ३३॥इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः । क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ ३४॥अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः । अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ३५॥स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः । वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ३६॥अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः । अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ३७॥पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् । महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८॥अतुलः शरभो भीमः समयज्ञो हविर्हरिः । सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ ३९॥विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः । महीधरो महाभागो वेगवानमिताशनः ॥ ४०॥उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः । करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ४१॥व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः । परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ ४२॥रामो विरामो विरजो मार्गो नेयो नयोऽनयः । वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ४३॥वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः । हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ४४॥ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः । उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ४५॥विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् । अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ४६॥अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः । नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥ ४७॥यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः । सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ४८॥सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् । मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ४९॥स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् । वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ५०॥धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् । अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ ५१॥गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः । आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ ५२॥उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ५३॥सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः । विनयो जयः सत्यसन्धो दाशार्हः सात्वताम्पतिः ॥ ५४॥जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः । अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ ५५॥अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः । आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ५६॥महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः । त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ ५७॥महावराहो गोविन्दः सुषेणः कनकाङ्गदी । गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ५८॥वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः । वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९॥भगवान् भगहाऽऽनन्दी वनमाली हलायुधः । आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ ६०॥सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः । दिवस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ६१॥त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् । संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ ६२॥शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः । गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ६३॥अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः । श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ ६४॥श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः । श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥ ६५॥स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः । विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ६६॥उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः । भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ६७॥अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः । अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ६८॥कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः । त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ६९॥कामदेवः कामपालः कामी कान्तः कृतागमः । अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ ७०॥ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः । ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ७१॥महाक्रमो महाकर्मा महातेजा महोरगः । महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ७२॥स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः । पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ७३॥मनोजवस्तीर्थकरो वसुरेता वसुप्रदः । वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ७४॥सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः । शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ७५॥भूतावासो वासुदेवः सर्वासुनिलयोऽनलः । दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ ७६॥विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् । अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ७७॥एको नैकः सवः कः किं यत् तत्पदमनुत्तमम् । लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ७८॥सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी । वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ७९॥अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् । सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ ८०॥तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः । प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ ८१॥चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः । चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ ८२॥समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः । दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ८३॥शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः । इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४॥उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः । अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥ ८५॥सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः । महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ८६॥कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः । अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ ८७॥सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः । न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ ८८॥सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः । अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ ८९॥अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् । अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ ९०॥भारभृत् कथितो योगी योगीशः सर्वकामदः । आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ ९१॥धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः । अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥ ९२॥सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः । अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥ ९३॥विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः । रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ ९४॥अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः । अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ ९५॥सनात्सनातनतमः कपिलः कपिरव्ययः । स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥ ९६॥अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः । शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ९७॥अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः । विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ ९८॥उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः । वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ ९९॥अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः । चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १००॥अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः । जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ १०१॥आधारनिलयोऽधाता पुष्पहासः प्रजागरः । ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२॥प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः । तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ १०३॥भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः । यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४॥यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः । यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५॥आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः । देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ १०६॥शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः । रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १०७॥सर्वप्रहरणायुध ॐ नम इति । वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी । श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ १०८॥श्री वासुदेवोऽभिरक्षतु ॐ नम इति ।

इतीदं कीर्तनीयस्य केशवस्य महात्मनः । नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ १॥य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् । नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥ २॥वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् । वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ ३॥धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् । कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥ ४॥भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः । सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥ ५॥यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च । अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ ६॥न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति । भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥ ७॥रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ ८॥दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् । स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ ९॥वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः । सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ १०॥न वासुदेवभक्तानामशुभं विद्यते क्वचित् । जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ ११॥इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः । युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥ १२॥न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः । भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे ॥ १३॥द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः । वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १४॥ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् । जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ १५॥इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १६॥सर्वागमानामाचारः प्रथमं परिकल्प्यते । आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १७॥ऋषयः पितरो देवा महाभूतानि धातवः । जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ १८॥योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पादि कर्म च । वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ १९॥एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः । त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ २०॥इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् । पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ २१॥विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् । भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ २२॥न ते यान्ति पराभवम् ॐ नम इति । अर्जुन उवाच — पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम । भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ २३॥श्रीभगवानुवाच — यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव । सोहऽमेकेन श्लोकेन स्तुत एव न संशयः ॥ २४॥स्तुत एव न संशय ॐ नम इति । व्यास उवाच — वासनाद्वासुदेवस्य वासितं भुवनत्रयम् । सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ २५॥श्री वासुदेव नमोऽस्तुत ॐ नम इति । पार्वत्युवाच — केनोपायेन लघुना विष्णोर्नामसहस्रकम् । पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ २६॥ईश्वर उवाच — श्रीराम राम रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं राम नाम वरानने ॥ २७॥श्रीरामनाम वरानन ॐ नम इति । ब्रह्मोवाच — नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे । सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ॥ २८॥सहस्रकोटियुगधारिणे ॐ नम इति ।

सञ्जय उवाच — यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ २९॥श्रीभगवानुवाच — अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ३०॥परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ३१॥आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः । सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ ३२॥कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ ३३॥इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् । ॐ तत् सत् ।

Shree Vishnu Sahastranam Stotram

Shuklam Varadaram Vishnum, Sasi Varnam Chatur Bhujam, Prasanna Vadanan Dyayet, Sarva Vignoba Sandaye || 1 ||yasya dwirvakradhyah pArishadhyah parah shatam, vighnam nighnanti satatam vishvaksenam tamaashraye || 2 ||Vyasam Vasishtanaptharam, Sakthe Poutramakalmasham, Parasarathmajam vande, Shukathatham Taponidhime || 3 ||Vyasa Vishnu Roopaya, Vyasa Roopaya Vishnave, Namo Vai Brahma Vidaya, Vasishtaya Namo Nama || 4 ||Avikaraya Shuddhaya, Nityaya Paramatmane, Sadaika Roopa Roopaya, Vishnave Sarva Jishnave || 5 ||Yasya Smarana Mathrena, Janma Samsara Bandhanath. Vimuchayate Nama Tasmai, Vishnave Prabha Vishnave || 6 ||OM Namo Vishnave Prabha Vishnave

Shri Vaisampayana Uvacha

Shrutva Dharmaneshena, Pavanani Cha Sarvasha, Yudishtra Santhanavam Puneravabhya Bhashata || 7 ||Yudishtra Uvacha

Kimekam Daivatham Loke, Kim Vapyegam Parayanam, Sthuvantha Kam Kamarchanda Prapnyur Manava Shubham || 8 ||Ko Dharma sarva Dharmanam Paramo Matha Kim Japanmuchyathe Jandur Janma Samsara Bhandanat || 9 ||Sri Bheeshma Uvacha

Jagat Prabhum Devadevam Anantham Purushottamam, Stuvan Nama Sahasrena, Purusha Sathathothida || 10 ||Tameva Charchayan Nityam, Bhaktya Purushamavyayam, Dhyayan Sthuvan Namasyancha Yajamanasthameva Cha || 11 ||Anadi Nidhanam Vishnum Sarva Loka Maheswaram Lokadyaksham Stuvannityam Sarva Dukkhago Bhaved || 12 ||Brahmanyam Sarva Dharmagnam Lokanam Keerthi Vardhanam, Lokanatham Mahadbhootham Sarva Bhootha Bhavodbhavam || 13 ||Aeshame Sarva Dharmanam Dharmadhika Tamo Matha, Yad Bhaktyo Pundarikaksham Stuvyr-Archanayr-Nara Sada || 14 ||Paramam Yo Mahatteja, Paramam Yo Mahattapa Paramam Yo Mahad Brahma Paramam Ya Parayanam || 15 ||Pavithranam Pavithram Yo Mangalanam Cha Mangalam, Dhaivatham Devathanam Cha Bhootanam Yo Vya Pitha || 16 ||Yatha Sarvani Bhoothani Bhavandyathi Yugagame Yasmincha Pralayam Yanthi Punareve Yuga Kshaye || 17 ||Tasya Loka Pradhanasya Jagannatathasya Bhoopathe Vishno Nama Sahasram Me Srunu Papa Bhayapaham || 18 ||Yani Namani Gounani Vikhyatani Mahatmanah Rishibhih Parigeetani Tani Vakshyami Bhootaye || 19 ||Rishir Namnam Sahsrasya Veda Vyaso Maha Munih Chando Aunustup Stada Devo Bhagawan Devaki Sutha || 20 ||Amruthamsu Bhavo Bhhejam Shakthir Devaki Nandana Trisama Hridayam Tasya Santhyarthe Viniyujyade || 21 ||Vishnum Jishnum Mahavishnum Prabha Vishnun Maheswaram Aneka Roopa Daityantham Namami Purushottamam || 22 ||Asya Shriivishhnor-Divyasahasranaama Stotra Mahaa Mantrasya Shri Vedavyaaso Bhagavaan Rishhih Anushhtuph Chhandah Shri Mahaavishnuh Paramaatmaa Shriimannaaraayano Devataa Amritaam Shuudbhavo Bhaanuriti Bieejam Devakee Nandanah Srashteti Shaktih Udbhavah Kshobhano Deva Iti Paramo Mantrah Shankha-Bhrinnandakii Chakriiti Keelakam Shaarngadhanvaa Gadaadhara Ityastram Rathaangapaani Rakshobhya Iti Netram Trisaamaa Saamagah Saameti Kavacham Aanandam Parabrahmeti Yonih Rituh Sudarshanah Kaala Iti Digbandhah ||

Shri Vishvaruupa Iti Dhyaanam Shri Mahaavishhnu Priityartham Sahasranaama Jape Viniyogah ||

Dhyanam

Ksheerodanvath Pradese Suchimani Vilasad Saikathe Maukthikanam Malaklupthasanastha Spatikamani Nibhai Maukthiker Mandithangah Shubrai-Rabrai-Rathabrai Ruparivirachitai Muktha Peeyusha Varshai Anandi Na Puniyadari Nalina Gadha Sankapanir Mukundaha || 1 ||Bhoo Padau Yasya Nabhi R Viyadasu Ranila Schandra Suryaau Cha Netre Karnavasasiro Dhaumugamabhi Dhahano Yasya Vasteyamabhdhi Anthastham Yasya Viswam Sura Nara Khaga Go Bhogi Gandharva Dhaityai, Chitram Ram Ramyathe Tham Thribhuvana Vapusham Vishnumeesam Namami || 2 ||Santhakaram Bujaga Sayanam Padmanabham Suresam, Viswadharam Gagana sadrusam Megha Varnam Shubangam Lakshmi Kantham Kamala Nayanam Yogi Hrid Dyana Gamyam Vande Vishnum Bava Bhayaharam Sarva Lokaika Nadham || 3 ||Megha Syamam Peetha Kouseya Vasam Srivatsangam Kausthuboth Bhasithangam Punyopetham Pundareekayathaksham Vishnum Vande Sarva Lokaika Natham || 4 ||Namah Samasta Bhutanam-Adi-Bhutaya Bhubrite Aneka-Ruparupaya Vishnave Prabha-Vishnave || 5 ||Sasanga Chakram Sakerita Kundalam Sappeethavastram Saraseruhekshanam, Sahara Vaksha Sthala Shobhi Kousthubham Namai Vishnum Sirasa Chaturbhujam || 6 ||Chayayam Parijatasys Hemasimhasanopari, Aseenamam Budha Syama Mayathakashamalangrutham, Chandranana Chathurbahum Sreevatsangitha Vakshasam, Rukmani Satyabhamabhyam Sahitham Krishnamasraye || 7 ||Vishnu Sahasranamam Stotra Lyrics

Om Vishvam Vishnur-Vashatkaro Bhuta-Bhavya-Bhavat-Prabhuh | Bhutakrud Bhutabhrud Bhavo Bhutatma Bhuta-Bhavanah || 1 ||Putatma Paramatma Cha Muktanam Parama Gatih | Avyayah Purusha Sakshi Kshetrajno-Kshara Eva Cha || 2 ||Yogo Yogavidam Neta Pradhana-Purushesvarah | Narasimha-Vapu Shriman Kesavah Purushottamah || 3 ||Sarvah Sarvah Sivah Sthanur-Bhutadir-Nidhir-Avyayah | Sambhavo Bhavano Bharta Prabhavah Prabhur-Isvarah || 4 ||Svayambhuh Sambhur-Adityah Pushkaraksho Mahasvanah | Anandi-Nidhano Dhata Vidhata Dhaturuttamah || 5 ||Aprameyo Hrishikesah Padma-Nabho-Mara-Prabhuh | Visvakarma Manustvashta Sthavishtah Sthaviro-Dhruvah || 6 ||Agrahyah Sasvatah Krishno Lohitakshah Pratardanah | Prabhutas-Trikakubdhama Pavitram Mangalam Param || 7 ||Isanah Pranadah Prano Jyeshthah Sreshthah Prajapatih | Hiranyagarbho Bhugarbho Madhavo Madhusudanah || 8 ||Ishvaro Vikrami Dhanvi Medhavi Vikramah Kramah | Anuttamo Duradharsah Krutajnah Krutiratmavan || 9 ||Suresah Sharanam Sharma Vishvaretah Prajabhavah| Ahah Samvasaro Vyalah Pratyayah Sarvadarshanah|| 10 ||Ajah Sarveshvarah Siddhah Siddhih Sarvadir Acyutah | Vrushakapir Ameyatma Sarva-Yoga-Vinihshrutah || 11 ||Vasur Vasumanah Satyah Samatma Sammitah Samah | Amoghah Pundarikaksho Vrusha-Karma Vrushakrutih ||12 ||Rudro Bahushira Babhrur Vishva-Yonih Shuchi Sravah | Amrutah Shashvata-Sthanur Vararoho Maha-Tapah || 13 ||Sarvagah Sarva-Vid-Bhanur Vishvaksheno Janardanah | Vedo Vedavid Avyango Vedango Vedavit Kavih || 14 ||Lokadhyakshah Suradhyaksho Dharmadhyakshah Krutakrutah | Chaturatma Chaturvyuhas Chaturdamstras Chatur-Bhujah || 15 ||Bhrajishnur-Bhojanam Bhokta Sahishnur Jagad-Adhijah | Anagho Vijayo Jeta Vishva-Yonih Punar-Vasuh || 16 ||Upendro Vamanah Pramshur Amoghah Suchir Urjitah | Atindrah Samgrahah Sargo Dhrutatma Niyamo Yamah || 17 ||Vedyo Vaidyah Sada-Yogi Viraha Madhavo Madhuh | Atindriyo Mahamayo Mahotsaho Mahabalah || 18 ||Mahabuddir Mahaviryo Mahasaktir Mahadyutih | Anirdesyavapuh Shriman Ameyatma Mahadridhruk || 19 ||Maheshvaso Mahibharta Shrinivasah Satam Gatih | Aniruddhah Suranando Govindo Govidam Patih || 20 ||Marichir-Damano Hamsah Suparno Bhujagottamah | Hiranya-Nabha Sutapah Padmanabhah Prajapatih || 21 ||Amrutyuh Sarva-Druk Simhah Sandhata Sandhiman Sthirah | Ajo Durmarshanah Shasta Vishrutatma Surariha || 22 ||Gurur Gurutamo Dhama Satyah Satya-Parakramah | Nimisho Animishah Sragvi Vachaspatir Udaradhih || 23 ||Agranir Gramanih Shriman Nyayo Neta Samiranah | Sahsra-Murdha Vishvatma Sahasraksha Sahasrapat || 24 ||Avrtano Nivrutatma Samvrutah Sampramardanah | Ahah Samvartako Vahnir Anilo Dharani-Dharah || 25 ||Suprasadah Prasannatma Vishva-Dhrug Vishva-Bhug Vibhuh | Sat-Karta Sat-Krutah Sadhur Jahnur Narayano Narah || 26 ||Asankhyeyo Prameyatma Visistah Shishtakruch Chucih | Siddharthah Siddha-Sankalpah Siddhidah Siddhisadhanah || 27 ||Vrushahi Vrushabho Vishnur Vrushaparva Vrushodarah | Vardhano Vardhamanascha Viviktah Shruti-Sagarah || 28 ||Subhujo Durdharo Vagmi Mahendro Vasodo Vasuh | Naikarupo Bruhad-Rupah Shipivishtah Prakashana || 29 ||Ojas Tejo Dyuti-Dharah Prakashatma Pratapanah | Vruddhah Spahstaksharo Mantras Chandramshur Bhaskaradyutih || 30 ||Amrtamshu Dbhavo Bhanuh Shashabinduh Sureshvarah | Aushadham Jagatah Setuh Satya-Dharma-Prarakramah || 31 ||Bhuta-Bhavya-Bhavan-Nathah Pavanah Pavano Analah | Kamaha Kamakrut Kantah Kamah Kamapradah Prabhuh || 32 ||Yugadikrud Yugavarto Naikamayo Mahashanah | Adrushyo Vyakta-Rupascha Sahasrajid Anantajit || 33 ||Ishtovishistah Shishtestah Sikhandi Nahusho Vrushah | Krodhaha Krodhakrut Karta Vishva-Bahur Mahidharah || 34 ||Achyutah Prathitah Pranah Pranado Vasavanujah | Apam-Nidhir Adhishthanam Apramattah Pratishtitah || 35 ||Skandah Skanda-Dharo Dhuryo Varado Vayuvahanah | Vashudevo Bruhad-Bhanur Adidevah Purandarah || 36 ||Ashokas-Taranas-Tarah Surah Saurir Janeshvarah | Anukulah Shatavartah Padmi Padma-Nibhekshanah || 37 ||Padmanabho Aravindakshah Padmagarbhah Sarirabhrut | Mahardhir Ruddho Vruddhatma Mahaksho Garuda-Dhvajah || 38 ||Atulah Sarabho Bhimah Samayagno Havirharih | Sarvalakshana Lakshanyo Lakshmivan Samitinjayah || 39 ||Viksharo Rohito Margo Hetur-Damodarah Sahah | Mahidharo Mahabhago Vegavan Amitashanah || 40 ||Udbhavah Kshobhano Devan Shrigarbhah Parameshvarah | Karanam Kaaranam Karta Vikarta Gahano Guhah || 41 ||Vyavasayo Vyavasthanah Samsthanah Sthanado Dhruvah | Parardhih Parama-Spashtas Tushtah Pushtah Subhekshanah || 42 ||Ramo Viramo Virato Margo Neyo Nayonayah | Virah Shaktimatam Shreshtho Dharmo Dharma-Vid Uttamah || 43 ||Vaikunthah Purushah Pranah Pranadah Pranavah Pruthuh | Hiranya-Garbhah Shatrughno Vyapto Vayur Adhokshajah || 44 ||Rituh Sudarshanah Kalah Parameshti Parigrahah| Ugrah Samvatsaro Daksho Vishramo Vishva-Dakshinah || 45 ||Vistarah Sthavara-Sthanuh Pramanam Bijam Avyayam | Arthonartho Mahakosho Mahabhogo Mahadhanah || 46 ||Anirvinnah Sthavishthobhur Dharma-Yupo Maha-Makhah | Nakshatra-Nemir Nakshatri Kshamah Kshamah Samihanah || 47 ||Yajna Ijyo Mahejyas Cha Kratuh Satram Satamgatih | Sarvadarshi Vimuktatma Sarvagyo Gynanam-Uttamam || 48 ||Suvratah Sumukhah Sukshmah Sughoshah Sukhadah Suhrut | Manoharo Jita-Krodho Virabahur Vidaranah || 49 ||Svapanah svavasho Vyapi Naikatma Naika-Karma-Krut | Vatsaro Vatsalo Vatsi Ratna-Garbho Dhaneshvarah || 50 ||Dharmagub Dharmakrud Dharmi Sad-Asatksharam Aksharam | Avigyata Sahashramsur Vidhata Kruta-Lakshanah || 51 ||Gabhasti-Nemih Sattvasthah Simho Bhuta-Maheshvarah | Adidevo Mahadevo Devesho Devabhrud-Guruh || 52 ||Uttaro Gopatir Gopta Gyanagamyah Puratanah | Sharira-Bhuta-Bhrud Bhokta Kapindro Bhuridakshinah || 53 ||Somapo Amrutapah Somah Purujit Purushottamah | Vinayo Jayah Satyasandho Dasharhah Satvatampatih || 54 ||Jivo Vinayita-Sakshi Mukundo Amita Vikramah | Ambhonidhir Anantatma Mahodadhishayonatakah || 55 ||Ajo Maharhah Svabhavyo Jitamitrah Pramodanah | Anando Nandano Nandah Satya-Dharma Trivikramah || 56 ||Maharshih Kapilacharyah Krutagyo Medini-Patih | Tripadas Tridashadhyaksho Mahashrungah Krutantakrut || 57 ||Mahavaraho Goivindah Sushenah Kanakangadi | Guhyo Gabhiro Gahano Guptas Chakra-Gadadharah || 58 ||Vedhah Svango Ajitah Krishno Drudhah Sankarshano Acyutah | Varuno Vaaruno Vrukshah Pushkaraksho Mahamanah || 59 ||Bhagavan Bhagahanandi Vanamali Halayudhah | Adityo Jyotir-Adityah Sahishnur Gatisattamah || 60 ||Sudhanva-Khandaparashur-Daruno Dravinapradah | Divah-Spruk Sarva-Drug Vyaso Vachaspatir Ayonijah || 61 ||Trisama Samagah Sama Nirvanam Bheshajam Bhishak | Sanyasakrut Chamah Santo Nishtha Shantih Parayanam || 62 ||Shubhangah Shantidah Srashta Kumudah Kuvalesayah | Gohito Gopatir Gopta Vrushabhaksho Vrushapriyah || 63 ||Anivarti Nivrutatma Samkshepta Kshema-Kruchivah | Shrivasta-Vakshah Shrivasah Shripatih Shrimatam-Varah || 64 ||Shridah Shrishah Shrinivasah Shrinidhih Shri-Vibhavanah | Shridharah Shrikarah Shreyah Shriman Loka-Trayashrayah || 65 ||Svakshah Svangah Shatanando Nandir Jyotir-Ganeshvarah | Vijitatma Vidheyatma Satkirtischinna-Samsayah || 66 ||Udirnah Sarvata-Chakshur-Anisah Sasvata-Sthirah | Bhushayo Bhushano Bhutir Vishokah Shoka-Nashanah || 67 ||Archishman Architah Kumbho Vishuddhatma Vishodhanah | Aniruddho Pratirathah Pradyumno Amita-Vikramah || 68 ||Kalaneminiha Virah Saurih Sura-Janeshvarah | Trilokatma Trilokeshah Keshavah Keshiha Harih || 69 ||Kamadevah Kamapalah Kami Kantah Krutagamah | Anirdeshya-Vapur Vishnur Viro Ananto Dhananjayah || 70 ||Brahmanyo Brahmakrud-Brahma Brahma Brahma-Vivardhanah | Brahmavid Brahmano Brahmi Brahmgno Brahmana-Priyah || 71 ||Mahakramo Mahakarma Mahateja Mahoragah | Mahakratur Mahayajva Mahayagyo Mahahavih || 72 ||Stavyah Stavapriyah Stotram Stutih Stota Ranapriyah | Purnah Purayita Punyah Punyakirtir Anamayah || 73 ||Manojavas Tirthakaro Vasureta Vasupradah | Vasuprado Vasudevo Vasur Vasumana Havih || 74 ||Sadgatih Sat-Krutih Satta Sad-Bhutih Sat-Parayanah | Suraseno Yadushreshthah Sannivasah Suyamunah ||75 ||Bhutavaso Vasudevah Sarvasu-Nilayo Analah | Darpaha Darpado Drupto Durdharo-Atha-Parajitah || 76 ||Vishvamurtir Mahamurtir Diptamurtir Amurtiman | Anekamurtir Avyaktah Shatamurtih Shatananah || 77 ||Eko Naikah Savah Kah Kim Yat Tat Padam-Anuttamam | Lokabandhur Lokanatho Madhavo Bhakta-Vastalah || 78 ||Suvarna Varno Hemango Varangas Chandanangadi | Viraha Vishamah Sunyo Ghrutasir Achalaschalah || 79 ||Amani Manado Manyo Lokasvami Triloka-Dhruk | Sumedha Medhajo Dhanyah Satyamedha Dharadharah || 80 ||Tejovrusho Dyuti-Dharah Sarva-Shastra-Bhrutam-Varah | Pragrahonigraho Vyagro Naikashrungo Gadagrajah || 81 ||Chaturmurtis Chaturbahus Chaturvyuhas Chaturgatih | Chaturatma Chaturbhavas Chaturvedavid Ekapat || 82 ||Samavarto Anivrutatma Durjayo Duratikramah | Durlabho Durgamo Durgo Duravaso Durariha || 83 ||Shubhango Lokasarangah Sutantus Tantu-Vardhanah | Indrakarma Mahakarma Krutakarma Krutagamah || 84 ||Udbhavah Sundarah Sundo Ratnanabhah Sulochanah | Arko Vajasanah Shrungi Jayantah Sarva-Vij-Jayi || 85 ||Suvarna-Bindur-Akshobhyah Sarva-Vagishvareshvarah | Mahahrado Maha-Garto Maha-Bhuto Maha-Nidhih || 86 ||Kumudah Kundarah Kundah Parjanyah Pavano Anilah | Amrutasho Amrutavapuh Sarvagyah Sarvato-Mukha || 87 ||Sulabhah Suvratah Siddhah Shatru-Jit Shatru-Tapanah | Nyagrodho Adumbaro-Svatthas Chanurandhra-Nishudhanah || 88 ||Sahasrarchi Sapta-Jihvah Saptaidhah Sapta-Vahanah | Amurtir Anagho Achintyo Bhayakrud Bhaya-Nashanah || 89 ||Anur Bruhat Krusah Sthulo Gunabrun Nirguno Mahan | Adhrutah Svadhrutah Svasyah Pragvamsho Vamshavardhanah || 90 ||Bhara-Bhrut Kathito Yogi Yogishah Sarva-Kamadah | Ashramah Shramanah Kshamah Suparno Vayu-Vahanah || 91 ||Dhanurdharo Dhanurvedo Dando Damayita Damah | Aparajitah Sarvasaho Niyanta Niyamo Yamah || 92 ||Satvavan Satvikah Satyah Satya-Dharma-Parayanah | Abhiprayah Priyarho-Rhah Priyakrut Pritivardhanah || 93 ||Vihayasagatir Jyotih Suruchir Huta-Bhug Vibhuh | Ravir Virochanah Suryah Savita Ravilochanah || 94 ||Ananto Huta-Bhug Bhokta Sukhado Naikajo-Grajah | Anirvinnah Sadamarshi Lokadhishthana-Madbhutah || 95 ||Sanat Sanatana-Tamah Kapilah Kapir Avyayah | Svastidah Svastikrut Svasti Svastibhuk Svasti-Dakshinah || 96 ||Araudrah Kundali Chakri Vikramyurjita-Shasanah | Shabdatigah Shabdasahah Sisirah Sarvari-Karah || 97 ||Akrurah Peshalo Daksho Dakshinah Kshiminam Varah | Vidvattamo Vitabhayah Punya-Shravana-Kirtanah || 98 ||Uttarano Dushkrutiha Punyo Duh-Svapna-Nasanah | Viraha Rakshanah Santo Jivanah Paryavasthitah || 99 ||Ananta-Rupo Ananta-Shri Jitamanyur Bhayapahah | Chaturashro Gabhiratma Vidisho Vyadisho Dishah || 100 ||Anadi Bhurbhuvo Lakshmih Suviro Ruchirangadah | Janano Janajanmadir Bhimo Bhima-Parakramah || 101 ||Adharanilayo Dhata Pushpahasah Prajagarah | Urdhvagah Sat-Pathacharah Pranadah Pranavah Panah || 102 ||Pramanam Prananilayah Pranabhrut Pranajivanah | Tatvam Tatvavidekatma Janma-Mrutyu-Jaratigah || 103 ||Bhurbhuvah Svastarus-Tarah Savita Prapitamahah | Yagyo Yagya-Patir-Yajva Yagyango Yagya-Vahanah || 104 ||Yagyabhrud Yagyakrud Yagyi Yagyabhrug Yagyasadhanah | Yagyanantakrud Yagyaguhyam Annam Annada Eva Cha || 105 ||Atmayonih Svayamjato Vaikhanah Samagayanah | Devaki-Nandanah Srashtha Kshitishah Papanashanah || 106 ||Shankhabrun -Nandaki Chakri Sharangadhnva Gadadharah | Rathanga Panirakshobhyah Sarva-Praharanayudhah || 107 ||Sree Sarva-Praha-Rana-Yudha Om Naman Ithi

Vanamali Gadi Sharangi Shankhi Chakri Cha Nandaki | Shriman Narayano Vishnur-Vasudevo-Abhirakshatu (repeat these 2 times) || 108 ||Iteedam Keerta-Neeyasya Kesha-Vasya Maha-Tmanah |

Namnam sahasram divya-nam ashe-shena prakeer-titam || 1 ||Ya Edam Shrunuyat Nityam Yaschhapi Parikeertayet Nashubham-Prapnuyat-Kinchit So Mutreha-Cha-Manavah || 2 ||Vedan-Tago Bramhana-Syat Kshatriyo Vijayee Bavet Vaisyo Dhana-Samru-Ddhasyat Shhoodra Sukha Mavap-Nuyat || 3 ||Dharmarthee Prapnu-Yatdharmam Artharthee Chartha Mapnuyat Kamana-Vapnuyat-Kamee Prajarthee Chapnu-Yat-Prajam || 4 ||Bhakt-Imanya Sadotthaya Shuchi-Stadgata Manasah Sahasram Vasu-Devasya Namna Metat Prakee-Rtayet || 5 ||Yashah Prapnoti Vipulam Ynati Praadhanya Meva-Cha Achalam shriya mapnothi shreyah prapnotya-nuttamam || 6 ||Na Bhayam Kvachi Dapnoti Veeryam Tejachha Vindati Bhava Tyarogo Dhyu-Timan Bala-Roopa Gunan-Vitah || 7 ||Rogarto Muchyate Rogat Baddho Muchyeta Bandhanat Bhaya Nmuchyeta Bheetastu Muchye Tapanna Apadha || 8 ||Durganya-Titara Tyashu Purushah Purusho-Ttamam Stuva Nnama-Saha-Srena Nityam Bhakti Saman-Vitah || 9 ||Vasu-Deva-Shrayo Marthyo Vasu-Deva Para-Yanah Sarva-Papa Vishu-Ddhatma Yati Bramha Sana-Tanam || 10 ||Na Vasu-Deva Bhakta-Nam Ashubham Vidyate Kvachit Janma Mrithyu Jara Vyadhi Bhayam Naivapa Jayate || 11 ||Emam Stava Madhee-Yanah Shraddha-Bhakti Sama-Nvitah Yujye Tatam Sukha-Kshantih Shree-Dhrati Smruti Keertibhih || 12 ||Na Krodho Na Matsaryam Na Lobho Na Shubha-Matih Bhavanti Kruta Punyanam Bhakta-Nam Puru-Shottame || 13 ||Dhyou Sachan-Drarka Nakshatra Kham Disho Bhoorma-Hodadhih Vasu-Devasya Veeryena Vidhrutani Mahat-Manah || 14 ||Sa-Sura-Sura Gandharvam Sa-Yaksho-Raga Raksha-Sam Jaga-Dvashe Varta-Tedam Krishnasya Sachara-Charam || 15 ||Indri-Yani Mano-Buddhih Satvam Tejo-Balam Dhrutih| Vasu-Devatma Kanyahuh Kshetram-Kshetragyna Eva Cha || 16 ||Sarva-Gamana Macharah Prathamam Pari-Kalpate Aachara Prabhavo Dharmo Dharmasya Pradhu-Rachyutah || 17 ||Rushayah Pitaro Devah Maha-Bhootani Dhatavah | Jangama-Jangamam Chedam Jagannaraya-Nodbhavam || 18 ||Yogo Gynanam Tatha Sankhyam Vidya Shilpadi Karma-Cha Vedah Shasthrani Vigynana Etat-Sarvam Janar-Danat || 19 ||Eko-Vishnu Rmaha-Dbhootam Prutha-Gbhoota Nyanekasah Trilon-Lokan-Vyapya-Bhootatma Bhujkte Vishva-Bhugavyayah || 20 ||Emam Stavam Bhagavato Vishnor-Vyasena Keertitam Pathedya Echhet Purushah Shreyah Praptum Sukhani-Cha || 21 ||Vishve-Shvara Majam Devam Jagatah Prabhu Mavyam Bhajanti Ye Pushka-Raksham Nate Yanti Para-Bhavam || 22 ||Na Te Yanti Para-Bhavam Om Nama Iti

Arjuna Uvacha

Padma-Patra Visha-Laksha Padma-Nabha Suro-Ttama Bhaktana Manu-Raktanam Trata Bhava Janar-Dana || 23 ||Shree Bhagavan Uvacha

Yo-Mam Nama Saha-Srena Stotu Michhati Pandava Sho Ha Mekena Shlokena Stuta Eva Na Samshayah || 24 ||Stita Eva Na Samshaya Om Nama Iti

Vyasa Uvacha

Vasa-Naad Vasu Devsaya Vasitham Te Jaga-Thrayam Sarva-Butha Nivaso Si Vaasu-Deva Namo Stute || 25 ||Vasu-Deva Namostute Om Nama Iti

Parvati Uyvachv

Keno-Paayena Laghunaa Vishnur-Nama Saha-Skrakam Patyate Pamditeh Nityam Shortu Michha Myaham Prabho || 26 ||Eshwara Uvacha

Shree-Rama Ram Rameti Rame Raame Mano-Rame Saha-Sranaama Tattulyam Raama-Naama Varaa-Nane || 27 ||(Read the above 2 lines 2 more times)

Raama-Naama Varaa-Nana Om Nama Iti

Bramho Uvacha

Namo Stvana-Ntaya Saha-Sramurtaye Saha-Srapaa-Dakshi Shiroru-Bahave Saha-Sranaamne Puru-Shaya Shashvate Saha-Srakoti-Yuga-Dharine Namah || 28 ||Saha-Srakoti Yuga-Dharina Om Nama Iti

Sanjaya Uvacha

Yatra Yoge-Shvarah Krushno Yatra Paardho Dhanur-Dharah Tatra-Shreeh Vijayo Bhutih Dhruva Neetih Mati Rmama || 29 ||Shree Bhagawan Uvacha

Ananya-Schanta-Yanto Mam Ye Janaah Paryu-Panate Tesham Nitya-Bhiyuktanaam Yoga-Kshemam Vaha-Myaham || 30 ||Parithrayana Sadhunam Vinasaya Cha Dushkritham, Dharma Samsthapanarthaya Sambhavami Yuge Yuge || 31 ||Aartha-Vishanna-Shithila-Schabhitah Ghoreshucha-Vyadhi-Varthamanah Samkeertya-Narayana-Shabda-Matram Vimukta-Duhghah-Sukhino-Bhavanti || 32 ||Kayena-Vaacha Mana-Sendhriyerva Buddhyatma-Naavaa Prakrute-Swabhawat Karomi Yadyat Sakalam Parasmai Naaraa-Yanayeti Samarpayamiv || 33 ||

ஶ்ரீவிஷ்ணுஸஹஸ்ரநாமஸ்தோத்ரம்

ஶுக்லாம்ப³ரத⁴ரம் விஷ்ணும் ஶஶிவர்ணம் சதுர்பு⁴ஜம் । ப்ரஸந்நவத³நம் த்⁴யாயேத் ஸர்வவிக்⁴நோபஶாந்தயே ॥ 1॥யஸ்ய த்³விரத³வக்த்ராத்³யா: பாரிஷத்³யா: பர: ஶதம் । விக்⁴நம் நிக்⁴நந்தி ஸததம் விஷ்வக்ஸேநம் தமாஶ்ரயே ॥ 2॥வ்யாஸம் வஸிஷ்ட²நப்தாரம் ஶக்தே: பௌத்ரமகல்மஷம் । பராஶராத்மஜம் வந்தே³ ஶுகதாதம் தபோநிதி⁴ம் ॥ 3॥வ்யாஸாய விஷ்ணுரூபாய வ்யாஸரூபாய விஷ்ணவே । நமோ வை ப்³ரஹ்மநித⁴யே வாஸிஷ்டா²ய நமோ நம: ॥ 4॥அவிகாராய ஶுத்³தா⁴ய நித்யாய பரமாத்மநே । ஸதை³கரூபரூபாய விஷ்ணவே ஸர்வஜிஷ்ணவே ॥ 5॥யஸ்ய ஸ்மரணமாத்ரேண ஜந்மஸம்ஸாரப³ந்த⁴நாத் । விமுச்யதே நமஸ்தஸ்மை விஷ்ணவே ப்ரப⁴விஷ்ணவே ॥ 6॥ஓம் நமோ விஷ்ணவே ப்ரப⁴விஷ்ணவே । ஶ்ரீவைஶம்பாயந உவாச — ஶ்ருத்வா த⁴ர்மாநஶேஷேண பாவநாநி ச ஸர்வஶ: । யுதி⁴ஷ்டி²ர: ஶாந்தநவம் புநரேவாப்⁴யபா⁴ஷத ॥ 7॥யுதி⁴ஷ்டி²ர உவாச — கிமேகம் தை³வதம் லோகே கிம் வாப்யேகம் பராயணம் । ஸ்துவந்த: கம் கமர்சந்த: ப்ராப்நுயுர்மாநவா: ஶுப⁴ம் ॥ 8॥கோ த⁴ர்ம: ஸர்வத⁴ர்மாணாம் ப⁴வத: பரமோ மத: । கிம் ஜபந்முச்யதே ஜந்துர்ஜந்மஸம்ஸாரப³ந்த⁴நாத் ॥ 9॥பீ⁴ஷ்ம உவாச — ஜக³த்ப்ரபு⁴ம் தே³வதே³வமநந்தம் புருஷோத்தமம் । ஸ்துவந் நாமஸஹஸ்ரேண புருஷ: ஸததோத்தி²த: ॥ 10॥தமேவ சார்சயந்நித்யம் ப⁴க்த்யா புருஷமவ்யயம் । த்⁴யாயந் ஸ்துவந் நமஸ்யம்ஶ்ச யஜமாநஸ்தமேவ ச ॥ 11॥அநாதி³நித⁴நம் விஷ்ணும் ஸர்வலோகமஹேஶ்வரம் । லோகாத்⁴யக்ஷம் ஸ்துவந்நித்யம் ஸர்வது³:கா²திகோ³ ப⁴வேத் ॥ 12॥ப்³ரஹ்மண்யம் ஸர்வத⁴ர்மஜ்ஞம் லோகாநாம் கீர்திவர்த⁴நம் । லோகநாத²ம் மஹத்³பூ⁴தம் ஸர்வபூ⁴தப⁴வோத்³ப⁴வம் ॥ 13॥ஏஷ மே ஸர்வத⁴ர்மாணாம் த⁴ர்மோ’தி⁴கதமோ மத: । யத்³ப⁴க்த்யா புண்ட³ரீகாக்ஷம் ஸ்தவைரர்சேந்நர: ஸதா³ ॥ 14॥பரமம் யோ மஹத்தேஜ: பரமம் யோ மஹத்தப: । பரமம் யோ மஹத்³ப்³ரஹ்ம பரமம் ய: பராயணம் ॥ 15॥பவித்ராணாம் பவித்ரம் யோ மங்க³லாநாம் ச மங்க³லம் । தை³வதம் தை³வதாநாம் ச பூ⁴தாநாம் யோ’வ்யய: பிதா ॥ 16॥யத: ஸர்வாணி பூ⁴தாநி ப⁴வந்த்யாதி³யுகா³க³மே । யஸ்மிம்ஶ்ச ப்ரலயம் யாந்தி புநரேவ யுக³க்ஷயே ॥ 17॥தஸ்ய லோகப்ரதா⁴நஸ்ய ஜக³ந்நாத²ஸ்ய பூ⁴பதே । விஷ்ணோர்நாமஸஹஸ்ரம் மே ஶ்ருணு பாபப⁴யாபஹம் ॥ 18॥யாநி நாமாநி கௌ³ணாநி விக்²யாதாநி மஹாத்மந: । ருஷிபி⁴: பரிகீ³தாநி தாநி வக்ஷ்யாமி பூ⁴தயே ॥ 19॥ருஷிர்நாம்நாம் ஸஹஸ்ரஸ்ய வேத³வ்யாஸோ மஹாமுநி: । ச²ந்தோ³’நுஷ்டுப் ததா² தே³வோ ப⁴க³வாந் தே³வகீஸுத: ॥ 20॥அம்ருதாம்ஶூத்³ப⁴வோ பீ³ஜம் ஶக்திர்தே³வகிநந்த³ந: । த்ரிஸாமா ஹ்ருத³யம் தஸ்ய ஶாந்த்யர்தே² விநியோஜ்யதே ॥ 21॥விஷ்ணும் ஜிஷ்ணும் மஹாவிஷ்ணும் ப்ரப⁴விஷ்ணும் மஹேஶ்வரம் । அநேகரூப தை³த்யாந்தம் நமாமி புருஷோத்தமம் ॥ 22 ॥அஸ்ய ஶ்ரீவிஷ்ணோர்தி³வ்யஸஹஸ்ரநாமஸ்தோத்ரமஹாமந்த்ரஸ்ய । ஶ்ரீ வேத³வ்யாஸோ ப⁴க³வாந் ருஷி: । அநுஷ்டுப் ச²ந்த³: । ஶ்ரீமஹாவிஷ்ணு: பரமாத்மா ஶ்ரீமந்நாராயணோ தே³வதா । அம்ருதாம்ஶூத்³ப⁴வோ பா⁴நுரிதி பீ³ஜம் । தே³வகீநந்த³ந: ஸ்ரஷ்டேதி ஶக்தி: । உத்³ப⁴வ: க்ஷோப⁴ணோ தே³வ இதி பரமோ மந்த்ர: । ஶங்க²ப்⁴ருந்நந்த³கீ சக்ரீதி கீலகம் । ஶார்ங்க³த⁴ந்வா க³தா³த⁴ர இத்யஸ்த்ரம் । ரதா²ங்க³பாணிரக்ஷோப்⁴ய இதி நேத்ரம் । த்ரிஸாமா ஸாமக³: ஸாமேதி கவசம் । ஆநந்த³ம் பரப்³ரஹ்மேதி யோநி: । ருது: ஸுத³ர்ஶந: கால இதி தி³க்³ப³ந்த⁴: ॥

ஶ்ரீவிஶ்வரூப இதி த்⁴யாநம் । ஶ்ரீமஹாவிஷ்ணுப்ரீத்யர்தே² ஸஹஸ்ரநாமஸ்தோத்ரபாடே² விநியோக³: ॥

த்⁴யாநம் । க்ஷீரோத³ந்வத்ப்ரதே³ஶே ஶுசிமணிவிலஸத்ஸைகதேர்மௌக்திகாநாம் மாலாக்லுப்தாஸநஸ்த²: ஸ்ப²டிகமணிநிபை⁴ர்மௌக்திகைர்மண்டி³தாங்க³: । ஶுப்⁴ரைரப்⁴ரைரத³ப்⁴ரைருபரிவிரசிதைர்முக்தபீயூஷ வர்ஷை: ஆநந்தீ³ ந: புநீயாத³ரிநலிநக³தா³ ஶங்க²பாணிர்முகுந்த³: ॥ 1॥பூ⁴: பாதௌ³ யஸ்ய நாபி⁴ர்வியத³ஸுரநிலஶ்சந்த்³ர ஸூர்யௌ ச நேத்ரே கர்ணாவாஶா: ஶிரோ த்³யௌர்முக²மபி த³ஹநோ யஸ்ய வாஸ்தேயமப்³தி⁴: । அந்த:ஸ்த²ம் யஸ்ய விஶ்வம் ஸுரநரக²க³கோ³போ⁴கி³க³ந்த⁴ர்வதை³த்யை: சித்ரம் ரம்ரம்யதே தம் த்ரிபு⁴வந வபுஷம் விஷ்ணுமீஶம் நமாமி ॥ 2॥ஓம் ஶாந்தாகாரம் பு⁴ஜக³ஶயநம் பத்³மநாப⁴ம் ஸுரேஶம் விஶ்வாதா⁴ரம் க³க³நஸத்³ருஶம் மேக⁴வர்ணம் ஶுபா⁴ங்க³ம் । லக்ஷ்மீகாந்தம் கமலநயநம் யோகி³பி⁴ர்த்⁴யாநக³ம்யம் யோகி³ஹ்ருத்³த்⁴யாநக³ம்யம் வந்தே³ விஷ்ணும் ப⁴வப⁴யஹரம் ஸர்வலோகைகநாத²ம் ॥ 3॥மேக⁴ஶ்யாமம் பீதகௌஶேயவாஸம் ஶ்ரீவத்ஸாங்கம் கௌஸ்துபோ⁴த்³பா⁴ஸிதாங்க³ம் । புண்யோபேதம் புண்ட³ரீகாயதாக்ஷம் விஷ்ணும் வந்தே³ ஸர்வலோகைகநாத²ம் ॥ 4॥நம: ஸமஸ்தபூ⁴தாநாமாதி³பூ⁴தாய பூ⁴ப்⁴ருதே । அநேகரூபரூபாய விஷ்ணவே ப்ரப⁴விஷ்ணவே ॥ 5॥ஸஶங்க²சக்ரம் ஸகிரீடகுண்ட³லம் ஸபீதவஸ்த்ரம் ஸரஸீருஹேக்ஷணம் । ஸஹாரவக்ஷ: ஸ்த²லஶோபி⁴கௌஸ்துப⁴ம் நமாமி விஷ்ணும் ஶிரஸா சதுர்பு⁴ஜம் ॥ 6॥சா²யாயாம் பாரிஜாதஸ்ய ஹேமஸிம்ஹாஸநோபரி ஆஸீநமம்பு³த³ஶ்யாமமாயதாக்ஷமலங்க்ருதம் । சந்த்³ராநநம் சதுர்பா³ஹும் ஶ்ரீவத்ஸாங்கித வக்ஷஸம் ருக்மிணீ ஸத்யபா⁴மாப்⁴யாம் ஸஹிதம் க்ருஷ்ணமாஶ்ரயே ॥ 7॥ஓம் ।

விஶ்வம் விஷ்ணுர்வஷட்காரோ பூ⁴தப⁴வ்யப⁴வத்ப்ரபு⁴: । பூ⁴தக்ருத்³பூ⁴தப்⁴ருத்³பா⁴வோ பூ⁴தாத்மா பூ⁴தபா⁴வந: ॥ 1॥பூதாத்மா பரமாத்மா ச முக்தாநாம் பரமா க³தி: । அவ்யய: புருஷ: ஸாக்ஷீ க்ஷேத்ரஜ்ஞோ’க்ஷர ஏவ ச ॥ 2॥யோகோ³ யோக³விதா³ம் நேதா ப்ரதா⁴நபுருஷேஶ்வர: । நாரஸிம்ஹவபு: ஶ்ரீமாந் கேஶவ: புருஷோத்தம: ॥ 3॥ஸர்வ: ஶர்வ: ஶிவ: ஸ்தா²ணுர்பூ⁴தாதி³ர்நிதி⁴ரவ்யய: । ஸம்ப⁴வோ பா⁴வநோ ப⁴ர்தா ப்ரப⁴வ: ப்ரபு⁴ரீஶ்வர: ॥ 4॥ஸ்வயம்பூ⁴: ஶம்பு⁴ராதி³த்ய: புஷ்கராக்ஷோ மஹாஸ்வந: । அநாதி³நித⁴நோ தா⁴தா விதா⁴தா தா⁴துருத்தம: ॥ 5॥அப்ரமேயோ ஹ்ருஷீகேஶ: பத்³மநாபோ⁴’மரப்ரபு⁴: । விஶ்வகர்மா மநுஸ்த்வஷ்டா ஸ்த²விஷ்ட²: ஸ்த²விரோ த்⁴ருவ: ॥ 6॥அக்³ராஹ்ய: ஶாஶ்வத: க்ருஷ்ணோ லோஹிதாக்ஷ: ப்ரதர்த³ந: । ப்ரபூ⁴தஸ்த்ரிககுப்³தா⁴ம பவித்ரம் மங்க³லம் பரம் ॥ 7॥ஈஶாந: ப்ராணத³: ப்ராணோ ஜ்யேஷ்ட²: ஶ்ரேஷ்ட²: ப்ரஜாபதி: । ஹிரண்யக³ர்போ⁴ பூ⁴க³ர்போ⁴ மாத⁴வோ மது⁴ஸூத³ந: ॥ 8॥ஈஶ்வரோ விக்ரமீ த⁴ந்வீ மேதா⁴வீ விக்ரம: க்ரம: । அநுத்தமோ து³ராத⁴ர்ஷ: க்ருதஜ்ஞ: க்ருதிராத்மவாந் ॥ 9॥ஸுரேஶ: ஶரணம் ஶர்ம விஶ்வரேதா: ப்ரஜாப⁴வ: । அஹ: ஸம்வத்ஸரோ வ்யால: ப்ரத்யய: ஸர்வத³ர்ஶந: ॥ 10॥அஜ: ஸர்வேஶ்வர: ஸித்³த⁴: ஸித்³தி⁴: ஸர்வாதி³ரச்யுத: । வ்ருஷாகபிரமேயாத்மா ஸர்வயோக³விநி:ஸ்ருத: ॥ 11॥வஸுர்வஸுமநா: ஸத்ய: ஸமாத்மா’ஸம்மித: ஸம: । அமோக⁴: புண்ட³ரீகாக்ஷோ வ்ருஷகர்மா வ்ருஷாக்ருதி: ॥ 12॥ருத்³ரோ ப³ஹுஶிரா ப³ப்⁴ருர்விஶ்வயோநி: ஶுசிஶ்ரவா: । அம்ருத: ஶாஶ்வதஸ்தா²ணுர்வராரோஹோ மஹாதபா: ॥ 13॥ஸர்வக³: ஸர்வவித்³பா⁴நுர்விஷ்வக்ஸேநோ ஜநார்த³ந: । வேதோ³ வேத³வித³வ்யங்கோ³ வேதா³ங்கோ³ வேத³வித் கவி: ॥ 14॥லோகாத்⁴யக்ஷ: ஸுராத்⁴யக்ஷோ த⁴ர்மாத்⁴யக்ஷ: க்ருதாக்ருத: । சதுராத்மா சதுர்வ்யூஹஶ்சதுர்த³ம்ஷ்ட்ரஶ்சதுர்பு⁴ஜ: ॥ 15॥ப்⁴ராஜிஷ்ணுர்போ⁴ஜநம் போ⁴க்தா ஸஹிஷ்ணுர்ஜக³தா³தி³ஜ: । அநகோ⁴ விஜயோ ஜேதா விஶ்வயோநி: புநர்வஸு: ॥ 16॥உபேந்த்³ரோ வாமந: ப்ராம்ஶுரமோக⁴: ஶுசிரூர்ஜித: । அதீந்த்³ர: ஸங்க்³ரஹ: ஸர்கோ³ த்⁴ருதாத்மா நியமோ யம: ॥ 17॥வேத்³யோ வைத்³ய: ஸதா³யோகீ³ வீரஹா மாத⁴வோ மது⁴: । அதீந்த்³ரியோ மஹாமாயோ மஹோத்ஸாஹோ மஹாப³ல: ॥ 18॥மஹாபு³த்³தி⁴ர்மஹாவீர்யோ மஹாஶக்திர்மஹாத்³யுதி: । அநிர்தே³ஶ்யவபு: ஶ்ரீமாநமேயாத்மா மஹாத்³ரித்⁴ருக் ॥ 19॥மஹேஷ்வாஸோ மஹீப⁴ர்தா ஶ்ரீநிவாஸ: ஸதாம் க³தி: । அநிருத்³த⁴: ஸுராநந்தோ³ கோ³விந்தோ³ கோ³விதா³ம் பதி: ॥ 20॥மரீசிர்த³மநோ ஹம்ஸ: ஸுபர்ணோ பு⁴ஜகோ³த்தம: । ஹிரண்யநாப⁴: ஸுதபா: பத்³மநாப⁴: ப்ரஜாபதி: ॥ 21॥அம்ருத்யு: ஸர்வத்³ருக் ஸிம்ஹ: ஸந்தா⁴தா ஸந்தி⁴மாந் ஸ்தி²ர: । அஜோ து³ர்மர்ஷண: ஶாஸ்தா விஶ்ருதாத்மா ஸுராரிஹா ॥ 22॥கு³ருர்கு³ருதமோ தா⁴ம ஸத்ய: ஸத்யபராக்ரம: । நிமிஷோ’நிமிஷ: ஸ்ரக்³வீ வாசஸ்பதிருதா³ரதீ⁴: ॥ 23॥அக்³ரணீர்க்³ராமணீ: ஶ்ரீமாந் ந்யாயோ நேதா ஸமீரண: । ஸஹஸ்ரமூர்தா⁴ விஶ்வாத்மா ஸஹஸ்ராக்ஷ: ஸஹஸ்ரபாத் ॥ 24॥ஆவர்தநோ நிவ்ருத்தாத்மா ஸம்வ்ருத: ஸம்ப்ரமர்த³ந: । அஹ: ஸம்வர்தகோ வஹ்நிரநிலோ த⁴ரணீத⁴ர: ॥ 25॥ஸுப்ரஸாத³: ப்ரஸந்நாத்மா விஶ்வத்⁴ருக்³விஶ்வபு⁴க்³விபு⁴: । ஸத்கர்தா ஸத்க்ருத: ஸாது⁴ர்ஜஹ்நுர்நாராயணோ நர: ॥ 26॥அஸங்க்²யேயோ’ப்ரமேயாத்மா விஶிஷ்ட: ஶிஷ்டக்ருச்சு²சி: । ஸித்³தா⁴ர்த²: ஸித்³த⁴ஸங்கல்ப: ஸித்³தி⁴த³: ஸித்³தி⁴ஸாத⁴ந: ॥ 27॥வ்ருஷாஹீ வ்ருஷபோ⁴ விஷ்ணுர்வ்ருஷபர்வா வ்ருஷோத³ர: । வர்த⁴நோ வர்த⁴மாநஶ்ச விவிக்த: ஶ்ருதிஸாக³ர: ॥ 28॥ஸுபு⁴ஜோ து³ர்த⁴ரோ வாக்³மீ மஹேந்த்³ரோ வஸுதோ³ வஸு: । நைகரூபோ ப்³ருஹத்³ரூப: ஶிபிவிஷ்ட: ப்ரகாஶந: ॥ 29॥ஓஜஸ்தேஜோத்³யுதித⁴ர: ப்ரகாஶாத்மா ப்ரதாபந: । ருத்³த⁴: ஸ்பஷ்டாக்ஷரோ மந்த்ரஶ்சந்த்³ராம்ஶுர்பா⁴ஸ்கரத்³யுதி: ॥ 30॥அம்ருதாம்ஶூத்³ப⁴வோ பா⁴நு: ஶஶபி³ந்து³: ஸுரேஶ்வர: । ஔஷத⁴ம் ஜக³த: ஸேது: ஸத்யத⁴ர்மபராக்ரம: ॥ 31॥பூ⁴தப⁴வ்யப⁴வந்நாத²: பவந: பாவநோ’நல: । காமஹா காமக்ருத்காந்த: காம: காமப்ரத³: ப்ரபு⁴: ॥ 32॥யுகா³தி³க்ருத்³யுகா³வர்தோ நைகமாயோ மஹாஶந: । அத்³ருஶ்யோ வ்யக்தரூபஶ்ச ஸஹஸ்ரஜித³நந்தஜித் ॥ 33॥இஷ்டோ’விஶிஷ்ட: ஶிஷ்டேஷ்ட: ஶிக²ண்டீ³ நஹுஷோ வ்ருஷ: । க்ரோத⁴ஹா க்ரோத⁴க்ருத்கர்தா விஶ்வபா³ஹுர்மஹீத⁴ர: ॥ 34॥அச்யுத: ப்ரதி²த: ப்ராண: ப்ராணதோ³ வாஸவாநுஜ: । அபாம்நிதி⁴ரதி⁴ஷ்டா²நமப்ரமத்த: ப்ரதிஷ்டி²த: ॥ 35॥ஸ்கந்த³: ஸ்கந்த³த⁴ரோ து⁴ர்யோ வரதோ³ வாயுவாஹந: । வாஸுதே³வோ ப்³ருஹத்³பா⁴நுராதி³தே³வ: புரந்த³ர: ॥ 36॥அஶோகஸ்தாரணஸ்தார: ஶூர: ஶௌரிர்ஜநேஶ்வர: । அநுகூல: ஶதாவர்த: பத்³மீ பத்³மநிபே⁴க்ஷண: ॥ 37॥பத்³மநாபோ⁴’ரவிந்தா³க்ஷ: பத்³மக³ர்ப⁴: ஶரீரப்⁴ருத் । மஹர்த்³தி⁴ர்ருத்³தோ⁴ வ்ருத்³தா⁴த்மா மஹாக்ஷோ க³ருட³த்⁴வஜ: ॥ 38॥அதுல: ஶரபோ⁴ பீ⁴ம: ஸமயஜ்ஞோ ஹவிர்ஹரி: । ஸர்வலக்ஷணலக்ஷண்யோ லக்ஷ்மீவாந் ஸமிதிஞ்ஜய: ॥ 39॥விக்ஷரோ ரோஹிதோ மார்கோ³ ஹேதுர்தா³மோத³ர: ஸஹ: । மஹீத⁴ரோ மஹாபா⁴கோ³ வேக³வாநமிதாஶந: ॥ 40॥உத்³ப⁴வ: க்ஷோப⁴ணோ தே³வ: ஶ்ரீக³ர்ப⁴: பரமேஶ்வர: । கரணம் காரணம் கர்தா விகர்தா க³ஹநோ கு³ஹ: ॥ 41॥வ்யவஸாயோ வ்யவஸ்தா²ந: ஸம்ஸ்தா²ந: ஸ்தா²நதோ³ த்⁴ருவ: । பரர்த்³தி⁴: பரமஸ்பஷ்டஸ்துஷ்ட: புஷ்ட: ஶுபே⁴க்ஷண: ॥ 42॥ராமோ விராமோ விரஜோ மார்கோ³ நேயோ நயோ’நய: । வீர: ஶக்திமதாம் ஶ்ரேஷ்டோ² த⁴ர்மோ த⁴ர்மவிது³த்தம: ॥ 43॥வைகுண்ட²: புருஷ: ப்ராண: ப்ராணத³: ப்ரணவ: ப்ருது²: । ஹிரண்யக³ர்ப⁴: ஶத்ருக்⁴நோ வ்யாப்தோ வாயுரதோ⁴க்ஷஜ: ॥ 44॥ருது: ஸுத³ர்ஶந: கால: பரமேஷ்டீ² பரிக்³ரஹ: । உக்³ர: ஸம்வத்ஸரோ த³க்ஷோ விஶ்ராமோ விஶ்வத³க்ஷிண: ॥ 45॥விஸ்தார: ஸ்தா²வரஸ்தா²ணு: ப்ரமாணம் பீ³ஜமவ்யயம் । அர்தோ²’நர்தோ² மஹாகோஶோ மஹாபோ⁴கோ³ மஹாத⁴ந: ॥ 46॥அநிர்விண்ண: ஸ்த²விஷ்டோ²’பூ⁴ர்த⁴ர்மயூபோ மஹாமக²: । நக்ஷத்ரநேமிர்நக்ஷத்ரீ க்ஷம: க்ஷாம: ஸமீஹந: ॥ 47॥யஜ்ஞ இஜ்யோ மஹேஜ்யஶ்ச க்ரது: ஸத்ரம் ஸதாம் க³தி: । ஸர்வத³ர்ஶீ விமுக்தாத்மா ஸர்வஜ்ஞோ ஜ்ஞாநமுத்தமம் ॥ 48॥ஸுவ்ரத: ஸுமுக²: ஸூக்ஷ்ம: ஸுகோ⁴ஷ: ஸுக²த³: ஸுஹ்ருத் । மநோஹரோ ஜிதக்ரோதோ⁴ வீரபா³ஹுர்விதா³ரண: ॥ 49॥ஸ்வாபந: ஸ்வவஶோ வ்யாபீ நைகாத்மா நைககர்மக்ருத் । வத்ஸரோ வத்ஸலோ வத்ஸீ ரத்நக³ர்போ⁴ த⁴நேஶ்வர: ॥ 50॥த⁴ர்மகு³ப்³த⁴ர்மக்ருத்³த⁴ர்மீ ஸத³ஸத்க்ஷரமக்ஷரம் । அவிஜ்ஞாதா ஸஹஸ்ராம்ஶுர்விதா⁴தா க்ருதலக்ஷண: ॥ 51॥க³ப⁴ஸ்திநேமி: ஸத்த்வஸ்த²: ஸிம்ஹோ பூ⁴தமஹேஶ்வர: । ஆதி³தே³வோ மஹாதே³வோ தே³வேஶோ தே³வப்⁴ருத்³கு³ரு: ॥ 52॥உத்தரோ கோ³பதிர்கோ³ப்தா ஜ்ஞாநக³ம்ய: புராதந: । ஶரீரபூ⁴தப்⁴ருத்³போ⁴க்தா கபீந்த்³ரோ பூ⁴ரித³க்ஷிண: ॥ 53॥ஸோமபோ’ம்ருதப: ஸோம: புருஜித்புருஸத்தம: । விநயோ ஜய: ஸத்யஸந்தோ⁴ தா³ஶார்ஹ: ஸாத்வதாம்பதி: ॥ 54॥ஜீவோ விநயிதா ஸாக்ஷீ முகுந்தோ³’மிதவிக்ரம: । அம்போ⁴நிதி⁴ரநந்தாத்மா மஹோத³தி⁴ஶயோ’ந்தக: ॥ 55॥அஜோ மஹார்ஹ: ஸ்வாபா⁴வ்யோ ஜிதாமித்ர: ப்ரமோத³ந: । ஆநந்தோ³ நந்த³நோ நந்த³: ஸத்யத⁴ர்மா த்ரிவிக்ரம: ॥ 56॥மஹர்ஷி: கபிலாசார்ய: க்ருதஜ்ஞோ மேதி³நீபதி: । த்ரிபத³ஸ்த்ரித³ஶாத்⁴யக்ஷோ மஹாஶ்ருங்க³: க்ருதாந்தக்ருத் ॥ 57॥மஹாவராஹோ கோ³விந்த³: ஸுஷேண: கநகாங்க³தீ³ । கு³ஹ்யோ க³பீ⁴ரோ க³ஹநோ கு³ப்தஶ்சக்ரக³தா³த⁴ர: ॥ 58॥வேதா⁴: ஸ்வாங்கோ³’ஜித: க்ருஷ்ணோ த்³ருட⁴: ஸங்கர்ஷணோ’ச்யுத: । வருணோ வாருணோ வ்ருக்ஷ: புஷ்கராக்ஷோ மஹாமநா: ॥ 59॥ப⁴க³வாந் ப⁴க³ஹா’‘நந்தீ³ வநமாலீ ஹலாயுத⁴: । ஆதி³த்யோ ஜ்யோதிராதி³த்ய: ஸஹிஷ்ணுர்க³திஸத்தம: ॥ 60॥ஸுத⁴ந்வா க²ண்ட³பரஶுர்தா³ருணோ த்³ரவிணப்ரத³: । தி³வஸ்ப்ருக் ஸர்வத்³ருக்³வ்யாஸோ வாசஸ்பதிரயோநிஜ: ॥ 61॥த்ரிஸாமா ஸாமக³: ஸாம நிர்வாணம் பே⁴ஷஜம் பி⁴ஷக் । ஸம்ந்யாஸக்ருச்ச²ம: ஶாந்தோ நிஷ்டா² ஶாந்தி: பராயணம் ॥ 62॥ஶுபா⁴ங்க³: ஶாந்தித³: ஸ்ரஷ்டா குமுத³: குவலேஶய: । கோ³ஹிதோ கோ³பதிர்கோ³ப்தா வ்ருஷபா⁴க்ஷோ வ்ருஷப்ரிய: ॥ 63॥அநிவர்தீ நிவ்ருத்தாத்மா ஸங்க்ஷேப்தா க்ஷேமக்ருச்சி²வ: । ஶ்ரீவத்ஸவக்ஷா: ஶ்ரீவாஸ: ஶ்ரீபதி: ஶ்ரீமதாம்வர: ॥ 64॥ஶ்ரீத³: ஶ்ரீஶ: ஶ்ரீநிவாஸ: ஶ்ரீநிதி⁴: ஶ்ரீவிபா⁴வந: । ஶ்ரீத⁴ர: ஶ்ரீகர: ஶ்ரேய: ஶ்ரீமாம்ல்லோகத்ரயாஶ்ரய: ॥ 65॥ஸ்வக்ஷ: ஸ்வங்க³: ஶதாநந்தோ³ நந்தி³ர்ஜ்யோதிர்க³ணேஶ்வர: । விஜிதாத்மா’விதே⁴யாத்மா ஸத்கீர்திஶ்சி²ந்நஸம்ஶய: ॥ 66॥உதீ³ர்ண: ஸர்வதஶ்சக்ஷுரநீஶ: ஶாஶ்வதஸ்தி²ர: । பூ⁴ஶயோ பூ⁴ஷணோ பூ⁴திர்விஶோக: ஶோகநாஶந: ॥ 67॥அர்சிஷ்மாநர்சித: கும்போ⁴ விஶுத்³தா⁴த்மா விஶோத⁴ந: । அநிருத்³தோ⁴’ப்ரதிரத²: ப்ரத்³யும்நோ’மிதவிக்ரம: ॥ 68॥காலநேமிநிஹா வீர: ஶௌரி: ஶூரஜநேஶ்வர: । த்ரிலோகாத்மா த்ரிலோகேஶ: கேஶவ: கேஶிஹா ஹரி: ॥ 69॥காமதே³வ: காமபால: காமீ காந்த: க்ருதாக³ம: । அநிர்தே³ஶ்யவபுர்விஷ்ணுர்வீரோ’நந்தோ த⁴நஞ்ஜய: ॥ 70॥ப்³ரஹ்மண்யோ ப்³ரஹ்மக்ருத்³ ப்³ரஹ்மா ப்³ரஹ்ம ப்³ரஹ்மவிவர்த⁴ந: । ப்³ரஹ்மவித்³ ப்³ராஹ்மணோ ப்³ரஹ்மீ ப்³ரஹ்மஜ்ஞோ ப்³ராஹ்மணப்ரிய: ॥ 71॥மஹாக்ரமோ மஹாகர்மா மஹாதேஜா மஹோரக³: । மஹாக்ரதுர்மஹாயஜ்வா மஹாயஜ்ஞோ மஹாஹவி: ॥ 72॥ஸ்தவ்ய: ஸ்தவப்ரிய: ஸ்தோத்ரம் ஸ்துதி: ஸ்தோதா ரணப்ரிய: । பூர்ண: பூரயிதா புண்ய: புண்யகீர்திரநாமய: ॥ 73॥மநோஜவஸ்தீர்த²கரோ வஸுரேதா வஸுப்ரத³: । வஸுப்ரதோ³ வாஸுதே³வோ வஸுர்வஸுமநா ஹவி: ॥ 74॥ஸத்³க³தி: ஸத்க்ருதி: ஸத்தா ஸத்³பூ⁴தி: ஸத்பராயண: । ஶூரஸேநோ யது³ஶ்ரேஷ்ட²: ஸந்நிவாஸ: ஸுயாமுந: ॥ 75॥பூ⁴தாவாஸோ வாஸுதே³வ: ஸர்வாஸுநிலயோ’நல: । த³ர்பஹா த³ர்பதோ³ த்³ருப்தோ து³ர்த⁴ரோ’தா²பராஜித: ॥ 76॥விஶ்வமூர்திர்மஹாமூர்திர்தீ³ப்தமூர்திரமூர்திமாந் । அநேகமூர்திரவ்யக்த: ஶதமூர்தி: ஶதாநந: ॥ 77॥ஏகோ நைக: ஸவ: க: கிம் யத் தத்பத³மநுத்தமம் । லோகப³ந்து⁴ர்லோகநாதோ² மாத⁴வோ ப⁴க்தவத்ஸல: ॥ 78॥ஸுவர்ணவர்ணோ ஹேமாங்கோ³ வராங்க³ஶ்சந்த³நாங்க³தீ³ । வீரஹா விஷம: ஶூந்யோ க்⁴ருதாஶீரசலஶ்சல: ॥ 79॥அமாநீ மாநதோ³ மாந்யோ லோகஸ்வாமீ த்ரிலோகத்⁴ருக் । ஸுமேதா⁴ மேத⁴ஜோ த⁴ந்ய: ஸத்யமேதா⁴ த⁴ராத⁴ர: ॥ 80॥தேஜோவ்ருஷோ த்³யுதித⁴ர: ஸர்வஶஸ்த்ரப்⁴ருதாம் வர: । ப்ரக்³ரஹோ நிக்³ரஹோ வ்யக்³ரோ நைகஶ்ருங்கோ³ க³தா³க்³ரஜ: ॥ 81॥சதுர்மூர்திஶ்சதுர்பா³ஹுஶ்சதுர்வ்யூஹஶ்சதுர்க³தி: । சதுராத்மா சதுர்பா⁴வஶ்சதுர்வேத³விதே³கபாத் ॥ 82॥ஸமாவர்தோ’நிவ்ருத்தாத்மா து³ர்ஜயோ து³ரதிக்ரம: । து³ர்லபோ⁴ து³ர்க³மோ து³ர்கோ³ து³ராவாஸோ து³ராரிஹா ॥ 83॥ஶுபா⁴ங்கோ³ லோகஸாரங்க³: ஸுதந்துஸ்தந்துவர்த⁴ந: । இந்த்³ரகர்மா மஹாகர்மா க்ருதகர்மா க்ருதாக³ம: ॥ 84॥உத்³ப⁴வ: ஸுந்த³ர: ஸுந்தோ³ ரத்நநாப⁴: ஸுலோசந: । அர்கோ வாஜஸந: ஶ்ருங்கீ³ ஜயந்த: ஸர்வவிஜ்ஜயீ ॥ 85॥ஸுவர்ணபி³ந்து³ரக்ஷோப்⁴ய: ஸர்வவாகீ³ஶ்வரேஶ்வர: । மஹாஹ்ரதோ³ மஹாக³ர்தோ மஹாபூ⁴தோ மஹாநிதி⁴: ॥ 86॥குமுத³: குந்த³ர: குந்த³: பர்ஜந்ய: பாவநோ’நில: । அம்ருதாஶோ’ம்ருதவபு: ஸர்வஜ்ஞ: ஸர்வதோமுக²: ॥ 87॥ஸுலப⁴: ஸுவ்ரத: ஸித்³த⁴: ஶத்ருஜிச்ச²த்ருதாபந: । ந்யக்³ரோதோ⁴’து³ம்ப³ரோ’ஶ்வத்த²ஶ்சாணூராந்த்⁴ரநிஷூத³ந: ॥ 88॥ஸஹஸ்ரார்சி: ஸப்தஜிஹ்வ: ஸப்தைதா⁴: ஸப்தவாஹந: । அமூர்திரநகோ⁴’சிந்த்யோ ப⁴யக்ருத்³ப⁴யநாஶந: ॥ 89॥அணுர்ப்³ருஹத்க்ருஶ: ஸ்தூ²லோ கு³ணப்⁴ருந்நிர்கு³ணோ மஹாந் । அத்⁴ருத: ஸ்வத்⁴ருத: ஸ்வாஸ்ய: ப்ராக்³வம்ஶோ வம்ஶவர்த⁴ந: ॥ 90॥பா⁴ரப்⁴ருத் கதி²தோ யோகீ³ யோகீ³ஶ: ஸர்வகாமத³: । ஆஶ்ரம: ஶ்ரமண: க்ஷாம: ஸுபர்ணோ வாயுவாஹந: ॥ 91॥த⁴நுர்த⁴ரோ த⁴நுர்வேதோ³ த³ண்டோ³ த³மயிதா த³ம: । அபராஜித: ஸர்வஸஹோ நியந்தா’நியமோ’யம: ॥ 92॥ஸத்த்வவாந் ஸாத்த்விக: ஸத்ய: ஸத்யத⁴ர்மபராயண: । அபி⁴ப்ராய: ப்ரியார்ஹோ’ர்ஹ: ப்ரியக்ருத் ப்ரீதிவர்த⁴ந: ॥ 93॥விஹாயஸக³திர்ஜ்யோதி: ஸுருசிர்ஹுதபு⁴க்³விபு⁴: । ரவிர்விரோசந: ஸூர்ய: ஸவிதா ரவிலோசந: ॥ 94॥அநந்தோ ஹுதபு⁴க்³போ⁴க்தா ஸுக²தோ³ நைகஜோ’க்³ரஜ: । அநிர்விண்ண: ஸதா³மர்ஷீ லோகாதி⁴ஷ்டா²நமத்³பு⁴த: ॥ 95॥ஸநாத்ஸநாதநதம: கபில: கபிரவ்யய: । ஸ்வஸ்தித³: ஸ்வஸ்திக்ருத்ஸ்வஸ்தி ஸ்வஸ்திபு⁴க்ஸ்வஸ்தித³க்ஷிண: ॥ 96॥அரௌத்³ர: குண்ட³லீ சக்ரீ விக்ரம்யூர்ஜிதஶாஸந: । ஶப்³தா³திக³: ஶப்³த³ஸஹ: ஶிஶிர: ஶர்வரீகர: ॥ 97॥அக்ரூர: பேஶலோ த³க்ஷோ த³க்ஷிண: க்ஷமிணாம்வர: । வித்³வத்தமோ வீதப⁴ய: புண்யஶ்ரவணகீர்தந: ॥ 98॥உத்தாரணோ து³ஷ்க்ருதிஹா புண்யோ து³:ஸ்வப்நநாஶந: । வீரஹா ரக்ஷண: ஸந்தோ ஜீவந: பர்யவஸ்தி²த: ॥ 99॥அநந்தரூபோ’நந்தஶ்ரீர்ஜிதமந்யுர்ப⁴யாபஹ: । சதுரஶ்ரோ க³பீ⁴ராத்மா விதி³ஶோ வ்யாதி³ஶோ தி³ஶ: ॥ 100॥அநாதி³ர்பூ⁴ர்பு⁴வோ லக்ஷ்மீ: ஸுவீரோ ருசிராங்க³த³: । ஜநநோ ஜநஜந்மாதி³ர்பீ⁴மோ பீ⁴மபராக்ரம: ॥ 101॥ஆதா⁴ரநிலயோ’தா⁴தா புஷ்பஹாஸ: ப்ரஜாக³ர: । ஊர்த்⁴வக³: ஸத்பதா²சார: ப்ராணத³: ப்ரணவ: பண: ॥ 102॥ப்ரமாணம் ப்ராணநிலய: ப்ராணப்⁴ருத்ப்ராணஜீவந: । தத்த்வம் தத்த்வவிதே³காத்மா ஜந்மம்ருத்யுஜராதிக³: ॥ 103॥பூ⁴ர்பு⁴வ:ஸ்வஸ்தருஸ்தார: ஸவிதா ப்ரபிதாமஹ: । யஜ்ஞோ யஜ்ஞபதிர்யஜ்வா யஜ்ஞாங்கோ³ யஜ்ஞவாஹந: ॥ 104॥யஜ்ஞப்⁴ருத்³ யஜ்ஞக்ருத்³ யஜ்ஞீ யஜ்ஞபு⁴க்³ யஜ்ஞஸாத⁴ந: । யஜ்ஞாந்தக்ருத்³ யஜ்ஞகு³ஹ்யமந்நமந்நாத³ ஏவ ச ॥ 105॥ஆத்மயோநி: ஸ்வயஞ்ஜாதோ வைகா²ந: ஸாமகா³யந: । தே³வகீநந்த³ந: ஸ்ரஷ்டா க்ஷிதீஶ: பாபநாஶந: ॥ 106॥ஶங்க²ப்⁴ருந்நந்த³கீ சக்ரீ ஶார்ங்க³த⁴ந்வா க³தா³த⁴ர: । ரதா²ங்க³பாணிரக்ஷோப்⁴ய: ஸர்வப்ரஹரணாயுத⁴: ॥ 107॥ஸர்வப்ரஹரணாயுத⁴ ஓம் நம இதி । வநமாலீ க³தீ³ ஶார்ங்கீ³ ஶங்கீ² சக்ரீ ச நந்த³கீ । ஶ்ரீமாந் நாராயணோ விஷ்ணுர்வாஸுதே³வோ’பி⁴ரக்ஷது ॥ 108॥ஶ்ரீ வாஸுதே³வோ’பி⁴ரக்ஷது ஓம் நம இதி ।

இதீத³ம் கீர்தநீயஸ்ய கேஶவஸ்ய மஹாத்மந: । நாம்நாம் ஸஹஸ்ரம் தி³வ்யாநாமஶேஷேண ப்ரகீர்திதம் ॥ 1॥ய இத³ம் ஶ்ருணுயாந்நித்யம் யஶ்சாபி பரிகீர்தயேத் । நாஶுப⁴ம் ப்ராப்நுயாத்கிஞ்சித்ஸோ’முத்ரேஹ ச மாநவ: ॥ 2॥வேதா³ந்தகோ³ ப்³ராஹ்மண: ஸ்யாத்க்ஷத்ரியோ விஜயீ ப⁴வேத் । வைஶ்யோ த⁴நஸம்ருத்³த⁴: ஸ்யாச்சூ²த்³ர: ஸுக²மவாப்நுயாத் ॥ 3॥த⁴ர்மார்தீ² ப்ராப்நுயாத்³த⁴ர்மமர்தா²ர்தீ² சார்த²மாப்நுயாத் । காமாநவாப்நுயாத்காமீ ப்ரஜார்தீ² ப்ராப்நுயாத்ப்ரஜாம் ॥ 4॥ப⁴க்திமாந் ய: ஸதோ³த்தா²ய ஶுசிஸ்தத்³க³தமாநஸ: । ஸஹஸ்ரம் வாஸுதே³வஸ்ய நாம்நாமேதத்ப்ரகீர்தயேத் ॥ 5॥யஶ: ப்ராப்நோதி விபுலம் ஜ்ஞாதிப்ராதா⁴ந்யமேவ ச । அசலாம் ஶ்ரியமாப்நோதி ஶ்ரேய: ப்ராப்நோத்யநுத்தமம் ॥ 6॥ந ப⁴யம் க்வசிதா³ப்நோதி வீர்யம் தேஜஶ்ச விந்த³தி । ப⁴வத்யரோகோ³ த்³யுதிமாந்ப³லரூபகு³ணாந்வித: ॥ 7॥ரோகா³ர்தோ முச்யதே ரோகா³த்³ப³த்³தோ⁴ முச்யேத ப³ந்த⁴நாத் । ப⁴யாந்முச்யேத பீ⁴தஸ்து முச்யேதாபந்ந ஆபத³: ॥ 8॥து³ர்கா³ண்யதிதரத்யாஶு புருஷ: புருஷோத்தமம் । ஸ்துவந்நாமஸஹஸ்ரேண நித்யம் ப⁴க்திஸமந்வித: ॥ 9॥வாஸுதே³வாஶ்ரயோ மர்த்யோ வாஸுதே³வபராயண: । ஸர்வபாபவிஶுத்³தா⁴த்மா யாதி ப்³ரஹ்ம ஸநாதநம் ॥ 10॥ந வாஸுதே³வப⁴க்தாநாமஶுப⁴ம் வித்³யதே க்வசித் । ஜந்மம்ருத்யுஜராவ்யாதி⁴ப⁴யம் நைவோபஜாயதே ॥ 11॥இமம் ஸ்தவமதீ⁴யாந: ஶ்ரத்³தா⁴ப⁴க்திஸமந்வித: । யுஜ்யேதாத்மஸுக²க்ஷாந்திஶ்ரீத்⁴ருதிஸ்ம்ருதிகீர்திபி⁴: ॥ 12॥ந க்ரோதோ⁴ ந ச மாத்ஸர்யம் ந லோபோ⁴ நாஶுபா⁴ மதி: । ப⁴வந்தி க்ருத புண்யாநாம் ப⁴க்தாநாம் புருஷோத்தமே ॥ 13॥த்³யௌ: ஸசந்த்³ரார்கநக்ஷத்ரா க²ம் தி³ஶோ பூ⁴ர்மஹோத³தி⁴: । வாஸுதே³வஸ்ய வீர்யேண வித்⁴ருதாநி மஹாத்மந: ॥ 14॥ஸஸுராஸுரக³ந்த⁴ர்வம் ஸயக்ஷோரக³ராக்ஷஸம் । ஜக³த்³வஶே வர்ததேத³ம் க்ருஷ்ணஸ்ய ஸசராசரம் ॥ 15॥இந்த்³ரியாணி மநோ பு³த்³தி⁴: ஸத்த்வம் தேஜோ ப³லம் த்⁴ருதி: । வாஸுதே³வாத்மகாந்யாஹு: க்ஷேத்ரம் க்ஷேத்ரஜ்ஞ ஏவ ச ॥ 16॥ஸர்வாக³மாநாமாசார: ப்ரத²மம் பரிகல்ப்யதே । ஆசாரப்ரப⁴வோ த⁴ர்மோ த⁴ர்மஸ்ய ப்ரபு⁴ரச்யுத: ॥ 17॥ருஷய: பிதரோ தே³வா மஹாபூ⁴தாநி தா⁴தவ: । ஜங்க³மாஜங்க³மம் சேத³ம் ஜக³ந்நாராயணோத்³ப⁴வம் ॥ 18॥யோகோ³ ஜ்ஞாநம் ததா² ஸாங்க்²யம் வித்³யா: ஶில்பாதி³ கர்ம ச । வேதா³: ஶாஸ்த்ராணி விஜ்ஞாநமேதத்ஸர்வம் ஜநார்த³நாத் ॥ 19॥ஏகோ விஷ்ணுர்மஹத்³பூ⁴தம் ப்ருத²க்³பூ⁴தாந்யநேகஶ: । த்ரீம்ல்லோகாந்வ்யாப்ய பூ⁴தாத்மா பு⁴ங்க்தே விஶ்வபு⁴க³வ்யய: ॥ 20॥இமம் ஸ்தவம் ப⁴க³வதோ விஷ்ணோர்வ்யாஸேந கீர்திதம் । படே²த்³ய இச்சே²த்புருஷ: ஶ்ரேய: ப்ராப்தும் ஸுகா²நி ச ॥ 21॥விஶ்வேஶ்வரமஜம் தே³வம் ஜக³த: ப்ரபு⁴மவ்யயம் । ப⁴ஜந்தி யே புஷ்கராக்ஷம் ந தே யாந்தி பராப⁴வம் ॥ 22॥ந தே யாந்தி பராப⁴வம் ஓம் நம இதி । அர்ஜுந உவாச — பத்³மபத்ரவிஶாலாக்ஷ பத்³மநாப⁴ ஸுரோத்தம । ப⁴க்தாநாமநுரக்தாநாம் த்ராதா ப⁴வ ஜநார்த³ந ॥ 23॥ஶ்ரீப⁴க³வாநுவாச — யோ மாம் நாமஸஹஸ்ரேண ஸ்தோதுமிச்ச²தி பாண்ட³வ । ஸோஹ’மேகேந ஶ்லோகேந ஸ்துத ஏவ ந ஸம்ஶய: ॥ 24॥ஸ்துத ஏவ ந ஸம்ஶய ஓம் நம இதி । வ்யாஸ உவாச — வாஸநாத்³வாஸுதே³வஸ்ய வாஸிதம் பு⁴வநத்ரயம் । ஸர்வபூ⁴தநிவாஸோ’ஸி வாஸுதே³வ நமோ’ஸ்து தே ॥ 25॥ஶ்ரீ வாஸுதே³வ நமோ’ஸ்துத ஓம் நம இதி । பார்வத்யுவாச — கேநோபாயேந லகு⁴நா விஷ்ணோர்நாமஸஹஸ்ரகம் । பட்²யதே பண்டி³தைர்நித்யம் ஶ்ரோதுமிச்சா²ம்யஹம் ப்ரபோ⁴ ॥ 26॥ஈஶ்வர உவாச — ஶ்ரீராம ராம ராமேதி ரமே ராமே மநோரமே । ஸஹஸ்ரநாம தத்துல்யம் ராம நாம வராநநே ॥ 27॥ஶ்ரீராமநாம வராநந ஓம் நம இதி । ப்³ரஹ்மோவாச — நமோ’ஸ்த்வநந்தாய ஸஹஸ்ரமூர்தயே ஸஹஸ்ரபாதா³க்ஷிஶிரோருபா³ஹவே । ஸஹஸ்ரநாம்நே புருஷாய ஶாஶ்வதே ஸஹஸ்ரகோடியுக³தா⁴ரிணே நம: ॥ 28॥ஸஹஸ்ரகோடியுக³தா⁴ரிணே ஓம் நம இதி ।

ஸஞ்ஜய உவாச — யத்ர யோகே³ஶ்வர: க்ருஷ்ணோ யத்ர பார்தோ² த⁴நுர்த⁴ர: । தத்ர ஶ்ரீர்விஜயோ பூ⁴திர்த்⁴ருவா நீதிர்மதிர்மம ॥ 29॥ஶ்ரீப⁴க³வாநுவாச — அநந்யாஶ்சிந்தயந்தோ மாம் யே ஜநா: பர்யுபாஸதே । தேஷாம் நித்யாபி⁴யுக்தாநாம் யோக³க்ஷேமம் வஹாம்யஹம் ॥ 30॥பரித்ராணாய ஸாதூ⁴நாம் விநாஶாய ச து³ஷ்க்ருதாம் । த⁴ர்மஸம்ஸ்தா²பநார்தா²ய ஸம்ப⁴வாமி யுகே³ யுகே³ ॥ 31॥ஆர்தா: விஷண்ணா: ஶிதி²லாஶ்ச பீ⁴தா: கோ⁴ரேஷு ச வ்யாதி⁴ஷு வர்தமாநா: । ஸங்கீர்த்ய நாராயணஶப்³த³மாத்ரம் விமுக்தது³:கா²: ஸுகி²நோ ப⁴வந்தி ॥ 32॥காயேந வாசா மநஸேந்த்³ரியைர்வா பு³த்³த்⁴யாத்மநா வா ப்ரக்ருதே: ஸ்வபா⁴வாத் । கரோமி யத்³யத் ஸகலம் பரஸ்மை நாராயணாயேதி ஸமர்பயாமி ॥ 33॥இதி ஶ்ரீவிஷ்ணோர்தி³வ்யஸஹஸ்ரநாமஸ்தோத்ரம் ஸம்பூர்ணம் । ஓம் தத் ஸத் ।

శ్రీవిష్ణుసహస్రనామస్తోత్రమ్

శుక్లామ్బరధరం విష్ణుం శశివర్ణం చతుర్భుజమ్ । ప్రసన్నవదనం ధ్యాయేత్ సర్వవిఘ్నోపశాన్తయే ॥ 1॥యస్య ద్విరదవక్త్రాద్యాః పారిషద్యాః పరః శతమ్ । విఘ్నం నిఘ్నన్తి సతతం విష్వక్సేనం తమాశ్రయే ॥ 2॥వ్యాసం వసిష్ఠనప్తారం శక్తేః పౌత్రమకల్మషమ్ । పరాశరాత్మజం వన్దే శుకతాతం తపోనిధిమ్ ॥ 3॥వ్యాసాయ విష్ణురూపాయ వ్యాసరూపాయ విష్ణవే । నమో వై బ్రహ్మనిధయే వాసిష్ఠాయ నమో నమః ॥ 4॥అవికారాయ శుద్ధాయ నిత్యాయ పరమాత్మనే । సదైకరూపరూపాయ విష్ణవే సర్వజిష్ణవే ॥ 5॥యస్య స్మరణమాత్రేణ జన్మసంసారబన్ధనాత్ । విముచ్యతే నమస్తస్మై విష్ణవే ప్రభవిష్ణవే ॥ 6॥ఓం నమో విష్ణవే ప్రభవిష్ణవే । శ్రీవైశమ్పాయన ఉవాచ — శ్రుత్వా ధర్మానశేషేణ పావనాని చ సర్వశః । యుధిష్ఠిరః శాన్తనవం పునరేవాభ్యభాషత ॥ 7॥యుధిష్ఠిర ఉవాచ — కిమేకం దైవతం లోకే కిం వాప్యేకం పరాయణమ్ । స్తువన్తః కం కమర్చన్తః ప్రాప్నుయుర్మానవాః శుభమ్ ॥ 8॥కో ధర్మః సర్వధర్మాణాం భవతః పరమో మతః । కిం జపన్ముచ్యతే జన్తుర్జన్మసంసారబన్ధనాత్ ॥ 9॥భీష్మ ఉవాచ — జగత్ప్రభుం దేవదేవమనన్తం పురుషోత్తమమ్ । స్తువన్ నామసహస్రేణ పురుషః సతతోత్థితః ॥ 10॥తమేవ చార్చయన్నిత్యం భక్త్యా పురుషమవ్యయమ్ । ధ్యాయన్ స్తువన్ నమస్యంశ్చ యజమానస్తమేవ చ ॥ 11॥అనాదినిధనం విష్ణుం సర్వలోకమహేశ్వరమ్ । లోకాధ్యక్షం స్తువన్నిత్యం సర్వదుఃఖాతిగో భవేత్ ॥ 12॥బ్రహ్మణ్యం సర్వధర్మజ్ఞం లోకానాం కీర్తివర్ధనమ్ । లోకనాథం మహద్భూతం సర్వభూతభవోద్భవమ్ ॥ 13॥ఏష మే సర్వధర్మాణాం ధర్మోఽధికతమో మతః । యద్భక్త్యా పుణ్డరీకాక్షం స్తవైరర్చేన్నరః సదా ॥ 14॥పరమం యో మహత్తేజః పరమం యో మహత్తపః । పరమం యో మహద్బ్రహ్మ పరమం యః పరాయణమ్ ॥ 15॥పవిత్రాణాం పవిత్రం యో మఙ్గలానాం చ మఙ్గలమ్ । దైవతం దైవతానాం చ భూతానాం యోఽవ్యయః పితా ॥ 16॥యతః సర్వాణి భూతాని భవన్త్యాదియుగాగమే । యస్మింశ్చ ప్రలయం యాన్తి పునరేవ యుగక్షయే ॥ 17॥తస్య లోకప్రధానస్య జగన్నాథస్య భూపతే । విష్ణోర్నామసహస్రం మే శృణు పాపభయాపహమ్ ॥ 18॥యాని నామాని గౌణాని విఖ్యాతాని మహాత్మనః । ఋషిభిః పరిగీతాని తాని వక్ష్యామి భూతయే ॥ 19॥ఋషిర్నామ్నాం సహస్రస్య వేదవ్యాసో మహామునిః । ఛన్దోఽనుష్టుప్ తథా దేవో భగవాన్ దేవకీసుతః ॥ 20॥అమృతాంశూద్భవో బీజం శక్తిర్దేవకినన్దనః । త్రిసామా హృదయం తస్య శాన్త్యర్థే వినియోజ్యతే ॥ 21॥విష్ణుం జిష్ణుం మహావిష్ణుం ప్రభవిష్ణుం మహేశ్వరమ్ । అనేకరూప దైత్యాన్తం నమామి పురుషోత్తమం ॥ 22 ॥అస్య శ్రీవిష్ణోర్దివ్యసహస్రనామస్తోత్రమహామన్త్రస్య । శ్రీ వేదవ్యాసో భగవాన్ ఋషిః । అనుష్టుప్ ఛన్దః । శ్రీమహావిష్ణుః పరమాత్మా శ్రీమన్నారాయణో దేవతా । అమృతాంశూద్భవో భానురితి బీజమ్ । దేవకీనన్దనః స్రష్టేతి శక్తిః । ఉద్భవః క్షోభణో దేవ ఇతి పరమో మన్త్రః । శఙ్ఖభృన్నన్దకీ చక్రీతి కీలకమ్ । శార్ఙ్గధన్వా గదాధర ఇత్యస్త్రమ్ । రథాఙ్గపాణిరక్షోభ్య ఇతి నేత్రమ్ । త్రిసామా సామగః సామేతి కవచమ్ । ఆనన్దం పరబ్రహ్మేతి యోనిః । ఋతుః సుదర్శనః కాల ఇతి దిగ్బన్ధః ॥

శ్రీవిశ్వరూప ఇతి ధ్యానమ్ । శ్రీమహావిష్ణుప్రీత్యర్థే సహస్రనామస్తోత్రపాఠే వినియోగః ॥

ధ్యానమ్ । క్షీరోదన్వత్ప్రదేశే శుచిమణివిలసత్సైకతేర్మౌక్తికానాం మాలాకౢప్తాసనస్థః స్ఫటికమణినిభైర్మౌక్తికైర్మణ్డితాఙ్గః । శుభ్రైరభ్రైరదభ్రైరుపరివిరచితైర్ముక్తపీయూష వర్షైః ఆనన్దీ నః పునీయాదరినలినగదా శఙ్ఖపాణిర్ముకున్దః ॥ 1॥భూః పాదౌ యస్య నాభిర్వియదసురనిలశ్చన్ద్ర సూర్యౌ చ నేత్రే కర్ణావాశాః శిరో ద్యౌర్ముఖమపి దహనో యస్య వాస్తేయమబ్ధిః । అన్తఃస్థం యస్య విశ్వం సురనరఖగగోభోగిగన్ధర్వదైత్యైః చిత్రం రంరమ్యతే తం త్రిభువన వపుషం విష్ణుమీశం నమామి ॥ 2॥ఓం శాన్తాకారం భుజగశయనం పద్మనాభం సురేశం విశ్వాధారం గగనసదృశం మేఘవర్ణం శుభాఙ్గమ్ । లక్ష్మీకాన్తం కమలనయనం యోగిభిర్ధ్యానగమ్యం యోగిహృద్ధ్యానగమ్యం వన్దే విష్ణుం భవభయహరం సర్వలోకైకనాథమ్ ॥ 3॥మేఘశ్యామం పీతకౌశేయవాసం శ్రీవత్సాఙ్కం కౌస్తుభోద్భాసితాఙ్గమ్ । పుణ్యోపేతం పుణ్డరీకాయతాక్షం విష్ణుం వన్దే సర్వలోకైకనాథమ్ ॥ 4॥నమః సమస్తభూతానామాదిభూతాయ భూభృతే । అనేకరూపరూపాయ విష్ణవే ప్రభవిష్ణవే ॥ 5॥సశఙ్ఖచక్రం సకిరీటకుణ్డలం సపీతవస్త్రం సరసీరుహేక్షణమ్ । సహారవక్షః స్థలశోభికౌస్తుభం నమామి విష్ణుం శిరసా చతుర్భుజమ్ ॥ 6॥ఛాయాయాం పారిజాతస్య హేమసింహాసనోపరి ఆసీనమమ్బుదశ్యామమాయతాక్షమలంకృతమ్ । చన్ద్రాననం చతుర్బాహుం శ్రీవత్సాఙ్కిత వక్షసం రుక్మిణీ సత్యభామాభ్యాం సహితం కృష్ణమాశ్రయే ॥ 7॥ఓం ।

విశ్వం విష్ణుర్వషట్కారో భూతభవ్యభవత్ప్రభుః । భూతకృద్భూతభృద్భావో భూతాత్మా భూతభావనః ॥ 1॥పూతాత్మా పరమాత్మా చ ముక్తానాం పరమా గతిః । అవ్యయః పురుషః సాక్షీ క్షేత్రజ్ఞోఽక్షర ఏవ చ ॥ 2॥యోగో యోగవిదాం నేతా ప్రధానపురుషేశ్వరః । నారసింహవపుః శ్రీమాన్ కేశవః పురుషోత్తమః ॥ 3॥సర్వః శర్వః శివః స్థాణుర్భూతాదిర్నిధిరవ్యయః । సమ్భవో భావనో భర్తా ప్రభవః ప్రభురీశ్వరః ॥ 4॥స్వయమ్భూః శమ్భురాదిత్యః పుష్కరాక్షో మహాస్వనః । అనాదినిధనో ధాతా విధాతా ధాతురుత్తమః ॥ 5॥అప్రమేయో హృషీకేశః పద్మనాభోఽమరప్రభుః । విశ్వకర్మా మనుస్త్వష్టా స్థవిష్ఠః స్థవిరో ధ్రువః ॥ 6॥అగ్రాహ్యః శాశ్వతః కృష్ణో లోహితాక్షః ప్రతర్దనః । ప్రభూతస్త్రికకుబ్ధామ పవిత్రం మఙ్గలం పరమ్ ॥ 7॥ఈశానః ప్రాణదః ప్రాణో జ్యేష్ఠః శ్రేష్ఠః ప్రజాపతిః । హిరణ్యగర్భో భూగర్భో మాధవో మధుసూదనః ॥ 8॥ఈశ్వరో విక్రమీ ధన్వీ మేధావీ విక్రమః క్రమః । అనుత్తమో దురాధర్షః కృతజ్ఞః కృతిరాత్మవాన్ ॥ 9॥సురేశః శరణం శర్మ విశ్వరేతాః ప్రజాభవః । అహః సంవత్సరో వ్యాలః ప్రత్యయః సర్వదర్శనః ॥ 10॥అజః సర్వేశ్వరః సిద్ధః సిద్ధిః సర్వాదిరచ్యుతః । వృషాకపిరమేయాత్మా సర్వయోగవినిఃసృతః ॥ 11॥వసుర్వసుమనాః సత్యః సమాత్మాఽసమ్మితః సమః । అమోఘః పుణ్డరీకాక్షో వృషకర్మా వృషాకృతిః ॥ 12॥రుద్రో బహుశిరా బభ్రుర్విశ్వయోనిః శుచిశ్రవాః । అమృతః శాశ్వతస్థాణుర్వరారోహో మహాతపాః ॥ 13॥సర్వగః సర్వవిద్భానుర్విష్వక్సేనో జనార్దనః । వేదో వేదవిదవ్యఙ్గో వేదాఙ్గో వేదవిత్ కవిః ॥ 14॥లోకాధ్యక్షః సురాధ్యక్షో ధర్మాధ్యక్షః కృతాకృతః । చతురాత్మా చతుర్వ్యూహశ్చతుర్దంష్ట్రశ్చతుర్భుజః ॥ 15॥భ్రాజిష్ణుర్భోజనం భోక్తా సహిష్ణుర్జగదాదిజః । అనఘో విజయో జేతా విశ్వయోనిః పునర్వసుః ॥ 16॥ఉపేన్ద్రో వామనః ప్రాంశురమోఘః శుచిరూర్జితః । అతీన్ద్రః సఙ్గ్రహః సర్గో ధృతాత్మా నియమో యమః ॥ 17॥వేద్యో వైద్యః సదాయోగీ వీరహా మాధవో మధుః । అతీన్ద్రియో మహామాయో మహోత్సాహో మహాబలః ॥ 18॥మహాబుద్ధిర్మహావీర్యో మహాశక్తిర్మహాద్యుతిః । అనిర్దేశ్యవపుః శ్రీమానమేయాత్మా మహాద్రిధృక్ ॥ 19॥మహేష్వాసో మహీభర్తా శ్రీనివాసః సతాం గతిః । అనిరుద్ధః సురానన్దో గోవిన్దో గోవిదాం పతిః ॥ 20॥మరీచిర్దమనో హంసః సుపర్ణో భుజగోత్తమః । హిరణ్యనాభః సుతపాః పద్మనాభః ప్రజాపతిః ॥ 21॥అమృత్యుః సర్వదృక్ సింహః సన్ధాతా సన్ధిమాన్ స్థిరః । అజో దుర్మర్షణః శాస్తా విశ్రుతాత్మా సురారిహా ॥ 22॥గురుర్గురుతమో ధామ సత్యః సత్యపరాక్రమః । నిమిషోఽనిమిషః స్రగ్వీ వాచస్పతిరుదారధీః ॥ 23॥అగ్రణీర్గ్రామణీః శ్రీమాన్ న్యాయో నేతా సమీరణః । సహస్రమూర్ధా విశ్వాత్మా సహస్రాక్షః సహస్రపాత్ ॥ 24॥ఆవర్తనో నివృత్తాత్మా సంవృతః సమ్ప్రమర్దనః । అహః సంవర్తకో వహ్నిరనిలో ధరణీధరః ॥ 25॥సుప్రసాదః ప్రసన్నాత్మా విశ్వధృగ్విశ్వభుగ్విభుః । సత్కర్తా సత్కృతః సాధుర్జహ్నుర్నారాయణో నరః ॥ 26॥అసఙ్ఖ్యేయోఽప్రమేయాత్మా విశిష్టః శిష్టకృచ్ఛుచిః । సిద్ధార్థః సిద్ధసఙ్కల్పః సిద్ధిదః సిద్ధిసాధనః ॥ 27॥వృషాహీ వృషభో విష్ణుర్వృషపర్వా వృషోదరః । వర్ధనో వర్ధమానశ్చ వివిక్తః శ్రుతిసాగరః ॥ 28॥సుభుజో దుర్ధరో వాగ్మీ మహేన్ద్రో వసుదో వసుః । నైకరూపో బృహద్రూపః శిపివిష్టః ప్రకాశనః ॥ 29॥ఓజస్తేజోద్యుతిధరః ప్రకాశాత్మా ప్రతాపనః । ఋద్ధః స్పష్టాక్షరో మన్త్రశ్చన్ద్రాంశుర్భాస్కరద్యుతిః ॥ 30॥అమృతాంశూద్భవో భానుః శశబిన్దుః సురేశ్వరః । ఔషధం జగతః సేతుః సత్యధర్మపరాక్రమః ॥ 31॥భూతభవ్యభవన్నాథః పవనః పావనోఽనలః । కామహా కామకృత్కాన్తః కామః కామప్రదః ప్రభుః ॥ 32॥యుగాదికృద్యుగావర్తో నైకమాయో మహాశనః । అదృశ్యో వ్యక్తరూపశ్చ సహస్రజిదనన్తజిత్ ॥ 33॥ఇష్టోఽవిశిష్టః శిష్టేష్టః శిఖణ్డీ నహుషో వృషః । క్రోధహా క్రోధకృత్కర్తా విశ్వబాహుర్మహీధరః ॥ 34॥అచ్యుతః ప్రథితః ప్రాణః ప్రాణదో వాసవానుజః । అపాంనిధిరధిష్ఠానమప్రమత్తః ప్రతిష్ఠితః ॥ 35॥స్కన్దః స్కన్దధరో ధుర్యో వరదో వాయువాహనః । వాసుదేవో బృహద్భానురాదిదేవః పురన్దరః ॥ 36॥అశోకస్తారణస్తారః శూరః శౌరిర్జనేశ్వరః । అనుకూలః శతావర్తః పద్మీ పద్మనిభేక్షణః ॥ 37॥పద్మనాభోఽరవిన్దాక్షః పద్మగర్భః శరీరభృత్ । మహర్ద్ధిరృద్ధో వృద్ధాత్మా మహాక్షో గరుడధ్వజః ॥ 38॥అతులః శరభో భీమః సమయజ్ఞో హవిర్హరిః । సర్వలక్షణలక్షణ్యో లక్ష్మీవాన్ సమితిఞ్జయః ॥ 39॥విక్షరో రోహితో మార్గో హేతుర్దామోదరః సహః । మహీధరో మహాభాగో వేగవానమితాశనః ॥ 40॥ఉద్భవః క్షోభణో దేవః శ్రీగర్భః పరమేశ్వరః । కరణం కారణం కర్తా వికర్తా గహనో గుహః ॥ 41॥వ్యవసాయో వ్యవస్థానః సంస్థానః స్థానదో ధ్రువః । పరర్ద్ధిః పరమస్పష్టస్తుష్టః పుష్టః శుభేక్షణః ॥ 42॥రామో విరామో విరజో మార్గో నేయో నయోఽనయః । వీరః శక్తిమతాం శ్రేష్ఠో ధర్మో ధర్మవిదుత్తమః ॥ 43॥వైకుణ్ఠః పురుషః ప్రాణః ప్రాణదః ప్రణవః పృథుః । హిరణ్యగర్భః శత్రుఘ్నో వ్యాప్తో వాయురధోక్షజః ॥ 44॥ఋతుః సుదర్శనః కాలః పరమేష్ఠీ పరిగ్రహః । ఉగ్రః సంవత్సరో దక్షో విశ్రామో విశ్వదక్షిణః ॥ 45॥విస్తారః స్థావరస్థాణుః ప్రమాణం బీజమవ్యయమ్ । అర్థోఽనర్థో మహాకోశో మహాభోగో మహాధనః ॥ 46॥అనిర్విణ్ణః స్థవిష్ఠోఽభూర్ధర్మయూపో మహామఖః । నక్షత్రనేమిర్నక్షత్రీ క్షమః క్షామః సమీహనః ॥ 47॥యజ్ఞ ఇజ్యో మహేజ్యశ్చ క్రతుః సత్రం సతాం గతిః । సర్వదర్శీ విముక్తాత్మా సర్వజ్ఞో జ్ఞానముత్తమమ్ ॥ 48॥సువ్రతః సుముఖః సూక్ష్మః సుఘోషః సుఖదః సుహృత్ । మనోహరో జితక్రోధో వీరబాహుర్విదారణః ॥ 49॥స్వాపనః స్వవశో వ్యాపీ నైకాత్మా నైకకర్మకృత్ । వత్సరో వత్సలో వత్సీ రత్నగర్భో ధనేశ్వరః ॥ 50॥ధర్మగుబ్ధర్మకృద్ధర్మీ సదసత్క్షరమక్షరమ్ । అవిజ్ఞాతా సహస్రాంశుర్విధాతా కృతలక్షణః ॥ 51॥గభస్తినేమిః సత్త్వస్థః సింహో భూతమహేశ్వరః । ఆదిదేవో మహాదేవో దేవేశో దేవభృద్గురుః ॥ 52॥ఉత్తరో గోపతిర్గోప్తా జ్ఞానగమ్యః పురాతనః । శరీరభూతభృద్భోక్తా కపీన్ద్రో భూరిదక్షిణః ॥ 53॥సోమపోఽమృతపః సోమః పురుజిత్పురుసత్తమః । వినయో జయః సత్యసన్ధో దాశార్హః సాత్వతామ్పతిః ॥ 54॥జీవో వినయితా సాక్షీ ముకున్దోఽమితవిక్రమః । అమ్భోనిధిరనన్తాత్మా మహోదధిశయోఽన్తకః ॥ 55॥అజో మహార్హః స్వాభావ్యో జితామిత్రః ప్రమోదనః । ఆనన్దో నన్దనో నన్దః సత్యధర్మా త్రివిక్రమః ॥ 56॥మహర్షిః కపిలాచార్యః కృతజ్ఞో మేదినీపతిః । త్రిపదస్త్రిదశాధ్యక్షో మహాశృఙ్గః కృతాన్తకృత్ ॥ 57॥మహావరాహో గోవిన్దః సుషేణః కనకాఙ్గదీ । గుహ్యో గభీరో గహనో గుప్తశ్చక్రగదాధరః ॥ 58॥వేధాః స్వాఙ్గోఽజితః కృష్ణో దృఢః సఙ్కర్షణోఽచ్యుతః । వరుణో వారుణో వృక్షః పుష్కరాక్షో మహామనాః ॥ 59॥భగవాన్ భగహాఽఽనన్దీ వనమాలీ హలాయుధః । ఆదిత్యో జ్యోతిరాదిత్యః సహిష్ణుర్గతిసత్తమః ॥ 60॥సుధన్వా ఖణ్డపరశుర్దారుణో ద్రవిణప్రదః । దివస్పృక్ సర్వదృగ్వ్యాసో వాచస్పతిరయోనిజః ॥ 61॥త్రిసామా సామగః సామ నిర్వాణం భేషజం భిషక్ । సంన్యాసకృచ్ఛమః శాన్తో నిష్ఠా శాన్తిః పరాయణమ్ ॥ 62॥శుభాఙ్గః శాన్తిదః స్రష్టా కుముదః కువలేశయః । గోహితో గోపతిర్గోప్తా వృషభాక్షో వృషప్రియః ॥ 63॥అనివర్తీ నివృత్తాత్మా సఙ్క్షేప్తా క్షేమకృచ్ఛివః । శ్రీవత్సవక్షాః శ్రీవాసః శ్రీపతిః శ్రీమతాంవరః ॥ 64॥శ్రీదః శ్రీశః శ్రీనివాసః శ్రీనిధిః శ్రీవిభావనః । శ్రీధరః శ్రీకరః శ్రేయః శ్రీమాఁల్లోకత్రయాశ్రయః ॥ 65॥స్వక్షః స్వఙ్గః శతానన్దో నన్దిర్జ్యోతిర్గణేశ్వరః । విజితాత్మాఽవిధేయాత్మా సత్కీర్తిశ్ఛిన్నసంశయః ॥ 66॥ఉదీర్ణః సర్వతశ్చక్షురనీశః శాశ్వతస్థిరః । భూశయో భూషణో భూతిర్విశోకః శోకనాశనః ॥ 67॥అర్చిష్మానర్చితః కుమ్భో విశుద్ధాత్మా విశోధనః । అనిరుద్ధోఽప్రతిరథః ప్రద్యుమ్నోఽమితవిక్రమః ॥ 68॥కాలనేమినిహా వీరః శౌరిః శూరజనేశ్వరః । త్రిలోకాత్మా త్రిలోకేశః కేశవః కేశిహా హరిః ॥ 69॥కామదేవః కామపాలః కామీ కాన్తః కృతాగమః । అనిర్దేశ్యవపుర్విష్ణుర్వీరోఽనన్తో ధనఞ్జయః ॥ 70॥బ్రహ్మణ్యో బ్రహ్మకృద్ బ్రహ్మా బ్రహ్మ బ్రహ్మవివర్ధనః । బ్రహ్మవిద్ బ్రాహ్మణో బ్రహ్మీ బ్రహ్మజ్ఞో బ్రాహ్మణప్రియః ॥ 71॥మహాక్రమో మహాకర్మా మహాతేజా మహోరగః । మహాక్రతుర్మహాయజ్వా మహాయజ్ఞో మహాహవిః ॥ 72॥స్తవ్యః స్తవప్రియః స్తోత్రం స్తుతిః స్తోతా రణప్రియః । పూర్ణః పూరయితా పుణ్యః పుణ్యకీర్తిరనామయః ॥ 73॥మనోజవస్తీర్థకరో వసురేతా వసుప్రదః । వసుప్రదో వాసుదేవో వసుర్వసుమనా హవిః ॥ 74॥సద్గతిః సత్కృతిః సత్తా సద్భూతిః సత్పరాయణః । శూరసేనో యదుశ్రేష్ఠః సన్నివాసః సుయామునః ॥ 75॥భూతావాసో వాసుదేవః సర్వాసునిలయోఽనలః । దర్పహా దర్పదో దృప్తో దుర్ధరోఽథాపరాజితః ॥ 76॥విశ్వమూర్తిర్మహామూర్తిర్దీప్తమూర్తిరమూర్తిమాన్ । అనేకమూర్తిరవ్యక్తః శతమూర్తిః శతాననః ॥ 77॥ఏకో నైకః సవః కః కిం యత్ తత్పదమనుత్తమమ్ । లోకబన్ధుర్లోకనాథో మాధవో భక్తవత్సలః ॥ 78॥సువర్ణవర్ణో హేమాఙ్గో వరాఙ్గశ్చన్దనాఙ్గదీ । వీరహా విషమః శూన్యో ఘృతాశీరచలశ్చలః ॥ 79॥అమానీ మానదో మాన్యో లోకస్వామీ త్రిలోకధృక్ । సుమేధా మేధజో ధన్యః సత్యమేధా ధరాధరః ॥ 80॥తేజోవృషో ద్యుతిధరః సర్వశస్త్రభృతాం వరః । ప్రగ్రహో నిగ్రహో వ్యగ్రో నైకశృఙ్గో గదాగ్రజః ॥ 81॥చతుర్మూర్తిశ్చతుర్బాహుశ్చతుర్వ్యూహశ్చతుర్గతిః । చతురాత్మా చతుర్భావశ్చతుర్వేదవిదేకపాత్ ॥ 82॥సమావర్తోఽనివృత్తాత్మా దుర్జయో దురతిక్రమః । దుర్లభో దుర్గమో దుర్గో దురావాసో దురారిహా ॥ 83॥శుభాఙ్గో లోకసారఙ్గః సుతన్తుస్తన్తువర్ధనః । ఇన్ద్రకర్మా మహాకర్మా కృతకర్మా కృతాగమః ॥ 84॥ఉద్భవః సున్దరః సున్దో రత్ననాభః సులోచనః । అర్కో వాజసనః శృఙ్గీ జయన్తః సర్వవిజ్జయీ ॥ 85॥సువర్ణబిన్దురక్షోభ్యః సర్వవాగీశ్వరేశ్వరః । మహాహ్రదో మహాగర్తో మహాభూతో మహానిధిః ॥ 86॥కుముదః కున్దరః కున్దః పర్జన్యః పావనోఽనిలః । అమృతాశోఽమృతవపుః సర్వజ్ఞః సర్వతోముఖః ॥ 87॥సులభః సువ్రతః సిద్ధః శత్రుజిచ్ఛత్రుతాపనః । న్యగ్రోధోఽదుమ్బరోఽశ్వత్థశ్చాణూరాన్ధ్రనిషూదనః ॥ 88॥సహస్రార్చిః సప్తజిహ్వః సప్తైధాః సప్తవాహనః । అమూర్తిరనఘోఽచిన్త్యో భయకృద్భయనాశనః ॥ 89॥అణుర్బృహత్కృశః స్థూలో గుణభృన్నిర్గుణో మహాన్ । అధృతః స్వధృతః స్వాస్యః ప్రాగ్వంశో వంశవర్ధనః ॥ 90॥భారభృత్ కథితో యోగీ యోగీశః సర్వకామదః । ఆశ్రమః శ్రమణః క్షామః సుపర్ణో వాయువాహనః ॥ 91॥ధనుర్ధరో ధనుర్వేదో దణ్డో దమయితా దమః । అపరాజితః సర్వసహో నియన్తాఽనియమోఽయమః ॥ 92॥సత్త్వవాన్ సాత్త్వికః సత్యః సత్యధర్మపరాయణః । అభిప్రాయః ప్రియార్హోఽర్హః ప్రియకృత్ ప్రీతివర్ధనః ॥ 93॥విహాయసగతిర్జ్యోతిః సురుచిర్హుతభుగ్విభుః । రవిర్విరోచనః సూర్యః సవితా రవిలోచనః ॥ 94॥అనన్తో హుతభుగ్భోక్తా సుఖదో నైకజోఽగ్రజః । అనిర్విణ్ణః సదామర్షీ లోకాధిష్ఠానమద్భుతః ॥ 95॥సనాత్సనాతనతమః కపిలః కపిరవ్యయః । స్వస్తిదః స్వస్తికృత్స్వస్తి స్వస్తిభుక్స్వస్తిదక్షిణః ॥ 96॥అరౌద్రః కుణ్డలీ చక్రీ విక్రమ్యూర్జితశాసనః । శబ్దాతిగః శబ్దసహః శిశిరః శర్వరీకరః ॥ 97॥అక్రూరః పేశలో దక్షో దక్షిణః క్షమిణాంవరః । విద్వత్తమో వీతభయః పుణ్యశ్రవణకీర్తనః ॥ 98॥ఉత్తారణో దుష్కృతిహా పుణ్యో దుఃస్వప్ననాశనః । వీరహా రక్షణః సన్తో జీవనః పర్యవస్థితః ॥ 99॥అనన్తరూపోఽనన్తశ్రీర్జితమన్యుర్భయాపహః । చతురశ్రో గభీరాత్మా విదిశో వ్యాదిశో దిశః ॥ 100॥అనాదిర్భూర్భువో లక్ష్మీః సువీరో రుచిరాఙ్గదః । జననో జనజన్మాదిర్భీమో భీమపరాక్రమః ॥ 101॥ఆధారనిలయోఽధాతా పుష్పహాసః ప్రజాగరః । ఊర్ధ్వగః సత్పథాచారః ప్రాణదః ప్రణవః పణః ॥ 102॥ప్రమాణం ప్రాణనిలయః ప్రాణభృత్ప్రాణజీవనః । తత్త్వం తత్త్వవిదేకాత్మా జన్మమృత్యుజరాతిగః ॥ 103॥భూర్భువఃస్వస్తరుస్తారః సవితా ప్రపితామహః । యజ్ఞో యజ్ఞపతిర్యజ్వా యజ్ఞాఙ్గో యజ్ఞవాహనః ॥ 104॥యజ్ఞభృద్ యజ్ఞకృద్ యజ్ఞీ యజ్ఞభుగ్ యజ్ఞసాధనః । యజ్ఞాన్తకృద్ యజ్ఞగుహ్యమన్నమన్నాద ఏవ చ ॥ 105॥ఆత్మయోనిః స్వయఞ్జాతో వైఖానః సామగాయనః । దేవకీనన్దనః స్రష్టా క్షితీశః పాపనాశనః ॥ 106॥శఙ్ఖభృన్నన్దకీ చక్రీ శార్ఙ్గధన్వా గదాధరః । రథాఙ్గపాణిరక్షోభ్యః సర్వప్రహరణాయుధః ॥ 107॥సర్వప్రహరణాయుధ ఓం నమ ఇతి । వనమాలీ గదీ శార్ఙ్గీ శఙ్ఖీ చక్రీ చ నన్దకీ । శ్రీమాన్ నారాయణో విష్ణుర్వాసుదేవోఽభిరక్షతు ॥ 108॥శ్రీ వాసుదేవోఽభిరక్షతు ఓం నమ ఇతి ।

ఇతీదం కీర్తనీయస్య కేశవస్య మహాత్మనః । నామ్నాం సహస్రం దివ్యానామశేషేణ ప్రకీర్తితమ్ ॥ 1॥య ఇదం శృణుయాన్నిత్యం యశ్చాపి పరికీర్తయేత్ । నాశుభం ప్రాప్నుయాత్కిఞ్చిత్సోఽముత్రేహ చ మానవః ॥ 2॥వేదాన్తగో బ్రాహ్మణః స్యాత్క్షత్రియో విజయీ భవేత్ । వైశ్యో ధనసమృద్ధః స్యాచ్ఛూద్రః సుఖమవాప్నుయాత్ ॥ 3॥ధర్మార్థీ ప్రాప్నుయాద్ధర్మమర్థార్థీ చార్థమాప్నుయాత్ । కామానవాప్నుయాత్కామీ ప్రజార్థీ ప్రాప్నుయాత్ప్రజామ్ ॥ 4॥భక్తిమాన్ యః సదోత్థాయ శుచిస్తద్గతమానసః । సహస్రం వాసుదేవస్య నామ్నామేతత్ప్రకీర్తయేత్ ॥ 5॥యశః ప్రాప్నోతి విపులం జ్ఞాతిప్రాధాన్యమేవ చ । అచలాం శ్రియమాప్నోతి శ్రేయః ప్రాప్నోత్యనుత్తమమ్ ॥ 6॥న భయం క్వచిదాప్నోతి వీర్యం తేజశ్చ విన్దతి । భవత్యరోగో ద్యుతిమాన్బలరూపగుణాన్వితః ॥ 7॥రోగార్తో ముచ్యతే రోగాద్బద్ధో ముచ్యేత బన్ధనాత్ । భయాన్ముచ్యేత భీతస్తు ముచ్యేతాపన్న ఆపదః ॥ 8॥దుర్గాణ్యతితరత్యాశు పురుషః పురుషోత్తమమ్ । స్తువన్నామసహస్రేణ నిత్యం భక్తిసమన్వితః ॥ 9॥వాసుదేవాశ్రయో మర్త్యో వాసుదేవపరాయణః । సర్వపాపవిశుద్ధాత్మా యాతి బ్రహ్మ సనాతనమ్ ॥ 10॥న వాసుదేవభక్తానామశుభం విద్యతే క్వచిత్ । జన్మమృత్యుజరావ్యాధిభయం నైవోపజాయతే ॥ 11॥ఇమం స్తవమధీయానః శ్రద్ధాభక్తిసమన్వితః । యుజ్యేతాత్మసుఖక్షాన్తిశ్రీధృతిస్మృతికీర్తిభిః ॥ 12॥న క్రోధో న చ మాత్సర్యం న లోభో నాశుభా మతిః । భవన్తి కృత పుణ్యానాం భక్తానాం పురుషోత్తమే ॥ 13॥ద్యౌః సచన్ద్రార్కనక్షత్రా ఖం దిశో భూర్మహోదధిః । వాసుదేవస్య వీర్యేణ విధృతాని మహాత్మనః ॥ 14॥ససురాసురగన్ధర్వం సయక్షోరగరాక్షసమ్ । జగద్వశే వర్తతేదం కృష్ణస్య సచరాచరమ్ ॥ 15॥ఇన్ద్రియాణి మనో బుద్ధిః సత్త్వం తేజో బలం ధృతిః । వాసుదేవాత్మకాన్యాహుః క్షేత్రం క్షేత్రజ్ఞ ఏవ చ ॥ 16॥సర్వాగమానామాచారః ప్రథమం పరికల్ప్యతే । ఆచారప్రభవో ధర్మో ధర్మస్య ప్రభురచ్యుతః ॥ 17॥ఋషయః పితరో దేవా మహాభూతాని ధాతవః । జఙ్గమాజఙ్గమం చేదం జగన్నారాయణోద్భవమ్ ॥ 18॥యోగో జ్ఞానం తథా సాఙ్ఖ్యం విద్యాః శిల్పాది కర్మ చ । వేదాః శాస్త్రాణి విజ్ఞానమేతత్సర్వం జనార్దనాత్ ॥ 19॥ఏకో విష్ణుర్మహద్భూతం పృథగ్భూతాన్యనేకశః । త్రీంల్లోకాన్వ్యాప్య భూతాత్మా భుఙ్క్తే విశ్వభుగవ్యయః ॥ 20॥ఇమం స్తవం భగవతో విష్ణోర్వ్యాసేన కీర్తితమ్ । పఠేద్య ఇచ్ఛేత్పురుషః శ్రేయః ప్రాప్తుం సుఖాని చ ॥ 21॥విశ్వేశ్వరమజం దేవం జగతః ప్రభుమవ్యయమ్ । భజన్తి యే పుష్కరాక్షం న తే యాన్తి పరాభవమ్ ॥ 22॥న తే యాన్తి పరాభవమ్ ఓం నమ ఇతి । అర్జున ఉవాచ — పద్మపత్రవిశాలాక్ష పద్మనాభ సురోత్తమ । భక్తానామనురక్తానాం త్రాతా భవ జనార్దన ॥ 23॥శ్రీభగవానువాచ — యో మాం నామసహస్రేణ స్తోతుమిచ్ఛతి పాణ్డవ । సోహఽమేకేన శ్లోకేన స్తుత ఏవ న సంశయః ॥ 24॥స్తుత ఏవ న సంశయ ఓం నమ ఇతి । వ్యాస ఉవాచ — వాసనాద్వాసుదేవస్య వాసితం భువనత్రయమ్ । సర్వభూతనివాసోఽసి వాసుదేవ నమోఽస్తు తే ॥ 25॥శ్రీ వాసుదేవ నమోఽస్తుత ఓం నమ ఇతి । పార్వత్యువాచ — కేనోపాయేన లఘునా విష్ణోర్నామసహస్రకమ్ । పఠ్యతే పణ్డితైర్నిత్యం శ్రోతుమిచ్ఛామ్యహం ప్రభో ॥ 26॥ఈశ్వర ఉవాచ — శ్రీరామ రామ రామేతి రమే రామే మనోరమే । సహస్రనామ తత్తుల్యం రామ నామ వరాననే ॥ 27॥శ్రీరామనామ వరానన ఓం నమ ఇతి । బ్రహ్మోవాచ — నమోఽస్త్వనన్తాయ సహస్రమూర్తయే సహస్రపాదాక్షిశిరోరుబాహవే । సహస్రనామ్నే పురుషాయ శాశ్వతే సహస్రకోటియుగధారిణే నమః ॥ 28॥సహస్రకోటియుగధారిణే ఓం నమ ఇతి ।

సఞ్జయ ఉవాచ — యత్ర యోగేశ్వరః కృష్ణో యత్ర పార్థో ధనుర్ధరః । తత్ర శ్రీర్విజయో భూతిర్ధ్రువా నీతిర్మతిర్మమ ॥ 29॥శ్రీభగవానువాచ — అనన్యాశ్చిన్తయన్తో మాం యే జనాః పర్యుపాసతే । తేషాం నిత్యాభియుక్తానాం యోగక్షేమం వహామ్యహమ్ ॥ 30॥పరిత్రాణాయ సాధూనాం వినాశాయ చ దుష్కృతామ్ । ధర్మసంస్థాపనార్థాయ సమ్భవామి యుగే యుగే ॥ 31॥ఆర్తాః విషణ్ణాః శిథిలాశ్చ భీతాః ఘోరేషు చ వ్యాధిషు వర్తమానాః । సఙ్కీర్త్య నారాయణశబ్దమాత్రం విముక్తదుఃఖాః సుఖినో భవన్తి ॥ 32॥కాయేన వాచా మనసేన్ద్రియైర్వా బుద్ధ్యాత్మనా వా ప్రకృతేః స్వభావాత్ । కరోమి యద్యత్ సకలం పరస్మై నారాయణాయేతి సమర్పయామి ॥ 33॥ఇతి శ్రీవిష్ణోర్దివ్యసహస్రనామస్తోత్రం సమ్పూర్ణమ్ । ఓం తత్ సత్ ।

ಶ್ರೀವಿಷ್ಣುಸಹಸ್ರನಾಮಸ್ತೋತ್ರಮ್

ಶುಕ್ಲಾಮ್ಬರಧರಂ ವಿಷ್ಣುಂ ಶಶಿವರ್ಣಂ ಚತುರ್ಭುಜಮ್ । ಪ್ರಸನ್ನವದನಂ ಧ್ಯಾಯೇತ್ ಸರ್ವವಿಘ್ನೋಪಶಾನ್ತಯೇ ॥ 1॥ಯಸ್ಯ ದ್ವಿರದವಕ್ತ್ರಾದ್ಯಾಃ ಪಾರಿಷದ್ಯಾಃ ಪರಃ ಶತಮ್ । ವಿಘ್ನಂ ನಿಘ್ನನ್ತಿ ಸತತಂ ವಿಷ್ವಕ್ಸೇನಂ ತಮಾಶ್ರಯೇ ॥ 2॥ವ್ಯಾಸಂ ವಸಿಷ್ಠನಪ್ತಾರಂ ಶಕ್ತೇಃ ಪೌತ್ರಮಕಲ್ಮಷಮ್ । ಪರಾಶರಾತ್ಮಜಂ ವನ್ದೇ ಶುಕತಾತಂ ತಪೋನಿಧಿಮ್ ॥ 3॥ವ್ಯಾಸಾಯ ವಿಷ್ಣುರೂಪಾಯ ವ್ಯಾಸರೂಪಾಯ ವಿಷ್ಣವೇ । ನಮೋ ವೈ ಬ್ರಹ್ಮನಿಧಯೇ ವಾಸಿಷ್ಠಾಯ ನಮೋ ನಮಃ ॥ 4॥ಅವಿಕಾರಾಯ ಶುದ್ಧಾಯ ನಿತ್ಯಾಯ ಪರಮಾತ್ಮನೇ । ಸದೈಕರೂಪರೂಪಾಯ ವಿಷ್ಣವೇ ಸರ್ವಜಿಷ್ಣವೇ ॥ 5॥ಯಸ್ಯ ಸ್ಮರಣಮಾತ್ರೇಣ ಜನ್ಮಸಂಸಾರಬನ್ಧನಾತ್ । ವಿಮುಚ್ಯತೇ ನಮಸ್ತಸ್ಮೈ ವಿಷ್ಣವೇ ಪ್ರಭವಿಷ್ಣವೇ ॥ 6॥ಓಂ ನಮೋ ವಿಷ್ಣವೇ ಪ್ರಭವಿಷ್ಣವೇ । ಶ್ರೀವೈಶಮ್ಪಾಯನ ಉವಾಚ — ಶ್ರುತ್ವಾ ಧರ್ಮಾನಶೇಷೇಣ ಪಾವನಾನಿ ಚ ಸರ್ವಶಃ । ಯುಧಿಷ್ಠಿರಃ ಶಾನ್ತನವಂ ಪುನರೇವಾಭ್ಯಭಾಷತ ॥ 7॥ಯುಧಿಷ್ಠಿರ ಉವಾಚ — ಕಿಮೇಕಂ ದೈವತಂ ಲೋಕೇ ಕಿಂ ವಾಪ್ಯೇಕಂ ಪರಾಯಣಮ್ । ಸ್ತುವನ್ತಃ ಕಂ ಕಮರ್ಚನ್ತಃ ಪ್ರಾಪ್ನುಯುರ್ಮಾನವಾಃ ಶುಭಮ್ ॥ 8॥ಕೋ ಧರ್ಮಃ ಸರ್ವಧರ್ಮಾಣಾಂ ಭವತಃ ಪರಮೋ ಮತಃ । ಕಿಂ ಜಪನ್ಮುಚ್ಯತೇ ಜನ್ತುರ್ಜನ್ಮಸಂಸಾರಬನ್ಧನಾತ್ ॥ 9॥ಭೀಷ್ಮ ಉವಾಚ — ಜಗತ್ಪ್ರಭುಂ ದೇವದೇವಮನನ್ತಂ ಪುರುಷೋತ್ತಮಮ್ । ಸ್ತುವನ್ ನಾಮಸಹಸ್ರೇಣ ಪುರುಷಃ ಸತತೋತ್ಥಿತಃ ॥ 10॥ತಮೇವ ಚಾರ್ಚಯನ್ನಿತ್ಯಂ ಭಕ್ತ್ಯಾ ಪುರುಷಮವ್ಯಯಮ್ । ಧ್ಯಾಯನ್ ಸ್ತುವನ್ ನಮಸ್ಯಂಶ್ಚ ಯಜಮಾನಸ್ತಮೇವ ಚ ॥ 11॥ಅನಾದಿನಿಧನಂ ವಿಷ್ಣುಂ ಸರ್ವಲೋಕಮಹೇಶ್ವರಮ್ । ಲೋಕಾಧ್ಯಕ್ಷಂ ಸ್ತುವನ್ನಿತ್ಯಂ ಸರ್ವದುಃಖಾತಿಗೋ ಭವೇತ್ ॥ 12॥ಬ್ರಹ್ಮಣ್ಯಂ ಸರ್ವಧರ್ಮಜ್ಞಂ ಲೋಕಾನಾಂ ಕೀರ್ತಿವರ್ಧನಮ್ । ಲೋಕನಾಥಂ ಮಹದ್ಭೂತಂ ಸರ್ವಭೂತಭವೋದ್ಭವಮ್ ॥ 13॥ಏಷ ಮೇ ಸರ್ವಧರ್ಮಾಣಾಂ ಧರ್ಮೋಽಧಿಕತಮೋ ಮತಃ । ಯದ್ಭಕ್ತ್ಯಾ ಪುಣ್ಡರೀಕಾಕ್ಷಂ ಸ್ತವೈರರ್ಚೇನ್ನರಃ ಸದಾ ॥ 14॥ಪರಮಂ ಯೋ ಮಹತ್ತೇಜಃ ಪರಮಂ ಯೋ ಮಹತ್ತಪಃ । ಪರಮಂ ಯೋ ಮಹದ್ಬ್ರಹ್ಮ ಪರಮಂ ಯಃ ಪರಾಯಣಮ್ ॥ 15॥ಪವಿತ್ರಾಣಾಂ ಪವಿತ್ರಂ ಯೋ ಮಙ್ಗಲಾನಾಂ ಚ ಮಙ್ಗಲಮ್ । ದೈವತಂ ದೈವತಾನಾಂ ಚ ಭೂತಾನಾಂ ಯೋಽವ್ಯಯಃ ಪಿತಾ ॥ 16॥ಯತಃ ಸರ್ವಾಣಿ ಭೂತಾನಿ ಭವನ್ತ್ಯಾದಿಯುಗಾಗಮೇ । ಯಸ್ಮಿಂಶ್ಚ ಪ್ರಲಯಂ ಯಾನ್ತಿ ಪುನರೇವ ಯುಗಕ್ಷಯೇ ॥ 17॥ತಸ್ಯ ಲೋಕಪ್ರಧಾನಸ್ಯ ಜಗನ್ನಾಥಸ್ಯ ಭೂಪತೇ । ವಿಷ್ಣೋರ್ನಾಮಸಹಸ್ರಂ ಮೇ ಶೃಣು ಪಾಪಭಯಾಪಹಮ್ ॥ 18॥ಯಾನಿ ನಾಮಾನಿ ಗೌಣಾನಿ ವಿಖ್ಯಾತಾನಿ ಮಹಾತ್ಮನಃ । ಋಷಿಭಿಃ ಪರಿಗೀತಾನಿ ತಾನಿ ವಕ್ಷ್ಯಾಮಿ ಭೂತಯೇ ॥ 19॥ಋಷಿರ್ನಾಮ್ನಾಂ ಸಹಸ್ರಸ್ಯ ವೇದವ್ಯಾಸೋ ಮಹಾಮುನಿಃ । ಛನ್ದೋಽನುಷ್ಟುಪ್ ತಥಾ ದೇವೋ ಭಗವಾನ್ ದೇವಕೀಸುತಃ ॥ 20॥ಅಮೃತಾಂಶೂದ್ಭವೋ ಬೀಜಂ ಶಕ್ತಿರ್ದೇವಕಿನನ್ದನಃ । ತ್ರಿಸಾಮಾ ಹೃದಯಂ ತಸ್ಯ ಶಾನ್ತ್ಯರ್ಥೇ ವಿನಿಯೋಜ್ಯತೇ ॥ 21॥ವಿಷ್ಣುಂ ಜಿಷ್ಣುಂ ಮಹಾವಿಷ್ಣುಂ ಪ್ರಭವಿಷ್ಣುಂ ಮಹೇಶ್ವರಮ್ । ಅನೇಕರೂಪ ದೈತ್ಯಾನ್ತಂ ನಮಾಮಿ ಪುರುಷೋತ್ತಮಂ ॥ 22 ॥ಅಸ್ಯ ಶ್ರೀವಿಷ್ಣೋರ್ದಿವ್ಯಸಹಸ್ರನಾಮಸ್ತೋತ್ರಮಹಾಮನ್ತ್ರಸ್ಯ । ಶ್ರೀ ವೇದವ್ಯಾಸೋ ಭಗವಾನ್ ಋಷಿಃ । ಅನುಷ್ಟುಪ್ ಛನ್ದಃ । ಶ್ರೀಮಹಾವಿಷ್ಣುಃ ಪರಮಾತ್ಮಾ ಶ್ರೀಮನ್ನಾರಾಯಣೋ ದೇವತಾ । ಅಮೃತಾಂಶೂದ್ಭವೋ ಭಾನುರಿತಿ ಬೀಜಮ್ । ದೇವಕೀನನ್ದನಃ ಸ್ರಷ್ಟೇತಿ ಶಕ್ತಿಃ । ಉದ್ಭವಃ ಕ್ಷೋಭಣೋ ದೇವ ಇತಿ ಪರಮೋ ಮನ್ತ್ರಃ । ಶಙ್ಖಭೃನ್ನನ್ದಕೀ ಚಕ್ರೀತಿ ಕೀಲಕಮ್ । ಶಾರ್ಙ್ಗಧನ್ವಾ ಗದಾಧರ ಇತ್ಯಸ್ತ್ರಮ್ । ರಥಾಙ್ಗಪಾಣಿರಕ್ಷೋಭ್ಯ ಇತಿ ನೇತ್ರಮ್ । ತ್ರಿಸಾಮಾ ಸಾಮಗಃ ಸಾಮೇತಿ ಕವಚಮ್ । ಆನನ್ದಂ ಪರಬ್ರಹ್ಮೇತಿ ಯೋನಿಃ । ಋತುಃ ಸುದರ್ಶನಃ ಕಾಲ ಇತಿ ದಿಗ್ಬನ್ಧಃ ॥

ಶ್ರೀವಿಶ್ವರೂಪ ಇತಿ ಧ್ಯಾನಮ್ । ಶ್ರೀಮಹಾವಿಷ್ಣುಪ್ರೀತ್ಯರ್ಥೇ ಸಹಸ್ರನಾಮಸ್ತೋತ್ರಪಾಠೇ ವಿನಿಯೋಗಃ ॥

ಧ್ಯಾನಮ್ । ಕ್ಷೀರೋದನ್ವತ್ಪ್ರದೇಶೇ ಶುಚಿಮಣಿವಿಲಸತ್ಸೈಕತೇರ್ಮೌಕ್ತಿಕಾನಾಂ ಮಾಲಾಕೢಪ್ತಾಸನಸ್ಥಃ ಸ್ಫಟಿಕಮಣಿನಿಭೈರ್ಮೌಕ್ತಿಕೈರ್ಮಣ್ಡಿತಾಙ್ಗಃ । ಶುಭ್ರೈರಭ್ರೈರದಭ್ರೈರುಪರಿವಿರಚಿತೈರ್ಮುಕ್ತಪೀಯೂಷ ವರ್ಷೈಃ ಆನನ್ದೀ ನಃ ಪುನೀಯಾದರಿನಲಿನಗದಾ ಶಙ್ಖಪಾಣಿರ್ಮುಕುನ್ದಃ ॥ 1॥ಭೂಃ ಪಾದೌ ಯಸ್ಯ ನಾಭಿರ್ವಿಯದಸುರನಿಲಶ್ಚನ್ದ್ರ ಸೂರ್ಯೌ ಚ ನೇತ್ರೇ ಕರ್ಣಾವಾಶಾಃ ಶಿರೋ ದ್ಯೌರ್ಮುಖಮಪಿ ದಹನೋ ಯಸ್ಯ ವಾಸ್ತೇಯಮಬ್ಧಿಃ । ಅನ್ತಃಸ್ಥಂ ಯಸ್ಯ ವಿಶ್ವಂ ಸುರನರಖಗಗೋಭೋಗಿಗನ್ಧರ್ವದೈತ್ಯೈಃ ಚಿತ್ರಂ ರಂರಮ್ಯತೇ ತಂ ತ್ರಿಭುವನ ವಪುಷಂ ವಿಷ್ಣುಮೀಶಂ ನಮಾಮಿ ॥ 2॥ಓಂ ಶಾನ್ತಾಕಾರಂ ಭುಜಗಶಯನಂ ಪದ್ಮನಾಭಂ ಸುರೇಶಂ ವಿಶ್ವಾಧಾರಂ ಗಗನಸದೃಶಂ ಮೇಘವರ್ಣಂ ಶುಭಾಙ್ಗಮ್ । ಲಕ್ಷ್ಮೀಕಾನ್ತಂ ಕಮಲನಯನಂ ಯೋಗಿಭಿರ್ಧ್ಯಾನಗಮ್ಯಂ ಯೋಗಿಹೃದ್ಧ್ಯಾನಗಮ್ಯಂ ವನ್ದೇ ವಿಷ್ಣುಂ ಭವಭಯಹರಂ ಸರ್ವಲೋಕೈಕನಾಥಮ್ ॥ 3॥ಮೇಘಶ್ಯಾಮಂ ಪೀತಕೌಶೇಯವಾಸಂ ಶ್ರೀವತ್ಸಾಙ್ಕಂ ಕೌಸ್ತುಭೋದ್ಭಾಸಿತಾಙ್ಗಮ್ । ಪುಣ್ಯೋಪೇತಂ ಪುಣ್ಡರೀಕಾಯತಾಕ್ಷಂ ವಿಷ್ಣುಂ ವನ್ದೇ ಸರ್ವಲೋಕೈಕನಾಥಮ್ ॥ 4॥ನಮಃ ಸಮಸ್ತಭೂತಾನಾಮಾದಿಭೂತಾಯ ಭೂಭೃತೇ । ಅನೇಕರೂಪರೂಪಾಯ ವಿಷ್ಣವೇ ಪ್ರಭವಿಷ್ಣವೇ ॥ 5॥ಸಶಙ್ಖಚಕ್ರಂ ಸಕಿರೀಟಕುಣ್ಡಲಂ ಸಪೀತವಸ್ತ್ರಂ ಸರಸೀರುಹೇಕ್ಷಣಮ್ । ಸಹಾರವಕ್ಷಃ ಸ್ಥಲಶೋಭಿಕೌಸ್ತುಭಂ ನಮಾಮಿ ವಿಷ್ಣುಂ ಶಿರಸಾ ಚತುರ್ಭುಜಮ್ ॥ 6॥ಛಾಯಾಯಾಂ ಪಾರಿಜಾತಸ್ಯ ಹೇಮಸಿಂಹಾಸನೋಪರಿ ಆಸೀನಮಮ್ಬುದಶ್ಯಾಮಮಾಯತಾಕ್ಷಮಲಂಕೃತಮ್ । ಚನ್ದ್ರಾನನಂ ಚತುರ್ಬಾಹುಂ ಶ್ರೀವತ್ಸಾಙ್ಕಿತ ವಕ್ಷಸಂ ರುಕ್ಮಿಣೀ ಸತ್ಯಭಾಮಾಭ್ಯಾಂ ಸಹಿತಂ ಕೃಷ್ಣಮಾಶ್ರಯೇ ॥ 7॥ಓಂ ।

ವಿಶ್ವಂ ವಿಷ್ಣುರ್ವಷಟ್ಕಾರೋ ಭೂತಭವ್ಯಭವತ್ಪ್ರಭುಃ । ಭೂತಕೃದ್ಭೂತಭೃದ್ಭಾವೋ ಭೂತಾತ್ಮಾ ಭೂತಭಾವನಃ ॥ 1॥ಪೂತಾತ್ಮಾ ಪರಮಾತ್ಮಾ ಚ ಮುಕ್ತಾನಾಂ ಪರಮಾ ಗತಿಃ । ಅವ್ಯಯಃ ಪುರುಷಃ ಸಾಕ್ಷೀ ಕ್ಷೇತ್ರಜ್ಞೋಽಕ್ಷರ ಏವ ಚ ॥ 2॥ಯೋಗೋ ಯೋಗವಿದಾಂ ನೇತಾ ಪ್ರಧಾನಪುರುಷೇಶ್ವರಃ । ನಾರಸಿಂಹವಪುಃ ಶ್ರೀಮಾನ್ ಕೇಶವಃ ಪುರುಷೋತ್ತಮಃ ॥ 3॥ಸರ್ವಃ ಶರ್ವಃ ಶಿವಃ ಸ್ಥಾಣುರ್ಭೂತಾದಿರ್ನಿಧಿರವ್ಯಯಃ । ಸಮ್ಭವೋ ಭಾವನೋ ಭರ್ತಾ ಪ್ರಭವಃ ಪ್ರಭುರೀಶ್ವರಃ ॥ 4॥ಸ್ವಯಮ್ಭೂಃ ಶಮ್ಭುರಾದಿತ್ಯಃ ಪುಷ್ಕರಾಕ್ಷೋ ಮಹಾಸ್ವನಃ । ಅನಾದಿನಿಧನೋ ಧಾತಾ ವಿಧಾತಾ ಧಾತುರುತ್ತಮಃ ॥ 5॥ಅಪ್ರಮೇಯೋ ಹೃಷೀಕೇಶಃ ಪದ್ಮನಾಭೋಽಮರಪ್ರಭುಃ । ವಿಶ್ವಕರ್ಮಾ ಮನುಸ್ತ್ವಷ್ಟಾ ಸ್ಥವಿಷ್ಠಃ ಸ್ಥವಿರೋ ಧ್ರುವಃ ॥ 6॥ಅಗ್ರಾಹ್ಯಃ ಶಾಶ್ವತಃ ಕೃಷ್ಣೋ ಲೋಹಿತಾಕ್ಷಃ ಪ್ರತರ್ದನಃ । ಪ್ರಭೂತಸ್ತ್ರಿಕಕುಬ್ಧಾಮ ಪವಿತ್ರಂ ಮಙ್ಗಲಂ ಪರಮ್ ॥ 7॥ಈಶಾನಃ ಪ್ರಾಣದಃ ಪ್ರಾಣೋ ಜ್ಯೇಷ್ಠಃ ಶ್ರೇಷ್ಠಃ ಪ್ರಜಾಪತಿಃ । ಹಿರಣ್ಯಗರ್ಭೋ ಭೂಗರ್ಭೋ ಮಾಧವೋ ಮಧುಸೂದನಃ ॥ 8॥ಈಶ್ವರೋ ವಿಕ್ರಮೀ ಧನ್ವೀ ಮೇಧಾವೀ ವಿಕ್ರಮಃ ಕ್ರಮಃ । ಅನುತ್ತಮೋ ದುರಾಧರ್ಷಃ ಕೃತಜ್ಞಃ ಕೃತಿರಾತ್ಮವಾನ್ ॥ 9॥ಸುರೇಶಃ ಶರಣಂ ಶರ್ಮ ವಿಶ್ವರೇತಾಃ ಪ್ರಜಾಭವಃ । ಅಹಃ ಸಂವತ್ಸರೋ ವ್ಯಾಲಃ ಪ್ರತ್ಯಯಃ ಸರ್ವದರ್ಶನಃ ॥ 10॥ಅಜಃ ಸರ್ವೇಶ್ವರಃ ಸಿದ್ಧಃ ಸಿದ್ಧಿಃ ಸರ್ವಾದಿರಚ್ಯುತಃ । ವೃಷಾಕಪಿರಮೇಯಾತ್ಮಾ ಸರ್ವಯೋಗವಿನಿಃಸೃತಃ ॥ 11॥ವಸುರ್ವಸುಮನಾಃ ಸತ್ಯಃ ಸಮಾತ್ಮಾಽಸಮ್ಮಿತಃ ಸಮಃ । ಅಮೋಘಃ ಪುಣ್ಡರೀಕಾಕ್ಷೋ ವೃಷಕರ್ಮಾ ವೃಷಾಕೃತಿಃ ॥ 12॥ರುದ್ರೋ ಬಹುಶಿರಾ ಬಭ್ರುರ್ವಿಶ್ವಯೋನಿಃ ಶುಚಿಶ್ರವಾಃ । ಅಮೃತಃ ಶಾಶ್ವತಸ್ಥಾಣುರ್ವರಾರೋಹೋ ಮಹಾತಪಾಃ ॥ 13॥ಸರ್ವಗಃ ಸರ್ವವಿದ್ಭಾನುರ್ವಿಷ್ವಕ್ಸೇನೋ ಜನಾರ್ದನಃ । ವೇದೋ ವೇದವಿದವ್ಯಙ್ಗೋ ವೇದಾಙ್ಗೋ ವೇದವಿತ್ ಕವಿಃ ॥ 14॥ಲೋಕಾಧ್ಯಕ್ಷಃ ಸುರಾಧ್ಯಕ್ಷೋ ಧರ್ಮಾಧ್ಯಕ್ಷಃ ಕೃತಾಕೃತಃ । ಚತುರಾತ್ಮಾ ಚತುರ್ವ್ಯೂಹಶ್ಚತುರ್ದಂಷ್ಟ್ರಶ್ಚತುರ್ಭುಜಃ ॥ 15॥ಭ್ರಾಜಿಷ್ಣುರ್ಭೋಜನಂ ಭೋಕ್ತಾ ಸಹಿಷ್ಣುರ್ಜಗದಾದಿಜಃ । ಅನಘೋ ವಿಜಯೋ ಜೇತಾ ವಿಶ್ವಯೋನಿಃ ಪುನರ್ವಸುಃ ॥ 16॥ಉಪೇನ್ದ್ರೋ ವಾಮನಃ ಪ್ರಾಂಶುರಮೋಘಃ ಶುಚಿರೂರ್ಜಿತಃ । ಅತೀನ್ದ್ರಃ ಸಙ್ಗ್ರಹಃ ಸರ್ಗೋ ಧೃತಾತ್ಮಾ ನಿಯಮೋ ಯಮಃ ॥ 17॥ವೇದ್ಯೋ ವೈದ್ಯಃ ಸದಾಯೋಗೀ ವೀರಹಾ ಮಾಧವೋ ಮಧುಃ । ಅತೀನ್ದ್ರಿಯೋ ಮಹಾಮಾಯೋ ಮಹೋತ್ಸಾಹೋ ಮಹಾಬಲಃ ॥ 18॥ಮಹಾಬುದ್ಧಿರ್ಮಹಾವೀರ್ಯೋ ಮಹಾಶಕ್ತಿರ್ಮಹಾದ್ಯುತಿಃ । ಅನಿರ್ದೇಶ್ಯವಪುಃ ಶ್ರೀಮಾನಮೇಯಾತ್ಮಾ ಮಹಾದ್ರಿಧೃಕ್ ॥ 19॥ಮಹೇಷ್ವಾಸೋ ಮಹೀಭರ್ತಾ ಶ್ರೀನಿವಾಸಃ ಸತಾಂ ಗತಿಃ । ಅನಿರುದ್ಧಃ ಸುರಾನನ್ದೋ ಗೋವಿನ್ದೋ ಗೋವಿದಾಂ ಪತಿಃ ॥ 20॥ಮರೀಚಿರ್ದಮನೋ ಹಂಸಃ ಸುಪರ್ಣೋ ಭುಜಗೋತ್ತಮಃ । ಹಿರಣ್ಯನಾಭಃ ಸುತಪಾಃ ಪದ್ಮನಾಭಃ ಪ್ರಜಾಪತಿಃ ॥ 21॥ಅಮೃತ್ಯುಃ ಸರ್ವದೃಕ್ ಸಿಂಹಃ ಸನ್ಧಾತಾ ಸನ್ಧಿಮಾನ್ ಸ್ಥಿರಃ । ಅಜೋ ದುರ್ಮರ್ಷಣಃ ಶಾಸ್ತಾ ವಿಶ್ರುತಾತ್ಮಾ ಸುರಾರಿಹಾ ॥ 22॥ಗುರುರ್ಗುರುತಮೋ ಧಾಮ ಸತ್ಯಃ ಸತ್ಯಪರಾಕ್ರಮಃ । ನಿಮಿಷೋಽನಿಮಿಷಃ ಸ್ರಗ್ವೀ ವಾಚಸ್ಪತಿರುದಾರಧೀಃ ॥ 23॥ಅಗ್ರಣೀರ್ಗ್ರಾಮಣೀಃ ಶ್ರೀಮಾನ್ ನ್ಯಾಯೋ ನೇತಾ ಸಮೀರಣಃ । ಸಹಸ್ರಮೂರ್ಧಾ ವಿಶ್ವಾತ್ಮಾ ಸಹಸ್ರಾಕ್ಷಃ ಸಹಸ್ರಪಾತ್ ॥ 24॥ಆವರ್ತನೋ ನಿವೃತ್ತಾತ್ಮಾ ಸಂವೃತಃ ಸಮ್ಪ್ರಮರ್ದನಃ । ಅಹಃ ಸಂವರ್ತಕೋ ವಹ್ನಿರನಿಲೋ ಧರಣೀಧರಃ ॥ 25॥ಸುಪ್ರಸಾದಃ ಪ್ರಸನ್ನಾತ್ಮಾ ವಿಶ್ವಧೃಗ್ವಿಶ್ವಭುಗ್ವಿಭುಃ । ಸತ್ಕರ್ತಾ ಸತ್ಕೃತಃ ಸಾಧುರ್ಜಹ್ನುರ್ನಾರಾಯಣೋ ನರಃ ॥ 26॥ಅಸಙ್ಖ್ಯೇಯೋಽಪ್ರಮೇಯಾತ್ಮಾ ವಿಶಿಷ್ಟಃ ಶಿಷ್ಟಕೃಚ್ಛುಚಿಃ । ಸಿದ್ಧಾರ್ಥಃ ಸಿದ್ಧಸಙ್ಕಲ್ಪಃ ಸಿದ್ಧಿದಃ ಸಿದ್ಧಿಸಾಧನಃ ॥ 27॥ವೃಷಾಹೀ ವೃಷಭೋ ವಿಷ್ಣುರ್ವೃಷಪರ್ವಾ ವೃಷೋದರಃ । ವರ್ಧನೋ ವರ್ಧಮಾನಶ್ಚ ವಿವಿಕ್ತಃ ಶ್ರುತಿಸಾಗರಃ ॥ 28॥ಸುಭುಜೋ ದುರ್ಧರೋ ವಾಗ್ಮೀ ಮಹೇನ್ದ್ರೋ ವಸುದೋ ವಸುಃ । ನೈಕರೂಪೋ ಬೃಹದ್ರೂಪಃ ಶಿಪಿವಿಷ್ಟಃ ಪ್ರಕಾಶನಃ ॥ 29॥ಓಜಸ್ತೇಜೋದ್ಯುತಿಧರಃ ಪ್ರಕಾಶಾತ್ಮಾ ಪ್ರತಾಪನಃ । ಋದ್ಧಃ ಸ್ಪಷ್ಟಾಕ್ಷರೋ ಮನ್ತ್ರಶ್ಚನ್ದ್ರಾಂಶುರ್ಭಾಸ್ಕರದ್ಯುತಿಃ ॥ 30॥ಅಮೃತಾಂಶೂದ್ಭವೋ ಭಾನುಃ ಶಶಬಿನ್ದುಃ ಸುರೇಶ್ವರಃ । ಔಷಧಂ ಜಗತಃ ಸೇತುಃ ಸತ್ಯಧರ್ಮಪರಾಕ್ರಮಃ ॥ 31॥ಭೂತಭವ್ಯಭವನ್ನಾಥಃ ಪವನಃ ಪಾವನೋಽನಲಃ । ಕಾಮಹಾ ಕಾಮಕೃತ್ಕಾನ್ತಃ ಕಾಮಃ ಕಾಮಪ್ರದಃ ಪ್ರಭುಃ ॥ 32॥ಯುಗಾದಿಕೃದ್ಯುಗಾವರ್ತೋ ನೈಕಮಾಯೋ ಮಹಾಶನಃ । ಅದೃಶ್ಯೋ ವ್ಯಕ್ತರೂಪಶ್ಚ ಸಹಸ್ರಜಿದನನ್ತಜಿತ್ ॥ 33॥ಇಷ್ಟೋಽವಿಶಿಷ್ಟಃ ಶಿಷ್ಟೇಷ್ಟಃ ಶಿಖಣ್ಡೀ ನಹುಷೋ ವೃಷಃ । ಕ್ರೋಧಹಾ ಕ್ರೋಧಕೃತ್ಕರ್ತಾ ವಿಶ್ವಬಾಹುರ್ಮಹೀಧರಃ ॥ 34॥ಅಚ್ಯುತಃ ಪ್ರಥಿತಃ ಪ್ರಾಣಃ ಪ್ರಾಣದೋ ವಾಸವಾನುಜಃ । ಅಪಾಂನಿಧಿರಧಿಷ್ಠಾನಮಪ್ರಮತ್ತಃ ಪ್ರತಿಷ್ಠಿತಃ ॥ 35॥ಸ್ಕನ್ದಃ ಸ್ಕನ್ದಧರೋ ಧುರ್ಯೋ ವರದೋ ವಾಯುವಾಹನಃ । ವಾಸುದೇವೋ ಬೃಹದ್ಭಾನುರಾದಿದೇವಃ ಪುರನ್ದರಃ ॥ 36॥ಅಶೋಕಸ್ತಾರಣಸ್ತಾರಃ ಶೂರಃ ಶೌರಿರ್ಜನೇಶ್ವರಃ । ಅನುಕೂಲಃ ಶತಾವರ್ತಃ ಪದ್ಮೀ ಪದ್ಮನಿಭೇಕ್ಷಣಃ ॥ 37॥ಪದ್ಮನಾಭೋಽರವಿನ್ದಾಕ್ಷಃ ಪದ್ಮಗರ್ಭಃ ಶರೀರಭೃತ್ । ಮಹರ್ದ್ಧಿರೃದ್ಧೋ ವೃದ್ಧಾತ್ಮಾ ಮಹಾಕ್ಷೋ ಗರುಡಧ್ವಜಃ ॥ 38॥ಅತುಲಃ ಶರಭೋ ಭೀಮಃ ಸಮಯಜ್ಞೋ ಹವಿರ್ಹರಿಃ । ಸರ್ವಲಕ್ಷಣಲಕ್ಷಣ್ಯೋ ಲಕ್ಷ್ಮೀವಾನ್ ಸಮಿತಿಞ್ಜಯಃ ॥ 39॥ವಿಕ್ಷರೋ ರೋಹಿತೋ ಮಾರ್ಗೋ ಹೇತುರ್ದಾಮೋದರಃ ಸಹಃ । ಮಹೀಧರೋ ಮಹಾಭಾಗೋ ವೇಗವಾನಮಿತಾಶನಃ ॥ 40॥ಉದ್ಭವಃ ಕ್ಷೋಭಣೋ ದೇವಃ ಶ್ರೀಗರ್ಭಃ ಪರಮೇಶ್ವರಃ । ಕರಣಂ ಕಾರಣಂ ಕರ್ತಾ ವಿಕರ್ತಾ ಗಹನೋ ಗುಹಃ ॥ 41॥ವ್ಯವಸಾಯೋ ವ್ಯವಸ್ಥಾನಃ ಸಂಸ್ಥಾನಃ ಸ್ಥಾನದೋ ಧ್ರುವಃ । ಪರರ್ದ್ಧಿಃ ಪರಮಸ್ಪಷ್ಟಸ್ತುಷ್ಟಃ ಪುಷ್ಟಃ ಶುಭೇಕ್ಷಣಃ ॥ 42॥ರಾಮೋ ವಿರಾಮೋ ವಿರಜೋ ಮಾರ್ಗೋ ನೇಯೋ ನಯೋಽನಯಃ । ವೀರಃ ಶಕ್ತಿಮತಾಂ ಶ್ರೇಷ್ಠೋ ಧರ್ಮೋ ಧರ್ಮವಿದುತ್ತಮಃ ॥ 43॥ವೈಕುಣ್ಠಃ ಪುರುಷಃ ಪ್ರಾಣಃ ಪ್ರಾಣದಃ ಪ್ರಣವಃ ಪೃಥುಃ । ಹಿರಣ್ಯಗರ್ಭಃ ಶತ್ರುಘ್ನೋ ವ್ಯಾಪ್ತೋ ವಾಯುರಧೋಕ್ಷಜಃ ॥ 44॥ಋತುಃ ಸುದರ್ಶನಃ ಕಾಲಃ ಪರಮೇಷ್ಠೀ ಪರಿಗ್ರಹಃ । ಉಗ್ರಃ ಸಂವತ್ಸರೋ ದಕ್ಷೋ ವಿಶ್ರಾಮೋ ವಿಶ್ವದಕ್ಷಿಣಃ ॥ 45॥ವಿಸ್ತಾರಃ ಸ್ಥಾವರಸ್ಥಾಣುಃ ಪ್ರಮಾಣಂ ಬೀಜಮವ್ಯಯಮ್ । ಅರ್ಥೋಽನರ್ಥೋ ಮಹಾಕೋಶೋ ಮಹಾಭೋಗೋ ಮಹಾಧನಃ ॥ 46॥ಅನಿರ್ವಿಣ್ಣಃ ಸ್ಥವಿಷ್ಠೋಽಭೂರ್ಧರ್ಮಯೂಪೋ ಮಹಾಮಖಃ । ನಕ್ಷತ್ರನೇಮಿರ್ನಕ್ಷತ್ರೀ ಕ್ಷಮಃ ಕ್ಷಾಮಃ ಸಮೀಹನಃ ॥ 47॥ಯಜ್ಞ ಇಜ್ಯೋ ಮಹೇಜ್ಯಶ್ಚ ಕ್ರತುಃ ಸತ್ರಂ ಸತಾಂ ಗತಿಃ । ಸರ್ವದರ್ಶೀ ವಿಮುಕ್ತಾತ್ಮಾ ಸರ್ವಜ್ಞೋ ಜ್ಞಾನಮುತ್ತಮಮ್ ॥ 48॥ಸುವ್ರತಃ ಸುಮುಖಃ ಸೂಕ್ಷ್ಮಃ ಸುಘೋಷಃ ಸುಖದಃ ಸುಹೃತ್ । ಮನೋಹರೋ ಜಿತಕ್ರೋಧೋ ವೀರಬಾಹುರ್ವಿದಾರಣಃ ॥ 49॥ಸ್ವಾಪನಃ ಸ್ವವಶೋ ವ್ಯಾಪೀ ನೈಕಾತ್ಮಾ ನೈಕಕರ್ಮಕೃತ್ । ವತ್ಸರೋ ವತ್ಸಲೋ ವತ್ಸೀ ರತ್ನಗರ್ಭೋ ಧನೇಶ್ವರಃ ॥ 50॥ಧರ್ಮಗುಬ್ಧರ್ಮಕೃದ್ಧರ್ಮೀ ಸದಸತ್ಕ್ಷರಮಕ್ಷರಮ್ । ಅವಿಜ್ಞಾತಾ ಸಹಸ್ರಾಂಶುರ್ವಿಧಾತಾ ಕೃತಲಕ್ಷಣಃ ॥ 51॥ಗಭಸ್ತಿನೇಮಿಃ ಸತ್ತ್ವಸ್ಥಃ ಸಿಂಹೋ ಭೂತಮಹೇಶ್ವರಃ । ಆದಿದೇವೋ ಮಹಾದೇವೋ ದೇವೇಶೋ ದೇವಭೃದ್ಗುರುಃ ॥ 52॥ಉತ್ತರೋ ಗೋಪತಿರ್ಗೋಪ್ತಾ ಜ್ಞಾನಗಮ್ಯಃ ಪುರಾತನಃ । ಶರೀರಭೂತಭೃದ್ಭೋಕ್ತಾ ಕಪೀನ್ದ್ರೋ ಭೂರಿದಕ್ಷಿಣಃ ॥ 53॥ಸೋಮಪೋಽಮೃತಪಃ ಸೋಮಃ ಪುರುಜಿತ್ಪುರುಸತ್ತಮಃ । ವಿನಯೋ ಜಯಃ ಸತ್ಯಸನ್ಧೋ ದಾಶಾರ್ಹಃ ಸಾತ್ವತಾಮ್ಪತಿಃ ॥ 54॥ಜೀವೋ ವಿನಯಿತಾ ಸಾಕ್ಷೀ ಮುಕುನ್ದೋಽಮಿತವಿಕ್ರಮಃ । ಅಮ್ಭೋನಿಧಿರನನ್ತಾತ್ಮಾ ಮಹೋದಧಿಶಯೋಽನ್ತಕಃ ॥ 55॥ಅಜೋ ಮಹಾರ್ಹಃ ಸ್ವಾಭಾವ್ಯೋ ಜಿತಾಮಿತ್ರಃ ಪ್ರಮೋದನಃ । ಆನನ್ದೋ ನನ್ದನೋ ನನ್ದಃ ಸತ್ಯಧರ್ಮಾ ತ್ರಿವಿಕ್ರಮಃ ॥ 56॥ಮಹರ್ಷಿಃ ಕಪಿಲಾಚಾರ್ಯಃ ಕೃತಜ್ಞೋ ಮೇದಿನೀಪತಿಃ । ತ್ರಿಪದಸ್ತ್ರಿದಶಾಧ್ಯಕ್ಷೋ ಮಹಾಶೃಙ್ಗಃ ಕೃತಾನ್ತಕೃತ್ ॥ 57॥ಮಹಾವರಾಹೋ ಗೋವಿನ್ದಃ ಸುಷೇಣಃ ಕನಕಾಙ್ಗದೀ । ಗುಹ್ಯೋ ಗಭೀರೋ ಗಹನೋ ಗುಪ್ತಶ್ಚಕ್ರಗದಾಧರಃ ॥ 58॥ವೇಧಾಃ ಸ್ವಾಙ್ಗೋಽಜಿತಃ ಕೃಷ್ಣೋ ದೃಢಃ ಸಙ್ಕರ್ಷಣೋಽಚ್ಯುತಃ । ವರುಣೋ ವಾರುಣೋ ವೃಕ್ಷಃ ಪುಷ್ಕರಾಕ್ಷೋ ಮಹಾಮನಾಃ ॥ 59॥ಭಗವಾನ್ ಭಗಹಾಽಽನನ್ದೀ ವನಮಾಲೀ ಹಲಾಯುಧಃ । ಆದಿತ್ಯೋ ಜ್ಯೋತಿರಾದಿತ್ಯಃ ಸಹಿಷ್ಣುರ್ಗತಿಸತ್ತಮಃ ॥ 60॥ಸುಧನ್ವಾ ಖಣ್ಡಪರಶುರ್ದಾರುಣೋ ದ್ರವಿಣಪ್ರದಃ । ದಿವಸ್ಪೃಕ್ ಸರ್ವದೃಗ್ವ್ಯಾಸೋ ವಾಚಸ್ಪತಿರಯೋನಿಜಃ ॥ 61॥ತ್ರಿಸಾಮಾ ಸಾಮಗಃ ಸಾಮ ನಿರ್ವಾಣಂ ಭೇಷಜಂ ಭಿಷಕ್ । ಸಂನ್ಯಾಸಕೃಚ್ಛಮಃ ಶಾನ್ತೋ ನಿಷ್ಠಾ ಶಾನ್ತಿಃ ಪರಾಯಣಮ್ ॥ 62॥ಶುಭಾಙ್ಗಃ ಶಾನ್ತಿದಃ ಸ್ರಷ್ಟಾ ಕುಮುದಃ ಕುವಲೇಶಯಃ । ಗೋಹಿತೋ ಗೋಪತಿರ್ಗೋಪ್ತಾ ವೃಷಭಾಕ್ಷೋ ವೃಷಪ್ರಿಯಃ ॥ 63॥ಅನಿವರ್ತೀ ನಿವೃತ್ತಾತ್ಮಾ ಸಙ್ಕ್ಷೇಪ್ತಾ ಕ್ಷೇಮಕೃಚ್ಛಿವಃ । ಶ್ರೀವತ್ಸವಕ್ಷಾಃ ಶ್ರೀವಾಸಃ ಶ್ರೀಪತಿಃ ಶ್ರೀಮತಾಂವರಃ ॥ 64॥ಶ್ರೀದಃ ಶ್ರೀಶಃ ಶ್ರೀನಿವಾಸಃ ಶ್ರೀನಿಧಿಃ ಶ್ರೀವಿಭಾವನಃ । ಶ್ರೀಧರಃ ಶ್ರೀಕರಃ ಶ್ರೇಯಃ ಶ್ರೀಮಾಂಲ್ಲೋಕತ್ರಯಾಶ್ರಯಃ ॥ 65॥ಸ್ವಕ್ಷಃ ಸ್ವಙ್ಗಃ ಶತಾನನ್ದೋ ನನ್ದಿರ್ಜ್ಯೋತಿರ್ಗಣೇಶ್ವರಃ । ವಿಜಿತಾತ್ಮಾಽವಿಧೇಯಾತ್ಮಾ ಸತ್ಕೀರ್ತಿಶ್ಛಿನ್ನಸಂಶಯಃ ॥ 66॥ಉದೀರ್ಣಃ ಸರ್ವತಶ್ಚಕ್ಷುರನೀಶಃ ಶಾಶ್ವತಸ್ಥಿರಃ । ಭೂಶಯೋ ಭೂಷಣೋ ಭೂತಿರ್ವಿಶೋಕಃ ಶೋಕನಾಶನಃ ॥ 67॥ಅರ್ಚಿಷ್ಮಾನರ್ಚಿತಃ ಕುಮ್ಭೋ ವಿಶುದ್ಧಾತ್ಮಾ ವಿಶೋಧನಃ । ಅನಿರುದ್ಧೋಽಪ್ರತಿರಥಃ ಪ್ರದ್ಯುಮ್ನೋಽಮಿತವಿಕ್ರಮಃ ॥ 68॥ಕಾಲನೇಮಿನಿಹಾ ವೀರಃ ಶೌರಿಃ ಶೂರಜನೇಶ್ವರಃ । ತ್ರಿಲೋಕಾತ್ಮಾ ತ್ರಿಲೋಕೇಶಃ ಕೇಶವಃ ಕೇಶಿಹಾ ಹರಿಃ ॥ 69॥ಕಾಮದೇವಃ ಕಾಮಪಾಲಃ ಕಾಮೀ ಕಾನ್ತಃ ಕೃತಾಗಮಃ । ಅನಿರ್ದೇಶ್ಯವಪುರ್ವಿಷ್ಣುರ್ವೀರೋಽನನ್ತೋ ಧನಞ್ಜಯಃ ॥ 70॥ಬ್ರಹ್ಮಣ್ಯೋ ಬ್ರಹ್ಮಕೃದ್ ಬ್ರಹ್ಮಾ ಬ್ರಹ್ಮ ಬ್ರಹ್ಮವಿವರ್ಧನಃ । ಬ್ರಹ್ಮವಿದ್ ಬ್ರಾಹ್ಮಣೋ ಬ್ರಹ್ಮೀ ಬ್ರಹ್ಮಜ್ಞೋ ಬ್ರಾಹ್ಮಣಪ್ರಿಯಃ ॥ 71॥ಮಹಾಕ್ರಮೋ ಮಹಾಕರ್ಮಾ ಮಹಾತೇಜಾ ಮಹೋರಗಃ । ಮಹಾಕ್ರತುರ್ಮಹಾಯಜ್ವಾ ಮಹಾಯಜ್ಞೋ ಮಹಾಹವಿಃ ॥ 72॥ಸ್ತವ್ಯಃ ಸ್ತವಪ್ರಿಯಃ ಸ್ತೋತ್ರಂ ಸ್ತುತಿಃ ಸ್ತೋತಾ ರಣಪ್ರಿಯಃ । ಪೂರ್ಣಃ ಪೂರಯಿತಾ ಪುಣ್ಯಃ ಪುಣ್ಯಕೀರ್ತಿರನಾಮಯಃ ॥ 73॥ಮನೋಜವಸ್ತೀರ್ಥಕರೋ ವಸುರೇತಾ ವಸುಪ್ರದಃ । ವಸುಪ್ರದೋ ವಾಸುದೇವೋ ವಸುರ್ವಸುಮನಾ ಹವಿಃ ॥ 74॥ಸದ್ಗತಿಃ ಸತ್ಕೃತಿಃ ಸತ್ತಾ ಸದ್ಭೂತಿಃ ಸತ್ಪರಾಯಣಃ । ಶೂರಸೇನೋ ಯದುಶ್ರೇಷ್ಠಃ ಸನ್ನಿವಾಸಃ ಸುಯಾಮುನಃ ॥ 75॥ಭೂತಾವಾಸೋ ವಾಸುದೇವಃ ಸರ್ವಾಸುನಿಲಯೋಽನಲಃ । ದರ್ಪಹಾ ದರ್ಪದೋ ದೃಪ್ತೋ ದುರ್ಧರೋಽಥಾಪರಾಜಿತಃ ॥ 76॥ವಿಶ್ವಮೂರ್ತಿರ್ಮಹಾಮೂರ್ತಿರ್ದೀಪ್ತಮೂರ್ತಿರಮೂರ್ತಿಮಾನ್ । ಅನೇಕಮೂರ್ತಿರವ್ಯಕ್ತಃ ಶತಮೂರ್ತಿಃ ಶತಾನನಃ ॥ 77॥ಏಕೋ ನೈಕಃ ಸವಃ ಕಃ ಕಿಂ ಯತ್ ತತ್ಪದಮನುತ್ತಮಮ್ । ಲೋಕಬನ್ಧುರ್ಲೋಕನಾಥೋ ಮಾಧವೋ ಭಕ್ತವತ್ಸಲಃ ॥ 78॥ಸುವರ್ಣವರ್ಣೋ ಹೇಮಾಙ್ಗೋ ವರಾಙ್ಗಶ್ಚನ್ದನಾಙ್ಗದೀ । ವೀರಹಾ ವಿಷಮಃ ಶೂನ್ಯೋ ಘೃತಾಶೀರಚಲಶ್ಚಲಃ ॥ 79॥ಅಮಾನೀ ಮಾನದೋ ಮಾನ್ಯೋ ಲೋಕಸ್ವಾಮೀ ತ್ರಿಲೋಕಧೃಕ್ । ಸುಮೇಧಾ ಮೇಧಜೋ ಧನ್ಯಃ ಸತ್ಯಮೇಧಾ ಧರಾಧರಃ ॥ 80॥ತೇಜೋವೃಷೋ ದ್ಯುತಿಧರಃ ಸರ್ವಶಸ್ತ್ರಭೃತಾಂ ವರಃ । ಪ್ರಗ್ರಹೋ ನಿಗ್ರಹೋ ವ್ಯಗ್ರೋ ನೈಕಶೃಙ್ಗೋ ಗದಾಗ್ರಜಃ ॥ 81॥ಚತುರ್ಮೂರ್ತಿಶ್ಚತುರ್ಬಾಹುಶ್ಚತುರ್ವ್ಯೂಹಶ್ಚತುರ್ಗತಿಃ । ಚತುರಾತ್ಮಾ ಚತುರ್ಭಾವಶ್ಚತುರ್ವೇದವಿದೇಕಪಾತ್ ॥ 82॥ಸಮಾವರ್ತೋಽನಿವೃತ್ತಾತ್ಮಾ ದುರ್ಜಯೋ ದುರತಿಕ್ರಮಃ । ದುರ್ಲಭೋ ದುರ್ಗಮೋ ದುರ್ಗೋ ದುರಾವಾಸೋ ದುರಾರಿಹಾ ॥ 83॥ಶುಭಾಙ್ಗೋ ಲೋಕಸಾರಙ್ಗಃ ಸುತನ್ತುಸ್ತನ್ತುವರ್ಧನಃ । ಇನ್ದ್ರಕರ್ಮಾ ಮಹಾಕರ್ಮಾ ಕೃತಕರ್ಮಾ ಕೃತಾಗಮಃ ॥ 84॥ಉದ್ಭವಃ ಸುನ್ದರಃ ಸುನ್ದೋ ರತ್ನನಾಭಃ ಸುಲೋಚನಃ । ಅರ್ಕೋ ವಾಜಸನಃ ಶೃಙ್ಗೀ ಜಯನ್ತಃ ಸರ್ವವಿಜ್ಜಯೀ ॥ 85॥ಸುವರ್ಣಬಿನ್ದುರಕ್ಷೋಭ್ಯಃ ಸರ್ವವಾಗೀಶ್ವರೇಶ್ವರಃ । ಮಹಾಹ್ರದೋ ಮಹಾಗರ್ತೋ ಮಹಾಭೂತೋ ಮಹಾನಿಧಿಃ ॥ 86॥ಕುಮುದಃ ಕುನ್ದರಃ ಕುನ್ದಃ ಪರ್ಜನ್ಯಃ ಪಾವನೋಽನಿಲಃ । ಅಮೃತಾಶೋಽಮೃತವಪುಃ ಸರ್ವಜ್ಞಃ ಸರ್ವತೋಮುಖಃ ॥ 87॥ಸುಲಭಃ ಸುವ್ರತಃ ಸಿದ್ಧಃ ಶತ್ರುಜಿಚ್ಛತ್ರುತಾಪನಃ । ನ್ಯಗ್ರೋಧೋಽದುಮ್ಬರೋಽಶ್ವತ್ಥಶ್ಚಾಣೂರಾನ್ಧ್ರನಿಷೂದನಃ ॥ 88॥ಸಹಸ್ರಾರ್ಚಿಃ ಸಪ್ತಜಿಹ್ವಃ ಸಪ್ತೈಧಾಃ ಸಪ್ತವಾಹನಃ । ಅಮೂರ್ತಿರನಘೋಽಚಿನ್ತ್ಯೋ ಭಯಕೃದ್ಭಯನಾಶನಃ ॥ 89॥ಅಣುರ್ಬೃಹತ್ಕೃಶಃ ಸ್ಥೂಲೋ ಗುಣಭೃನ್ನಿರ್ಗುಣೋ ಮಹಾನ್ । ಅಧೃತಃ ಸ್ವಧೃತಃ ಸ್ವಾಸ್ಯಃ ಪ್ರಾಗ್ವಂಶೋ ವಂಶವರ್ಧನಃ ॥ 90॥ಭಾರಭೃತ್ ಕಥಿತೋ ಯೋಗೀ ಯೋಗೀಶಃ ಸರ್ವಕಾಮದಃ । ಆಶ್ರಮಃ ಶ್ರಮಣಃ ಕ್ಷಾಮಃ ಸುಪರ್ಣೋ ವಾಯುವಾಹನಃ ॥ 91॥ಧನುರ್ಧರೋ ಧನುರ್ವೇದೋ ದಣ್ಡೋ ದಮಯಿತಾ ದಮಃ । ಅಪರಾಜಿತಃ ಸರ್ವಸಹೋ ನಿಯನ್ತಾಽನಿಯಮೋಽಯಮಃ ॥ 92॥ಸತ್ತ್ವವಾನ್ ಸಾತ್ತ್ವಿಕಃ ಸತ್ಯಃ ಸತ್ಯಧರ್ಮಪರಾಯಣಃ । ಅಭಿಪ್ರಾಯಃ ಪ್ರಿಯಾರ್ಹೋಽರ್ಹಃ ಪ್ರಿಯಕೃತ್ ಪ್ರೀತಿವರ್ಧನಃ ॥ 93॥ವಿಹಾಯಸಗತಿರ್ಜ್ಯೋತಿಃ ಸುರುಚಿರ್ಹುತಭುಗ್ವಿಭುಃ । ರವಿರ್ವಿರೋಚನಃ ಸೂರ್ಯಃ ಸವಿತಾ ರವಿಲೋಚನಃ ॥ 94॥ಅನನ್ತೋ ಹುತಭುಗ್ಭೋಕ್ತಾ ಸುಖದೋ ನೈಕಜೋಽಗ್ರಜಃ । ಅನಿರ್ವಿಣ್ಣಃ ಸದಾಮರ್ಷೀ ಲೋಕಾಧಿಷ್ಠಾನಮದ್ಭುತಃ ॥ 95॥ಸನಾತ್ಸನಾತನತಮಃ ಕಪಿಲಃ ಕಪಿರವ್ಯಯಃ । ಸ್ವಸ್ತಿದಃ ಸ್ವಸ್ತಿಕೃತ್ಸ್ವಸ್ತಿ ಸ್ವಸ್ತಿಭುಕ್ಸ್ವಸ್ತಿದಕ್ಷಿಣಃ ॥ 96॥ಅರೌದ್ರಃ ಕುಣ್ಡಲೀ ಚಕ್ರೀ ವಿಕ್ರಮ್ಯೂರ್ಜಿತಶಾಸನಃ । ಶಬ್ದಾತಿಗಃ ಶಬ್ದಸಹಃ ಶಿಶಿರಃ ಶರ್ವರೀಕರಃ ॥ 97॥ಅಕ್ರೂರಃ ಪೇಶಲೋ ದಕ್ಷೋ ದಕ್ಷಿಣಃ ಕ್ಷಮಿಣಾಂವರಃ । ವಿದ್ವತ್ತಮೋ ವೀತಭಯಃ ಪುಣ್ಯಶ್ರವಣಕೀರ್ತನಃ ॥ 98॥ಉತ್ತಾರಣೋ ದುಷ್ಕೃತಿಹಾ ಪುಣ್ಯೋ ದುಃಸ್ವಪ್ನನಾಶನಃ । ವೀರಹಾ ರಕ್ಷಣಃ ಸನ್ತೋ ಜೀವನಃ ಪರ್ಯವಸ್ಥಿತಃ ॥ 99॥ಅನನ್ತರೂಪೋಽನನ್ತಶ್ರೀರ್ಜಿತಮನ್ಯುರ್ಭಯಾಪಹಃ । ಚತುರಶ್ರೋ ಗಭೀರಾತ್ಮಾ ವಿದಿಶೋ ವ್ಯಾದಿಶೋ ದಿಶಃ ॥ 100॥ಅನಾದಿರ್ಭೂರ್ಭುವೋ ಲಕ್ಷ್ಮೀಃ ಸುವೀರೋ ರುಚಿರಾಙ್ಗದಃ । ಜನನೋ ಜನಜನ್ಮಾದಿರ್ಭೀಮೋ ಭೀಮಪರಾಕ್ರಮಃ ॥ 101॥ಆಧಾರನಿಲಯೋಽಧಾತಾ ಪುಷ್ಪಹಾಸಃ ಪ್ರಜಾಗರಃ । ಊರ್ಧ್ವಗಃ ಸತ್ಪಥಾಚಾರಃ ಪ್ರಾಣದಃ ಪ್ರಣವಃ ಪಣಃ ॥ 102॥ಪ್ರಮಾಣಂ ಪ್ರಾಣನಿಲಯಃ ಪ್ರಾಣಭೃತ್ಪ್ರಾಣಜೀವನಃ । ತತ್ತ್ವಂ ತತ್ತ್ವವಿದೇಕಾತ್ಮಾ ಜನ್ಮಮೃತ್ಯುಜರಾತಿಗಃ ॥ 103॥ಭೂರ್ಭುವಃಸ್ವಸ್ತರುಸ್ತಾರಃ ಸವಿತಾ ಪ್ರಪಿತಾಮಹಃ । ಯಜ್ಞೋ ಯಜ್ಞಪತಿರ್ಯಜ್ವಾ ಯಜ್ಞಾಙ್ಗೋ ಯಜ್ಞವಾಹನಃ ॥ 104॥ಯಜ್ಞಭೃದ್ ಯಜ್ಞಕೃದ್ ಯಜ್ಞೀ ಯಜ್ಞಭುಗ್ ಯಜ್ಞಸಾಧನಃ । ಯಜ್ಞಾನ್ತಕೃದ್ ಯಜ್ಞಗುಹ್ಯಮನ್ನಮನ್ನಾದ ಏವ ಚ ॥ 105॥ಆತ್ಮಯೋನಿಃ ಸ್ವಯಞ್ಜಾತೋ ವೈಖಾನಃ ಸಾಮಗಾಯನಃ । ದೇವಕೀನನ್ದನಃ ಸ್ರಷ್ಟಾ ಕ್ಷಿತೀಶಃ ಪಾಪನಾಶನಃ ॥ 106॥ಶಙ್ಖಭೃನ್ನನ್ದಕೀ ಚಕ್ರೀ ಶಾರ್ಙ್ಗಧನ್ವಾ ಗದಾಧರಃ । ರಥಾಙ್ಗಪಾಣಿರಕ್ಷೋಭ್ಯಃ ಸರ್ವಪ್ರಹರಣಾಯುಧಃ ॥ 107॥ಸರ್ವಪ್ರಹರಣಾಯುಧ ಓಂ ನಮ ಇತಿ । ವನಮಾಲೀ ಗದೀ ಶಾರ್ಙ್ಗೀ ಶಙ್ಖೀ ಚಕ್ರೀ ಚ ನನ್ದಕೀ । ಶ್ರೀಮಾನ್ ನಾರಾಯಣೋ ವಿಷ್ಣುರ್ವಾಸುದೇವೋಽಭಿರಕ್ಷತು ॥ 108॥ಶ್ರೀ ವಾಸುದೇವೋಽಭಿರಕ್ಷತು ಓಂ ನಮ ಇತಿ ।

ಇತೀದಂ ಕೀರ್ತನೀಯಸ್ಯ ಕೇಶವಸ್ಯ ಮಹಾತ್ಮನಃ । ನಾಮ್ನಾಂ ಸಹಸ್ರಂ ದಿವ್ಯಾನಾಮಶೇಷೇಣ ಪ್ರಕೀರ್ತಿತಮ್ ॥ 1॥ಯ ಇದಂ ಶೃಣುಯಾನ್ನಿತ್ಯಂ ಯಶ್ಚಾಪಿ ಪರಿಕೀರ್ತಯೇತ್ । ನಾಶುಭಂ ಪ್ರಾಪ್ನುಯಾತ್ಕಿಞ್ಚಿತ್ಸೋಽಮುತ್ರೇಹ ಚ ಮಾನವಃ ॥ 2॥ವೇದಾನ್ತಗೋ ಬ್ರಾಹ್ಮಣಃ ಸ್ಯಾತ್ಕ್ಷತ್ರಿಯೋ ವಿಜಯೀ ಭವೇತ್ । ವೈಶ್ಯೋ ಧನಸಮೃದ್ಧಃ ಸ್ಯಾಚ್ಛೂದ್ರಃ ಸುಖಮವಾಪ್ನುಯಾತ್ ॥ 3॥ಧರ್ಮಾರ್ಥೀ ಪ್ರಾಪ್ನುಯಾದ್ಧರ್ಮಮರ್ಥಾರ್ಥೀ ಚಾರ್ಥಮಾಪ್ನುಯಾತ್ । ಕಾಮಾನವಾಪ್ನುಯಾತ್ಕಾಮೀ ಪ್ರಜಾರ್ಥೀ ಪ್ರಾಪ್ನುಯಾತ್ಪ್ರಜಾಮ್ ॥ 4॥ಭಕ್ತಿಮಾನ್ ಯಃ ಸದೋತ್ಥಾಯ ಶುಚಿಸ್ತದ್ಗತಮಾನಸಃ । ಸಹಸ್ರಂ ವಾಸುದೇವಸ್ಯ ನಾಮ್ನಾಮೇತತ್ಪ್ರಕೀರ್ತಯೇತ್ ॥ 5॥ಯಶಃ ಪ್ರಾಪ್ನೋತಿ ವಿಪುಲಂ ಜ್ಞಾತಿಪ್ರಾಧಾನ್ಯಮೇವ ಚ । ಅಚಲಾಂ ಶ್ರಿಯಮಾಪ್ನೋತಿ ಶ್ರೇಯಃ ಪ್ರಾಪ್ನೋತ್ಯನುತ್ತಮಮ್ ॥ 6॥ನ ಭಯಂ ಕ್ವಚಿದಾಪ್ನೋತಿ ವೀರ್ಯಂ ತೇಜಶ್ಚ ವಿನ್ದತಿ । ಭವತ್ಯರೋಗೋ ದ್ಯುತಿಮಾನ್ಬಲರೂಪಗುಣಾನ್ವಿತಃ ॥ 7॥ರೋಗಾರ್ತೋ ಮುಚ್ಯತೇ ರೋಗಾದ್ಬದ್ಧೋ ಮುಚ್ಯೇತ ಬನ್ಧನಾತ್ । ಭಯಾನ್ಮುಚ್ಯೇತ ಭೀತಸ್ತು ಮುಚ್ಯೇತಾಪನ್ನ ಆಪದಃ ॥ 8॥ದುರ್ಗಾಣ್ಯತಿತರತ್ಯಾಶು ಪುರುಷಃ ಪುರುಷೋತ್ತಮಮ್ । ಸ್ತುವನ್ನಾಮಸಹಸ್ರೇಣ ನಿತ್ಯಂ ಭಕ್ತಿಸಮನ್ವಿತಃ ॥ 9॥ವಾಸುದೇವಾಶ್ರಯೋ ಮರ್ತ್ಯೋ ವಾಸುದೇವಪರಾಯಣಃ । ಸರ್ವಪಾಪವಿಶುದ್ಧಾತ್ಮಾ ಯಾತಿ ಬ್ರಹ್ಮ ಸನಾತನಮ್ ॥ 10॥ನ ವಾಸುದೇವಭಕ್ತಾನಾಮಶುಭಂ ವಿದ್ಯತೇ ಕ್ವಚಿತ್ । ಜನ್ಮಮೃತ್ಯುಜರಾವ್ಯಾಧಿಭಯಂ ನೈವೋಪಜಾಯತೇ ॥ 11॥ಇಮಂ ಸ್ತವಮಧೀಯಾನಃ ಶ್ರದ್ಧಾಭಕ್ತಿಸಮನ್ವಿತಃ । ಯುಜ್ಯೇತಾತ್ಮಸುಖಕ್ಷಾನ್ತಿಶ್ರೀಧೃತಿಸ್ಮೃತಿಕೀರ್ತಿಭಿಃ ॥ 12॥ನ ಕ್ರೋಧೋ ನ ಚ ಮಾತ್ಸರ್ಯಂ ನ ಲೋಭೋ ನಾಶುಭಾ ಮತಿಃ । ಭವನ್ತಿ ಕೃತ ಪುಣ್ಯಾನಾಂ ಭಕ್ತಾನಾಂ ಪುರುಷೋತ್ತಮೇ ॥ 13॥ದ್ಯೌಃ ಸಚನ್ದ್ರಾರ್ಕನಕ್ಷತ್ರಾ ಖಂ ದಿಶೋ ಭೂರ್ಮಹೋದಧಿಃ । ವಾಸುದೇವಸ್ಯ ವೀರ್ಯೇಣ ವಿಧೃತಾನಿ ಮಹಾತ್ಮನಃ ॥ 14॥ಸಸುರಾಸುರಗನ್ಧರ್ವಂ ಸಯಕ್ಷೋರಗರಾಕ್ಷಸಮ್ । ಜಗದ್ವಶೇ ವರ್ತತೇದಂ ಕೃಷ್ಣಸ್ಯ ಸಚರಾಚರಮ್ ॥ 15॥ಇನ್ದ್ರಿಯಾಣಿ ಮನೋ ಬುದ್ಧಿಃ ಸತ್ತ್ವಂ ತೇಜೋ ಬಲಂ ಧೃತಿಃ । ವಾಸುದೇವಾತ್ಮಕಾನ್ಯಾಹುಃ ಕ್ಷೇತ್ರಂ ಕ್ಷೇತ್ರಜ್ಞ ಏವ ಚ ॥ 16॥ಸರ್ವಾಗಮಾನಾಮಾಚಾರಃ ಪ್ರಥಮಂ ಪರಿಕಲ್ಪ್ಯತೇ । ಆಚಾರಪ್ರಭವೋ ಧರ್ಮೋ ಧರ್ಮಸ್ಯ ಪ್ರಭುರಚ್ಯುತಃ ॥ 17॥ಋಷಯಃ ಪಿತರೋ ದೇವಾ ಮಹಾಭೂತಾನಿ ಧಾತವಃ । ಜಙ್ಗಮಾಜಙ್ಗಮಂ ಚೇದಂ ಜಗನ್ನಾರಾಯಣೋದ್ಭವಮ್ ॥ 18॥ಯೋಗೋ ಜ್ಞಾನಂ ತಥಾ ಸಾಙ್ಖ್ಯಂ ವಿದ್ಯಾಃ ಶಿಲ್ಪಾದಿ ಕರ್ಮ ಚ । ವೇದಾಃ ಶಾಸ್ತ್ರಾಣಿ ವಿಜ್ಞಾನಮೇತತ್ಸರ್ವಂ ಜನಾರ್ದನಾತ್ ॥ 19॥ಏಕೋ ವಿಷ್ಣುರ್ಮಹದ್ಭೂತಂ ಪೃಥಗ್ಭೂತಾನ್ಯನೇಕಶಃ । ತ್ರೀಂಲ್ಲೋಕಾನ್ವ್ಯಾಪ್ಯ ಭೂತಾತ್ಮಾ ಭುಙ್ಕ್ತೇ ವಿಶ್ವಭುಗವ್ಯಯಃ ॥ 20॥ಇಮಂ ಸ್ತವಂ ಭಗವತೋ ವಿಷ್ಣೋರ್ವ್ಯಾಸೇನ ಕೀರ್ತಿತಮ್ । ಪಠೇದ್ಯ ಇಚ್ಛೇತ್ಪುರುಷಃ ಶ್ರೇಯಃ ಪ್ರಾಪ್ತುಂ ಸುಖಾನಿ ಚ ॥ 21॥ವಿಶ್ವೇಶ್ವರಮಜಂ ದೇವಂ ಜಗತಃ ಪ್ರಭುಮವ್ಯಯಮ್ । ಭಜನ್ತಿ ಯೇ ಪುಷ್ಕರಾಕ್ಷಂ ನ ತೇ ಯಾನ್ತಿ ಪರಾಭವಮ್ ॥ 22॥ನ ತೇ ಯಾನ್ತಿ ಪರಾಭವಮ್ ಓಂ ನಮ ಇತಿ । ಅರ್ಜುನ ಉವಾಚ — ಪದ್ಮಪತ್ರವಿಶಾಲಾಕ್ಷ ಪದ್ಮನಾಭ ಸುರೋತ್ತಮ । ಭಕ್ತಾನಾಮನುರಕ್ತಾನಾಂ ತ್ರಾತಾ ಭವ ಜನಾರ್ದನ ॥ 23॥ಶ್ರೀಭಗವಾನುವಾಚ — ಯೋ ಮಾಂ ನಾಮಸಹಸ್ರೇಣ ಸ್ತೋತುಮಿಚ್ಛತಿ ಪಾಣ್ಡವ । ಸೋಹಽಮೇಕೇನ ಶ್ಲೋಕೇನ ಸ್ತುತ ಏವ ನ ಸಂಶಯಃ ॥ 24॥ಸ್ತುತ ಏವ ನ ಸಂಶಯ ಓಂ ನಮ ಇತಿ । ವ್ಯಾಸ ಉವಾಚ — ವಾಸನಾದ್ವಾಸುದೇವಸ್ಯ ವಾಸಿತಂ ಭುವನತ್ರಯಮ್ । ಸರ್ವಭೂತನಿವಾಸೋಽಸಿ ವಾಸುದೇವ ನಮೋಽಸ್ತು ತೇ ॥ 25॥ಶ್ರೀ ವಾಸುದೇವ ನಮೋಽಸ್ತುತ ಓಂ ನಮ ಇತಿ । ಪಾರ್ವತ್ಯುವಾಚ — ಕೇನೋಪಾಯೇನ ಲಘುನಾ ವಿಷ್ಣೋರ್ನಾಮಸಹಸ್ರಕಮ್ । ಪಠ್ಯತೇ ಪಣ್ಡಿತೈರ್ನಿತ್ಯಂ ಶ್ರೋತುಮಿಚ್ಛಾಮ್ಯಹಂ ಪ್ರಭೋ ॥ 26॥ಈಶ್ವರ ಉವಾಚ — ಶ್ರೀರಾಮ ರಾಮ ರಾಮೇತಿ ರಮೇ ರಾಮೇ ಮನೋರಮೇ । ಸಹಸ್ರನಾಮ ತತ್ತುಲ್ಯಂ ರಾಮ ನಾಮ ವರಾನನೇ ॥ 27॥ಶ್ರೀರಾಮನಾಮ ವರಾನನ ಓಂ ನಮ ಇತಿ । ಬ್ರಹ್ಮೋವಾಚ — ನಮೋಽಸ್ತ್ವನನ್ತಾಯ ಸಹಸ್ರಮೂರ್ತಯೇ ಸಹಸ್ರಪಾದಾಕ್ಷಿಶಿರೋರುಬಾಹವೇ । ಸಹಸ್ರನಾಮ್ನೇ ಪುರುಷಾಯ ಶಾಶ್ವತೇ ಸಹಸ್ರಕೋಟಿಯುಗಧಾರಿಣೇ ನಮಃ ॥ 28॥ಸಹಸ್ರಕೋಟಿಯುಗಧಾರಿಣೇ ಓಂ ನಮ ಇತಿ ।

ಸಞ್ಜಯ ಉವಾಚ — ಯತ್ರ ಯೋಗೇಶ್ವರಃ ಕೃಷ್ಣೋ ಯತ್ರ ಪಾರ್ಥೋ ಧನುರ್ಧರಃ । ತತ್ರ ಶ್ರೀರ್ವಿಜಯೋ ಭೂತಿರ್ಧ್ರುವಾ ನೀತಿರ್ಮತಿರ್ಮಮ ॥ 29॥ಶ್ರೀಭಗವಾನುವಾಚ — ಅನನ್ಯಾಶ್ಚಿನ್ತಯನ್ತೋ ಮಾಂ ಯೇ ಜನಾಃ ಪರ್ಯುಪಾಸತೇ । ತೇಷಾಂ ನಿತ್ಯಾಭಿಯುಕ್ತಾನಾಂ ಯೋಗಕ್ಷೇಮಂ ವಹಾಮ್ಯಹಮ್ ॥ 30॥ಪರಿತ್ರಾಣಾಯ ಸಾಧೂನಾಂ ವಿನಾಶಾಯ ಚ ದುಷ್ಕೃತಾಮ್ । ಧರ್ಮಸಂಸ್ಥಾಪನಾರ್ಥಾಯ ಸಮ್ಭವಾಮಿ ಯುಗೇ ಯುಗೇ ॥ 31॥ಆರ್ತಾಃ ವಿಷಣ್ಣಾಃ ಶಿಥಿಲಾಶ್ಚ ಭೀತಾಃ ಘೋರೇಷು ಚ ವ್ಯಾಧಿಷು ವರ್ತಮಾನಾಃ । ಸಙ್ಕೀರ್ತ್ಯ ನಾರಾಯಣಶಬ್ದಮಾತ್ರಂ ವಿಮುಕ್ತದುಃಖಾಃ ಸುಖಿನೋ ಭವನ್ತಿ ॥ 32॥ಕಾಯೇನ ವಾಚಾ ಮನಸೇನ್ದ್ರಿಯೈರ್ವಾ ಬುದ್ಧ್ಯಾತ್ಮನಾ ವಾ ಪ್ರಕೃತೇಃ ಸ್ವಭಾವಾತ್ । ಕರೋಮಿ ಯದ್ಯತ್ ಸಕಲಂ ಪರಸ್ಮೈ ನಾರಾಯಣಾಯೇತಿ ಸಮರ್ಪಯಾಮಿ ॥ 33॥ಇತಿ ಶ್ರೀವಿಷ್ಣೋರ್ದಿವ್ಯಸಹಸ್ರನಾಮಸ್ತೋತ್ರಂ ಸಮ್ಪೂರ್ಣಮ್ । ಓಂ ತತ್ ಸತ್ ।

ശ്രീവിഷ്ണുസഹസ്രനാമസ്തോത്രം

ശുക്ലാമ്ബരധരം വിഷ്ണും ശശിവർണം ചതുർഭുജം । പ്രസന്നവദനം ധ്യായേത് സർവവിഘ്നോപശാന്തയേ ॥ 1॥യസ്യ ദ്വിരദവക്ത്രാദ്യാഃ പാരിഷദ്യാഃ പരഃ ശതം । വിഘ്നം നിഘ്നന്തി സതതം വിഷ്വക്സേനം തമാശ്രയേ ॥ 2॥വ്യാസം വസിഷ്ഠനപ്താരം ശക്തേഃ പൌത്രമകല്മഷം । പരാശരാത്മജം വന്ദേ ശുകതാതം തപോനിധിം ॥ 3॥വ്യാസായ വിഷ്ണുരൂപായ വ്യാസരൂപായ വിഷ്ണവേ । നമോ വൈ ബ്രഹ്മനിധയേ വാസിഷ്ഠായ നമോ നമഃ ॥ 4॥അവികാരായ ശുദ്ധായ നിത്യായ പരമാത്മനേ । സദൈകരൂപരൂപായ വിഷ്ണവേ സർവജിഷ്ണവേ ॥ 5॥യസ്യ സ്മരണമാത്രേണ ജന്മസംസാരബന്ധനാത് । വിമുച്യതേ നമസ്തസ്മൈ വിഷ്ണവേ പ്രഭവിഷ്ണവേ ॥ 6॥ഓം നമോ വിഷ്ണവേ പ്രഭവിഷ്ണവേ । ശ്രീവൈശമ്പായന ഉവാച — ശ്രുത്വാ ധർമാനശേഷേണ പാവനാനി ച സർവശഃ । യുധിഷ്ഠിരഃ ശാന്തനവം പുനരേവാഭ്യഭാഷത ॥ 7॥യുധിഷ്ഠിര ഉവാച — കിമേകം ദൈവതം ലോകേ കിം വാപ്യേകം പരായണം । സ്തുവന്തഃ കം കമർചന്തഃ പ്രാപ്നുയുർമാനവാഃ ശുഭം ॥ 8॥കോ ധർമഃ സർവധർമാണാം ഭവതഃ പരമോ മതഃ । കിം ജപന്മുച്യതേ ജന്തുർജന്മസംസാരബന്ധനാത് ॥ 9॥ഭീഷ്മ ഉവാച — ജഗത്പ്രഭും ദേവദേവമനന്തം പുരുഷോത്തമം । സ്തുവൻ നാമസഹസ്രേണ പുരുഷഃ സതതോത്ഥിതഃ ॥ 10॥തമേവ ചാർചയന്നിത്യം ഭക്ത്യാ പുരുഷമവ്യയം । ധ്യായൻ സ്തുവൻ നമസ്യംശ്ച യജമാനസ്തമേവ ച ॥ 11॥അനാദിനിധനം വിഷ്ണും സർവലോകമഹേശ്വരം । ലോകാധ്യക്ഷം സ്തുവന്നിത്യം സർവദുഃഖാതിഗോ ഭവേത് ॥ 12॥ബ്രഹ്മണ്യം സർവധർമജ്ഞം ലോകാനാം കീർതിവർധനം । ലോകനാഥം മഹദ്ഭൂതം സർവഭൂതഭവോദ്ഭവം ॥ 13॥ഏഷ മേ സർവധർമാണാം ധർമോഽധികതമോ മതഃ । യദ്ഭക്ത്യാ പുണ്ഡരീകാക്ഷം സ്തവൈരർചേന്നരഃ സദാ ॥ 14॥പരമം യോ മഹത്തേജഃ പരമം യോ മഹത്തപഃ । പരമം യോ മഹദ്ബ്രഹ്മ പരമം യഃ പരായണം ॥ 15॥പവിത്രാണാം പവിത്രം യോ മങ്ഗലാനാം ച മങ്ഗലം । ദൈവതം ദൈവതാനാം ച ഭൂതാനാം യോഽവ്യയഃ പിതാ ॥ 16॥യതഃ സർവാണി ഭൂതാനി ഭവന്ത്യാദിയുഗാഗമേ । യസ്മിംശ്ച പ്രലയം യാന്തി പുനരേവ യുഗക്ഷയേ ॥ 17॥തസ്യ ലോകപ്രധാനസ്യ ജഗന്നാഥസ്യ ഭൂപതേ । വിഷ്ണോർനാമസഹസ്രം മേ ശൃണു പാപഭയാപഹം ॥ 18॥യാനി നാമാനി ഗൌണാനി വിഖ്യാതാനി മഹാത്മനഃ । ഋഷിഭിഃ പരിഗീതാനി താനി വക്ഷ്യാമി ഭൂതയേ ॥ 19॥ഋഷിർനാമ്നാം സഹസ്രസ്യ വേദവ്യാസോ മഹാമുനിഃ । ഛന്ദോഽനുഷ്ടുപ് തഥാ ദേവോ ഭഗവാൻ ദേവകീസുതഃ ॥ 20॥അമൃതാംശൂദ്ഭവോ ബീജം ശക്തിർദേവകിനന്ദനഃ । ത്രിസാമാ ഹൃദയം തസ്യ ശാന്ത്യർഥേ വിനിയോജ്യതേ ॥ 21॥വിഷ്ണും ജിഷ്ണും മഹാവിഷ്ണും പ്രഭവിഷ്ണും മഹേശ്വരം । അനേകരൂപ ദൈത്യാന്തം നമാമി പുരുഷോത്തമം ॥ 22 ॥അസ്യ ശ്രീവിഷ്ണോർദിവ്യസഹസ്രനാമസ്തോത്രമഹാമന്ത്രസ്യ । ശ്രീ വേദവ്യാസോ ഭഗവാൻ ഋഷിഃ । അനുഷ്ടുപ് ഛന്ദഃ । ശ്രീമഹാവിഷ്ണുഃ പരമാത്മാ ശ്രീമന്നാരായണോ ദേവതാ । അമൃതാംശൂദ്ഭവോ ഭാനുരിതി ബീജം । ദേവകീനന്ദനഃ സ്രഷ്ടേതി ശക്തിഃ । ഉദ്ഭവഃ ക്ഷോഭണോ ദേവ ഇതി പരമോ മന്ത്രഃ । ശങ്ഖഭൃന്നന്ദകീ ചക്രീതി കീലകം । ശാർങ്ഗധന്വാ ഗദാധര ഇത്യസ്ത്രം । രഥാങ്ഗപാണിരക്ഷോഭ്യ ഇതി നേത്രം । ത്രിസാമാ സാമഗഃ സാമേതി കവചം । ആനന്ദം പരബ്രഹ്മേതി യോനിഃ । ഋതുഃ സുദർശനഃ കാല ഇതി ദിഗ്ബന്ധഃ ॥

ശ്രീവിശ്വരൂപ ഇതി ധ്യാനം । ശ്രീമഹാവിഷ്ണുപ്രീത്യർഥേ സഹസ്രനാമസ്തോത്രപാഠേ വിനിയോഗഃ ॥

ധ്യാനം । ക്ഷീരോദന്വത്പ്രദേശേ ശുചിമണിവിലസത്സൈകതേർമൌക്തികാനാം മാലാകൢപ്താസനസ്ഥഃ സ്ഫടികമണിനിഭൈർമൌക്തികൈർമണ്ഡിതാങ്ഗഃ । ശുഭ്രൈരഭ്രൈരദഭ്രൈരുപരിവിരചിതൈർമുക്തപീയൂഷ വർഷൈഃ ആനന്ദീ നഃ പുനീയാദരിനലിനഗദാ ശങ്ഖപാണിർമുകുന്ദഃ ॥ 1॥ഭൂഃ പാദൌ യസ്യ നാഭിർവിയദസുരനിലശ്ചന്ദ്ര സൂർയൌ ച നേത്രേ കർണാവാശാഃ ശിരോ ദ്യൌർമുഖമപി ദഹനോ യസ്യ വാസ്തേയമബ്ധിഃ । അന്തഃസ്ഥം യസ്യ വിശ്വം സുരനരഖഗഗോഭോഗിഗന്ധർവദൈത്യൈഃ ചിത്രം രംരമ്യതേ തം ത്രിഭുവന വപുഷം വിഷ്ണുമീശം നമാമി ॥ 2॥ഓം ശാന്താകാരം ഭുജഗശയനം പദ്മനാഭം സുരേശം വിശ്വാധാരം ഗഗനസദൃശം മേഘവർണം ശുഭാങ്ഗം । ലക്ഷ്മീകാന്തം കമലനയനം യോഗിഭിർധ്യാനഗമ്യം യോഗിഹൃദ്ധ്യാനഗമ്യം വന്ദേ വിഷ്ണും ഭവഭയഹരം സർവലോകൈകനാഥം ॥ 3॥മേഘശ്യാമം പീതകൌശേയവാസം ശ്രീവത്സാങ്കം കൌസ്തുഭോദ്ഭാസിതാങ്ഗം । പുണ്യോപേതം പുണ്ഡരീകായതാക്ഷം വിഷ്ണും വന്ദേ സർവലോകൈകനാഥം ॥ 4॥നമഃ സമസ്തഭൂതാനാമാദിഭൂതായ ഭൂഭൃതേ । അനേകരൂപരൂപായ വിഷ്ണവേ പ്രഭവിഷ്ണവേ ॥ 5॥സശങ്ഖചക്രം സകിരീടകുണ്ഡലം സപീതവസ്ത്രം സരസീരുഹേക്ഷണം । സഹാരവക്ഷഃ സ്ഥലശോഭികൌസ്തുഭം നമാമി വിഷ്ണും ശിരസാ ചതുർഭുജം ॥ 6॥ഛായായാം പാരിജാതസ്യ ഹേമസിംഹാസനോപരി ആസീനമമ്ബുദശ്യാമമായതാക്ഷമലങ്കൃതം । ചന്ദ്രാനനം ചതുർബാഹും ശ്രീവത്സാങ്കിത വക്ഷസം രുക്മിണീ സത്യഭാമാഭ്യാം സഹിതം കൃഷ്ണമാശ്രയേ ॥ 7॥ഓം ।

വിശ്വം വിഷ്ണുർവഷട്കാരോ ഭൂതഭവ്യഭവത്പ്രഭുഃ । ഭൂതകൃദ്ഭൂതഭൃദ്ഭാവോ ഭൂതാത്മാ ഭൂതഭാവനഃ ॥ 1॥പൂതാത്മാ പരമാത്മാ ച മുക്താനാം പരമാ ഗതിഃ । അവ്യയഃ പുരുഷഃ സാക്ഷീ ക്ഷേത്രജ്ഞോഽക്ഷര ഏവ ച ॥ 2॥യോഗോ യോഗവിദാം നേതാ പ്രധാനപുരുഷേശ്വരഃ । നാരസിംഹവപുഃ ശ്രീമാൻ കേശവഃ പുരുഷോത്തമഃ ॥ 3॥സർവഃ ശർവഃ ശിവഃ സ്ഥാണുർഭൂതാദിർനിധിരവ്യയഃ । സമ്ഭവോ ഭാവനോ ഭർതാ പ്രഭവഃ പ്രഭുരീശ്വരഃ ॥ 4॥സ്വയമ്ഭൂഃ ശമ്ഭുരാദിത്യഃ പുഷ്കരാക്ഷോ മഹാസ്വനഃ । അനാദിനിധനോ ധാതാ വിധാതാ ധാതുരുത്തമഃ ॥ 5॥അപ്രമേയോ ഹൃഷീകേശഃ പദ്മനാഭോഽമരപ്രഭുഃ । വിശ്വകർമാ മനുസ്ത്വഷ്ടാ സ്ഥവിഷ്ഠഃ സ്ഥവിരോ ധ്രുവഃ ॥ 6॥അഗ്രാഹ്യഃ ശാശ്വതഃ കൃഷ്ണോ ലോഹിതാക്ഷഃ പ്രതർദനഃ । പ്രഭൂതസ്ത്രികകുബ്ധാമ പവിത്രം മങ്ഗലം പരം ॥ 7॥ഈശാനഃ പ്രാണദഃ പ്രാണോ ജ്യേഷ്ഠഃ ശ്രേഷ്ഠഃ പ്രജാപതിഃ । ഹിരണ്യഗർഭോ ഭൂഗർഭോ മാധവോ മധുസൂദനഃ ॥ 8॥ഈശ്വരോ വിക്രമീ ധന്വീ മേധാവീ വിക്രമഃ ക്രമഃ । അനുത്തമോ ദുരാധർഷഃ കൃതജ്ഞഃ കൃതിരാത്മവാൻ ॥ 9॥സുരേശഃ ശരണം ശർമ വിശ്വരേതാഃ പ്രജാഭവഃ । അഹഃ സംവത്സരോ വ്യാലഃ പ്രത്യയഃ സർവദർശനഃ ॥ 10॥അജഃ സർവേശ്വരഃ സിദ്ധഃ സിദ്ധിഃ സർവാദിരച്യുതഃ । വൃഷാകപിരമേയാത്മാ സർവയോഗവിനിഃസൃതഃ ॥ 11॥വസുർവസുമനാഃ സത്യഃ സമാത്മാഽസമ്മിതഃ സമഃ । അമോഘഃ പുണ്ഡരീകാക്ഷോ വൃഷകർമാ വൃഷാകൃതിഃ ॥ 12॥രുദ്രോ ബഹുശിരാ ബഭ്രുർവിശ്വയോനിഃ ശുചിശ്രവാഃ । അമൃതഃ ശാശ്വതസ്ഥാണുർവരാരോഹോ മഹാതപാഃ ॥ 13॥സർവഗഃ സർവവിദ്ഭാനുർവിഷ്വക്സേനോ ജനാർദനഃ । വേദോ വേദവിദവ്യങ്ഗോ വേദാങ്ഗോ വേദവിത് കവിഃ ॥ 14॥ലോകാധ്യക്ഷഃ സുരാധ്യക്ഷോ ധർമാധ്യക്ഷഃ കൃതാകൃതഃ । ചതുരാത്മാ ചതുർവ്യൂഹശ്ചതുർദംഷ്ട്രശ്ചതുർഭുജഃ ॥ 15॥ഭ്രാജിഷ്ണുർഭോജനം ഭോക്താ സഹിഷ്ണുർജഗദാദിജഃ । അനഘോ വിജയോ ജേതാ വിശ്വയോനിഃ പുനർവസുഃ ॥ 16॥ഉപേന്ദ്രോ വാമനഃ പ്രാംശുരമോഘഃ ശുചിരൂർജിതഃ । അതീന്ദ്രഃ സങ്ഗ്രഹഃ സർഗോ ധൃതാത്മാ നിയമോ യമഃ ॥ 17॥വേദ്യോ വൈദ്യഃ സദായോഗീ വീരഹാ മാധവോ മധുഃ । അതീന്ദ്രിയോ മഹാമായോ മഹോത്സാഹോ മഹാബലഃ ॥ 18॥മഹാബുദ്ധിർമഹാവീർയോ മഹാശക്തിർമഹാദ്യുതിഃ । അനിർദേശ്യവപുഃ ശ്രീമാനമേയാത്മാ മഹാദ്രിധൃക് ॥ 19॥മഹേഷ്വാസോ മഹീഭർതാ ശ്രീനിവാസഃ സതാം ഗതിഃ । അനിരുദ്ധഃ സുരാനന്ദോ ഗോവിന്ദോ ഗോവിദാം പതിഃ ॥ 20॥മരീചിർദമനോ ഹംസഃ സുപർണോ ഭുജഗോത്തമഃ । ഹിരണ്യനാഭഃ സുതപാഃ പദ്മനാഭഃ പ്രജാപതിഃ ॥ 21॥അമൃത്യുഃ സർവദൃക് സിംഹഃ സന്ധാതാ സന്ധിമാൻ സ്ഥിരഃ । അജോ ദുർമർഷണഃ ശാസ്താ വിശ്രുതാത്മാ സുരാരിഹാ ॥ 22॥ഗുരുർഗുരുതമോ ധാമ സത്യഃ സത്യപരാക്രമഃ । നിമിഷോഽനിമിഷഃ സ്രഗ്വീ വാചസ്പതിരുദാരധീഃ ॥ 23॥അഗ്രണീർഗ്രാമണീഃ ശ്രീമാൻ ന്യായോ നേതാ സമീരണഃ । സഹസ്രമൂർധാ വിശ്വാത്മാ സഹസ്രാക്ഷഃ സഹസ്രപാത് ॥ 24॥ആവർതനോ നിവൃത്താത്മാ സംവൃതഃ സമ്പ്രമർദനഃ । അഹഃ സംവർതകോ വഹ്നിരനിലോ ധരണീധരഃ ॥ 25॥സുപ്രസാദഃ പ്രസന്നാത്മാ വിശ്വധൃഗ്വിശ്വഭുഗ്വിഭുഃ । സത്കർതാ സത്കൃതഃ സാധുർജഹ്നുർനാരായണോ നരഃ ॥ 26॥അസങ്ഖ്യേയോഽപ്രമേയാത്മാ വിശിഷ്ടഃ ശിഷ്ടകൃച്ഛുചിഃ । സിദ്ധാർഥഃ സിദ്ധസങ്കല്പഃ സിദ്ധിദഃ സിദ്ധിസാധനഃ ॥ 27॥വൃഷാഹീ വൃഷഭോ വിഷ്ണുർവൃഷപർവാ വൃഷോദരഃ । വർധനോ വർധമാനശ്ച വിവിക്തഃ ശ്രുതിസാഗരഃ ॥ 28॥സുഭുജോ ദുർധരോ വാഗ്മീ മഹേന്ദ്രോ വസുദോ വസുഃ । നൈകരൂപോ ബൃഹദ്രൂപഃ ശിപിവിഷ്ടഃ പ്രകാശനഃ ॥ 29॥ഓജസ്തേജോദ്യുതിധരഃ പ്രകാശാത്മാ പ്രതാപനഃ । ഋദ്ധഃ സ്പഷ്ടാക്ഷരോ മന്ത്രശ്ചന്ദ്രാംശുർഭാസ്കരദ്യുതിഃ ॥ 30॥അമൃതാംശൂദ്ഭവോ ഭാനുഃ ശശബിന്ദുഃ സുരേശ്വരഃ । ഔഷധം ജഗതഃ സേതുഃ സത്യധർമപരാക്രമഃ ॥ 31॥ഭൂതഭവ്യഭവന്നാഥഃ പവനഃ പാവനോഽനലഃ । കാമഹാ കാമകൃത്കാന്തഃ കാമഃ കാമപ്രദഃ പ്രഭുഃ ॥ 32॥യുഗാദികൃദ്യുഗാവർതോ നൈകമായോ മഹാശനഃ । അദൃശ്യോ വ്യക്തരൂപശ്ച സഹസ്രജിദനന്തജിത് ॥ 33॥ഇഷ്ടോഽവിശിഷ്ടഃ ശിഷ്ടേഷ്ടഃ ശിഖണ്ഡീ നഹുഷോ വൃഷഃ । ക്രോധഹാ ക്രോധകൃത്കർതാ വിശ്വബാഹുർമഹീധരഃ ॥ 34॥അച്യുതഃ പ്രഥിതഃ പ്രാണഃ പ്രാണദോ വാസവാനുജഃ । അപാംനിധിരധിഷ്ഠാനമപ്രമത്തഃ പ്രതിഷ്ഠിതഃ ॥ 35॥സ്കന്ദഃ സ്കന്ദധരോ ധുർയോ വരദോ വായുവാഹനഃ । വാസുദേവോ ബൃഹദ്ഭാനുരാദിദേവഃ പുരന്ദരഃ ॥ 36॥അശോകസ്താരണസ്താരഃ ശൂരഃ ശൌരിർജനേശ്വരഃ । അനുകൂലഃ ശതാവർതഃ പദ്മീ പദ്മനിഭേക്ഷണഃ ॥ 37॥പദ്മനാഭോഽരവിന്ദാക്ഷഃ പദ്മഗർഭഃ ശരീരഭൃത് । മഹർദ്ധിരൃദ്ധോ വൃദ്ധാത്മാ മഹാക്ഷോ ഗരുഡധ്വജഃ ॥ 38॥അതുലഃ ശരഭോ ഭീമഃ സമയജ്ഞോ ഹവിർഹരിഃ । സർവലക്ഷണലക്ഷണ്യോ ലക്ഷ്മീവാൻ സമിതിഞ്ജയഃ ॥ 39॥വിക്ഷരോ രോഹിതോ മാർഗോ ഹേതുർദാമോദരഃ സഹഃ । മഹീധരോ മഹാഭാഗോ വേഗവാനമിതാശനഃ ॥ 40॥ഉദ്ഭവഃ ക്ഷോഭണോ ദേവഃ ശ്രീഗർഭഃ പരമേശ്വരഃ । കരണം കാരണം കർതാ വികർതാ ഗഹനോ ഗുഹഃ ॥ 41॥വ്യവസായോ വ്യവസ്ഥാനഃ സംസ്ഥാനഃ സ്ഥാനദോ ധ്രുവഃ । പരർദ്ധിഃ പരമസ്പഷ്ടസ്തുഷ്ടഃ പുഷ്ടഃ ശുഭേക്ഷണഃ ॥ 42॥രാമോ വിരാമോ വിരജോ മാർഗോ നേയോ നയോഽനയഃ । വീരഃ ശക്തിമതാം ശ്രേഷ്ഠോ ധർമോ ധർമവിദുത്തമഃ ॥ 43॥വൈകുണ്ഠഃ പുരുഷഃ പ്രാണഃ പ്രാണദഃ പ്രണവഃ പൃഥുഃ । ഹിരണ്യഗർഭഃ ശത്രുഘ്നോ വ്യാപ്തോ വായുരധോക്ഷജഃ ॥ 44॥ഋതുഃ സുദർശനഃ കാലഃ പരമേഷ്ഠീ പരിഗ്രഹഃ । ഉഗ്രഃ സംവത്സരോ ദക്ഷോ വിശ്രാമോ വിശ്വദക്ഷിണഃ ॥ 45॥വിസ്താരഃ സ്ഥാവരസ്ഥാണുഃ പ്രമാണം ബീജമവ്യയം । അർഥോഽനർഥോ മഹാകോശോ മഹാഭോഗോ മഹാധനഃ ॥ 46॥അനിർവിണ്ണഃ സ്ഥവിഷ്ഠോഽഭൂർധർമയൂപോ മഹാമഖഃ । നക്ഷത്രനേമിർനക്ഷത്രീ ക്ഷമഃ ക്ഷാമഃ സമീഹനഃ ॥ 47॥യജ്ഞ ഇജ്യോ മഹേജ്യശ്ച ക്രതുഃ സത്രം സതാം ഗതിഃ । സർവദർശീ വിമുക്താത്മാ സർവജ്ഞോ ജ്ഞാനമുത്തമം ॥ 48॥സുവ്രതഃ സുമുഖഃ സൂക്ഷ്മഃ സുഘോഷഃ സുഖദഃ സുഹൃത് । മനോഹരോ ജിതക്രോധോ വീരബാഹുർവിദാരണഃ ॥ 49॥സ്വാപനഃ സ്വവശോ വ്യാപീ നൈകാത്മാ നൈകകർമകൃത് । വത്സരോ വത്സലോ വത്സീ രത്നഗർഭോ ധനേശ്വരഃ ॥ 50॥ധർമഗുബ്ധർമകൃദ്ധർമീ സദസത്ക്ഷരമക്ഷരം । അവിജ്ഞാതാ സഹസ്രാംശുർവിധാതാ കൃതലക്ഷണഃ ॥ 51॥ഗഭസ്തിനേമിഃ സത്ത്വസ്ഥഃ സിംഹോ ഭൂതമഹേശ്വരഃ । ആദിദേവോ മഹാദേവോ ദേവേശോ ദേവഭൃദ്ഗുരുഃ ॥ 52॥ഉത്തരോ ഗോപതിർഗോപ്താ ജ്ഞാനഗമ്യഃ പുരാതനഃ । ശരീരഭൂതഭൃദ്ഭോക്താ കപീന്ദ്രോ ഭൂരിദക്ഷിണഃ ॥ 53॥സോമപോഽമൃതപഃ സോമഃ പുരുജിത്പുരുസത്തമഃ । വിനയോ ജയഃ സത്യസന്ധോ ദാശാർഹഃ സാത്വതാമ്പതിഃ ॥ 54॥ജീവോ വിനയിതാ സാക്ഷീ മുകുന്ദോഽമിതവിക്രമഃ । അമ്ഭോനിധിരനന്താത്മാ മഹോദധിശയോഽന്തകഃ ॥ 55॥അജോ മഹാർഹഃ സ്വാഭാവ്യോ ജിതാമിത്രഃ പ്രമോദനഃ । ആനന്ദോ നന്ദനോ നന്ദഃ സത്യധർമാ ത്രിവിക്രമഃ ॥ 56॥മഹർഷിഃ കപിലാചാർയഃ കൃതജ്ഞോ മേദിനീപതിഃ । ത്രിപദസ്ത്രിദശാധ്യക്ഷോ മഹാശൃങ്ഗഃ കൃതാന്തകൃത് ॥ 57॥മഹാവരാഹോ ഗോവിന്ദഃ സുഷേണഃ കനകാങ്ഗദീ । ഗുഹ്യോ ഗഭീരോ ഗഹനോ ഗുപ്തശ്ചക്രഗദാധരഃ ॥ 58॥വേധാഃ സ്വാങ്ഗോഽജിതഃ കൃഷ്ണോ ദൃഢഃ സങ്കർഷണോഽച്യുതഃ । വരുണോ വാരുണോ വൃക്ഷഃ പുഷ്കരാക്ഷോ മഹാമനാഃ ॥ 59॥ഭഗവാൻ ഭഗഹാഽഽനന്ദീ വനമാലീ ഹലായുധഃ । ആദിത്യോ ജ്യോതിരാദിത്യഃ സഹിഷ്ണുർഗതിസത്തമഃ ॥ 60॥സുധന്വാ ഖണ്ഡപരശുർദാരുണോ ദ്രവിണപ്രദഃ । ദിവസ്പൃക് സർവദൃഗ്വ്യാസോ വാചസ്പതിരയോനിജഃ ॥ 61॥ത്രിസാമാ സാമഗഃ സാമ നിർവാണം ഭേഷജം ഭിഷക് । സംന്യാസകൃച്ഛമഃ ശാന്തോ നിഷ്ഠാ ശാന്തിഃ പരായണം ॥ 62॥ശുഭാങ്ഗഃ ശാന്തിദഃ സ്രഷ്ടാ കുമുദഃ കുവലേശയഃ । ഗോഹിതോ ഗോപതിർഗോപ്താ വൃഷഭാക്ഷോ വൃഷപ്രിയഃ ॥ 63॥അനിവർതീ നിവൃത്താത്മാ സങ്ക്ഷേപ്താ ക്ഷേമകൃച്ഛിവഃ । ശ്രീവത്സവക്ഷാഃ ശ്രീവാസഃ ശ്രീപതിഃ ശ്രീമതാംവരഃ ॥ 64॥ശ്രീദഃ ശ്രീശഃ ശ്രീനിവാസഃ ശ്രീനിധിഃ ശ്രീവിഭാവനഃ । ശ്രീധരഃ ശ്രീകരഃ ശ്രേയഃ ശ്രീമാംല്ലോകത്രയാശ്രയഃ ॥ 65॥സ്വക്ഷഃ സ്വങ്ഗഃ ശതാനന്ദോ നന്ദിർജ്യോതിർഗണേശ്വരഃ । വിജിതാത്മാഽവിധേയാത്മാ സത്കീർതിശ്ഛിന്നസംശയഃ ॥ 66॥ഉദീർണഃ സർവതശ്ചക്ഷുരനീശഃ ശാശ്വതസ്ഥിരഃ । ഭൂശയോ ഭൂഷണോ ഭൂതിർവിശോകഃ ശോകനാശനഃ ॥ 67॥അർചിഷ്മാനർചിതഃ കുമ്ഭോ വിശുദ്ധാത്മാ വിശോധനഃ । അനിരുദ്ധോഽപ്രതിരഥഃ പ്രദ്യുമ്നോഽമിതവിക്രമഃ ॥ 68॥കാലനേമിനിഹാ വീരഃ ശൌരിഃ ശൂരജനേശ്വരഃ । ത്രിലോകാത്മാ ത്രിലോകേശഃ കേശവഃ കേശിഹാ ഹരിഃ ॥ 69॥കാമദേവഃ കാമപാലഃ കാമീ കാന്തഃ കൃതാഗമഃ । അനിർദേശ്യവപുർവിഷ്ണുർവീരോഽനന്തോ ധനഞ്ജയഃ ॥ 70॥ബ്രഹ്മണ്യോ ബ്രഹ്മകൃദ് ബ്രഹ്മാ ബ്രഹ്മ ബ്രഹ്മവിവർധനഃ । ബ്രഹ്മവിദ് ബ്രാഹ്മണോ ബ്രഹ്മീ ബ്രഹ്മജ്ഞോ ബ്രാഹ്മണപ്രിയഃ ॥ 71॥മഹാക്രമോ മഹാകർമാ മഹാതേജാ മഹോരഗഃ । മഹാക്രതുർമഹായജ്വാ മഹായജ്ഞോ മഹാഹവിഃ ॥ 72॥സ്തവ്യഃ സ്തവപ്രിയഃ സ്തോത്രം സ്തുതിഃ സ്തോതാ രണപ്രിയഃ । പൂർണഃ പൂരയിതാ പുണ്യഃ പുണ്യകീർതിരനാമയഃ ॥ 73॥മനോജവസ്തീർഥകരോ വസുരേതാ വസുപ്രദഃ । വസുപ്രദോ വാസുദേവോ വസുർവസുമനാ ഹവിഃ ॥ 74॥സദ്ഗതിഃ സത്കൃതിഃ സത്താ സദ്ഭൂതിഃ സത്പരായണഃ । ശൂരസേനോ യദുശ്രേഷ്ഠഃ സന്നിവാസഃ സുയാമുനഃ ॥ 75॥ഭൂതാവാസോ വാസുദേവഃ സർവാസുനിലയോഽനലഃ । ദർപഹാ ദർപദോ ദൃപ്തോ ദുർധരോഽഥാപരാജിതഃ ॥ 76॥വിശ്വമൂർതിർമഹാമൂർതിർദീപ്തമൂർതിരമൂർതിമാൻ । അനേകമൂർതിരവ്യക്തഃ ശതമൂർതിഃ ശതാനനഃ ॥ 77॥ഏകോ നൈകഃ സവഃ കഃ കിം യത് തത്പദമനുത്തമം । ലോകബന്ധുർലോകനാഥോ മാധവോ ഭക്തവത്സലഃ ॥ 78॥സുവർണവർണോ ഹേമാങ്ഗോ വരാങ്ഗശ്ചന്ദനാങ്ഗദീ । വീരഹാ വിഷമഃ ശൂന്യോ ഘൃതാശീരചലശ്ചലഃ ॥ 79॥അമാനീ മാനദോ മാന്യോ ലോകസ്വാമീ ത്രിലോകധൃക് । സുമേധാ മേധജോ ധന്യഃ സത്യമേധാ ധരാധരഃ ॥ 80॥തേജോവൃഷോ ദ്യുതിധരഃ സർവശസ്ത്രഭൃതാം വരഃ । പ്രഗ്രഹോ നിഗ്രഹോ വ്യഗ്രോ നൈകശൃങ്ഗോ ഗദാഗ്രജഃ ॥ 81॥ചതുർമൂർതിശ്ചതുർബാഹുശ്ചതുർവ്യൂഹശ്ചതുർഗതിഃ । ചതുരാത്മാ ചതുർഭാവശ്ചതുർവേദവിദേകപാത് ॥ 82॥സമാവർതോഽനിവൃത്താത്മാ ദുർജയോ ദുരതിക്രമഃ । ദുർലഭോ ദുർഗമോ ദുർഗോ ദുരാവാസോ ദുരാരിഹാ ॥ 83॥ശുഭാങ്ഗോ ലോകസാരങ്ഗഃ സുതന്തുസ്തന്തുവർധനഃ । ഇന്ദ്രകർമാ മഹാകർമാ കൃതകർമാ കൃതാഗമഃ ॥ 84॥ഉദ്ഭവഃ സുന്ദരഃ സുന്ദോ രത്നനാഭഃ സുലോചനഃ । അർകോ വാജസനഃ ശൃങ്ഗീ ജയന്തഃ സർവവിജ്ജയീ ॥ 85॥സുവർണബിന്ദുരക്ഷോഭ്യഃ സർവവാഗീശ്വരേശ്വരഃ । മഹാഹ്രദോ മഹാഗർതോ മഹാഭൂതോ മഹാനിധിഃ ॥ 86॥കുമുദഃ കുന്ദരഃ കുന്ദഃ പർജന്യഃ പാവനോഽനിലഃ । അമൃതാശോഽമൃതവപുഃ സർവജ്ഞഃ സർവതോമുഖഃ ॥ 87॥സുലഭഃ സുവ്രതഃ സിദ്ധഃ ശത്രുജിച്ഛത്രുതാപനഃ । ന്യഗ്രോധോഽദുമ്ബരോഽശ്വത്ഥശ്ചാണൂരാന്ധ്രനിഷൂദനഃ ॥ 88॥സഹസ്രാർചിഃ സപ്തജിഹ്വഃ സപ്തൈധാഃ സപ്തവാഹനഃ । അമൂർതിരനഘോഽചിന്ത്യോ ഭയകൃദ്ഭയനാശനഃ ॥ 89॥അണുർബൃഹത്കൃശഃ സ്ഥൂലോ ഗുണഭൃന്നിർഗുണോ മഹാൻ । അധൃതഃ സ്വധൃതഃ സ്വാസ്യഃ പ്രാഗ്വംശോ വംശവർധനഃ ॥ 90॥ഭാരഭൃത് കഥിതോ യോഗീ യോഗീശഃ സർവകാമദഃ । ആശ്രമഃ ശ്രമണഃ ക്ഷാമഃ സുപർണോ വായുവാഹനഃ ॥ 91॥ധനുർധരോ ധനുർവേദോ ദണ്ഡോ ദമയിതാ ദമഃ । അപരാജിതഃ സർവസഹോ നിയന്താഽനിയമോഽയമഃ ॥ 92॥സത്ത്വവാൻ സാത്ത്വികഃ സത്യഃ സത്യധർമപരായണഃ । അഭിപ്രായഃ പ്രിയാർഹോഽർഹഃ പ്രിയകൃത് പ്രീതിവർധനഃ ॥ 93॥വിഹായസഗതിർജ്യോതിഃ സുരുചിർഹുതഭുഗ്വിഭുഃ । രവിർവിരോചനഃ സൂർയഃ സവിതാ രവിലോചനഃ ॥ 94॥അനന്തോ ഹുതഭുഗ്ഭോക്താ സുഖദോ നൈകജോഽഗ്രജഃ । അനിർവിണ്ണഃ സദാമർഷീ ലോകാധിഷ്ഠാനമദ്ഭുതഃ ॥ 95॥സനാത്സനാതനതമഃ കപിലഃ കപിരവ്യയഃ । സ്വസ്തിദഃ സ്വസ്തികൃത്സ്വസ്തി സ്വസ്തിഭുക്സ്വസ്തിദക്ഷിണഃ ॥ 96॥അരൌദ്രഃ കുണ്ഡലീ ചക്രീ വിക്രമ്യൂർജിതശാസനഃ । ശബ്ദാതിഗഃ ശബ്ദസഹഃ ശിശിരഃ ശർവരീകരഃ ॥ 97॥അക്രൂരഃ പേശലോ ദക്ഷോ ദക്ഷിണഃ ക്ഷമിണാംവരഃ । വിദ്വത്തമോ വീതഭയഃ പുണ്യശ്രവണകീർതനഃ ॥ 98॥ഉത്താരണോ ദുഷ്കൃതിഹാ പുണ്യോ ദുഃസ്വപ്നനാശനഃ । വീരഹാ രക്ഷണഃ സന്തോ ജീവനഃ പർയവസ്ഥിതഃ ॥ 99॥അനന്തരൂപോഽനന്തശ്രീർജിതമന്യുർഭയാപഹഃ । ചതുരശ്രോ ഗഭീരാത്മാ വിദിശോ വ്യാദിശോ ദിശഃ ॥ 100॥അനാദിർഭൂർഭുവോ ലക്ഷ്മീഃ സുവീരോ രുചിരാങ്ഗദഃ । ജനനോ ജനജന്മാദിർഭീമോ ഭീമപരാക്രമഃ ॥ 101॥ആധാരനിലയോഽധാതാ പുഷ്പഹാസഃ പ്രജാഗരഃ । ഊർധ്വഗഃ സത്പഥാചാരഃ പ്രാണദഃ പ്രണവഃ പണഃ ॥ 102॥പ്രമാണം പ്രാണനിലയഃ പ്രാണഭൃത്പ്രാണജീവനഃ । തത്ത്വം തത്ത്വവിദേകാത്മാ ജന്മമൃത്യുജരാതിഗഃ ॥ 103॥ഭൂർഭുവഃസ്വസ്തരുസ്താരഃ സവിതാ പ്രപിതാമഹഃ । യജ്ഞോ യജ്ഞപതിർയജ്വാ യജ്ഞാങ്ഗോ യജ്ഞവാഹനഃ ॥ 104॥യജ്ഞഭൃദ് യജ്ഞകൃദ് യജ്ഞീ യജ്ഞഭുഗ് യജ്ഞസാധനഃ । യജ്ഞാന്തകൃദ് യജ്ഞഗുഹ്യമന്നമന്നാദ ഏവ ച ॥ 105॥ആത്മയോനിഃ സ്വയഞ്ജാതോ വൈഖാനഃ സാമഗായനഃ । ദേവകീനന്ദനഃ സ്രഷ്ടാ ക്ഷിതീശഃ പാപനാശനഃ ॥ 106॥ശങ്ഖഭൃന്നന്ദകീ ചക്രീ ശാർങ്ഗധന്വാ ഗദാധരഃ । രഥാങ്ഗപാണിരക്ഷോഭ്യഃ സർവപ്രഹരണായുധഃ ॥ 107॥സർവപ്രഹരണായുധ ഓം നമ ഇതി । വനമാലീ ഗദീ ശാർങ്ഗീ ശങ്ഖീ ചക്രീ ച നന്ദകീ । ശ്രീമാൻ നാരായണോ വിഷ്ണുർവാസുദേവോഽഭിരക്ഷതു ॥ 108॥ശ്രീ വാസുദേവോഽഭിരക്ഷതു ഓം നമ ഇതി ।

ഇതീദം കീർതനീയസ്യ കേശവസ്യ മഹാത്മനഃ । നാമ്നാം സഹസ്രം ദിവ്യാനാമശേഷേണ പ്രകീർതിതം ॥ 1॥യ ഇദം ശൃണുയാന്നിത്യം യശ്ചാപി പരികീർതയേത് । നാശുഭം പ്രാപ്നുയാത്കിഞ്ചിത്സോഽമുത്രേഹ ച മാനവഃ ॥ 2॥വേദാന്തഗോ ബ്രാഹ്മണഃ സ്യാത്ക്ഷത്രിയോ വിജയീ ഭവേത് । വൈശ്യോ ധനസമൃദ്ധഃ സ്യാച്ഛൂദ്രഃ സുഖമവാപ്നുയാത് ॥ 3॥ധർമാർഥീ പ്രാപ്നുയാദ്ധർമമർഥാർഥീ ചാർഥമാപ്നുയാത് । കാമാനവാപ്നുയാത്കാമീ പ്രജാർഥീ പ്രാപ്നുയാത്പ്രജാം ॥ 4॥ഭക്തിമാൻ യഃ സദോത്ഥായ ശുചിസ്തദ്ഗതമാനസഃ । സഹസ്രം വാസുദേവസ്യ നാമ്നാമേതത്പ്രകീർതയേത് ॥ 5॥യശഃ പ്രാപ്നോതി വിപുലം ജ്ഞാതിപ്രാധാന്യമേവ ച । അചലാം ശ്രിയമാപ്നോതി ശ്രേയഃ പ്രാപ്നോത്യനുത്തമം ॥ 6॥ന ഭയം ക്വചിദാപ്നോതി വീർയം തേജശ്ച വിന്ദതി । ഭവത്യരോഗോ ദ്യുതിമാന്ബലരൂപഗുണാന്വിതഃ ॥ 7॥രോഗാർതോ മുച്യതേ രോഗാദ്ബദ്ധോ മുച്യേത ബന്ധനാത് । ഭയാന്മുച്യേത ഭീതസ്തു മുച്യേതാപന്ന ആപദഃ ॥ 8॥ദുർഗാണ്യതിതരത്യാശു പുരുഷഃ പുരുഷോത്തമം । സ്തുവന്നാമസഹസ്രേണ നിത്യം ഭക്തിസമന്വിതഃ ॥ 9॥വാസുദേവാശ്രയോ മർത്യോ വാസുദേവപരായണഃ । സർവപാപവിശുദ്ധാത്മാ യാതി ബ്രഹ്മ സനാതനം ॥ 10॥ന വാസുദേവഭക്താനാമശുഭം വിദ്യതേ ക്വചിത് । ജന്മമൃത്യുജരാവ്യാധിഭയം നൈവോപജായതേ ॥ 11॥ഇമം സ്തവമധീയാനഃ ശ്രദ്ധാഭക്തിസമന്വിതഃ । യുജ്യേതാത്മസുഖക്ഷാന്തിശ്രീധൃതിസ്മൃതികീർതിഭിഃ ॥ 12॥ന ക്രോധോ ന ച മാത്സർയം ന ലോഭോ നാശുഭാ മതിഃ । ഭവന്തി കൃത പുണ്യാനാം ഭക്താനാം പുരുഷോത്തമേ ॥ 13॥ദ്യൌഃ സചന്ദ്രാർകനക്ഷത്രാ ഖം ദിശോ ഭൂർമഹോദധിഃ । വാസുദേവസ്യ വീർയേണ വിധൃതാനി മഹാത്മനഃ ॥ 14॥സസുരാസുരഗന്ധർവം സയക്ഷോരഗരാക്ഷസം । ജഗദ്വശേ വർതതേദം കൃഷ്ണസ്യ സചരാചരം ॥ 15॥ഇന്ദ്രിയാണി മനോ ബുദ്ധിഃ സത്ത്വം തേജോ ബലം ധൃതിഃ । വാസുദേവാത്മകാന്യാഹുഃ ക്ഷേത്രം ക്ഷേത്രജ്ഞ ഏവ ച ॥ 16॥സർവാഗമാനാമാചാരഃ പ്രഥമം പരികല്പ്യതേ । ആചാരപ്രഭവോ ധർമോ ധർമസ്യ പ്രഭുരച്യുതഃ ॥ 17॥ഋഷയഃ പിതരോ ദേവാ മഹാഭൂതാനി ധാതവഃ । ജങ്ഗമാജങ്ഗമം ചേദം ജഗന്നാരായണോദ്ഭവം ॥ 18॥യോഗോ ജ്ഞാനം തഥാ സാങ്ഖ്യം വിദ്യാഃ ശില്പാദി കർമ ച । വേദാഃ ശാസ്ത്രാണി വിജ്ഞാനമേതത്സർവം ജനാർദനാത് ॥ 19॥ഏകോ വിഷ്ണുർമഹദ്ഭൂതം പൃഥഗ്ഭൂതാന്യനേകശഃ । ത്രീംല്ലോകാന്വ്യാപ്യ ഭൂതാത്മാ ഭുങ്ക്തേ വിശ്വഭുഗവ്യയഃ ॥ 20॥ഇമം സ്തവം ഭഗവതോ വിഷ്ണോർവ്യാസേന കീർതിതം । പഠേദ്യ ഇച്ഛേത്പുരുഷഃ ശ്രേയഃ പ്രാപ്തും സുഖാനി ച ॥ 21॥വിശ്വേശ്വരമജം ദേവം ജഗതഃ പ്രഭുമവ്യയം । ഭജന്തി യേ പുഷ്കരാക്ഷം ന തേ യാന്തി പരാഭവം ॥ 22॥ന തേ യാന്തി പരാഭവം ഓം നമ ഇതി । അർജുന ഉവാച — പദ്മപത്രവിശാലാക്ഷ പദ്മനാഭ സുരോത്തമ । ഭക്താനാമനുരക്താനാം ത്രാതാ ഭവ ജനാർദന ॥ 23॥ശ്രീഭഗവാനുവാച — യോ മാം നാമസഹസ്രേണ സ്തോതുമിച്ഛതി പാണ്ഡവ । സോഹഽമേകേന ശ്ലോകേന സ്തുത ഏവ ന സംശയഃ ॥ 24॥സ്തുത ഏവ ന സംശയ ഓം നമ ഇതി । വ്യാസ ഉവാച — വാസനാദ്വാസുദേവസ്യ വാസിതം ഭുവനത്രയം । സർവഭൂതനിവാസോഽസി വാസുദേവ നമോഽസ്തു തേ ॥ 25॥ശ്രീ വാസുദേവ നമോഽസ്തുത ഓം നമ ഇതി । പാർവത്യുവാച — കേനോപായേന ലഘുനാ വിഷ്ണോർനാമസഹസ്രകം । പഠ്യതേ പണ്ഡിതൈർനിത്യം ശ്രോതുമിച്ഛാമ്യഹം പ്രഭോ ॥ 26॥ഈശ്വര ഉവാച — ശ്രീരാമ രാമ രാമേതി രമേ രാമേ മനോരമേ । സഹസ്രനാമ തത്തുല്യം രാമ നാമ വരാനനേ ॥ 27॥ശ്രീരാമനാമ വരാനന ഓം നമ ഇതി । ബ്രഹ്മോവാച — നമോഽസ്ത്വനന്തായ സഹസ്രമൂർതയേ സഹസ്രപാദാക്ഷിശിരോരുബാഹവേ । സഹസ്രനാമ്നേ പുരുഷായ ശാശ്വതേ സഹസ്രകോടിയുഗധാരിണേ നമഃ ॥ 28॥സഹസ്രകോടിയുഗധാരിണേ ഓം നമ ഇതി ।

സഞ്ജയ ഉവാച — യത്ര യോഗേശ്വരഃ കൃഷ്ണോ യത്ര പാർഥോ ധനുർധരഃ । തത്ര ശ്രീർവിജയോ ഭൂതിർധ്രുവാ നീതിർമതിർമമ ॥ 29॥ശ്രീഭഗവാനുവാച — അനന്യാശ്ചിന്തയന്തോ മാം യേ ജനാഃ പർയുപാസതേ । തേഷാം നിത്യാഭിയുക്താനാം യോഗക്ഷേമം വഹാമ്യഹം ॥ 30॥പരിത്രാണായ സാധൂനാം വിനാശായ ച ദുഷ്കൃതാം । ധർമസംസ്ഥാപനാർഥായ സമ്ഭവാമി യുഗേ യുഗേ ॥ 31॥ആർതാഃ വിഷണ്ണാഃ ശിഥിലാശ്ച ഭീതാഃ ഘോരേഷു ച വ്യാധിഷു വർതമാനാഃ । സങ്കീർത്യ നാരായണശബ്ദമാത്രം വിമുക്തദുഃഖാഃ സുഖിനോ ഭവന്തി ॥ 32॥കായേന വാചാ മനസേന്ദ്രിയൈർവാ ബുദ്ധ്യാത്മനാ വാ പ്രകൃതേഃ സ്വഭാവാത് । കരോമി യദ്യത് സകലം പരസ്മൈ നാരായണായേതി സമർപയാമി ॥ 33॥ഇതി ശ്രീവിഷ്ണോർദിവ്യസഹസ്രനാമസ്തോത്രം സമ്പൂർണം । ഓം തത് സത് ।

History


Belief


Vishnu Sahasranam Audio


All of Stuti/Stotram